गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 365, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० २ । क० १० ॥ ३२७
करता है, जो ऐसा जानकर अग्नीध्र [ अग्नि प्रदीप्त करने वाला पुरुष ] देवपत्नियों को
व्याख्या करता है ॥ ६ ॥
भावार्थः—विविध विद्याओं में चतुर पुरुष विविध विद्या वाले पुरुषों के मेल से
शत्रुओं को जीतकर संसार में कीर्ति पाता है ॥ ६ ॥
विशेषः—सङ्केतित मन्त्र अर्थ सहित दिया जाता है—
अग्नीषोमावदधुर्या तुरीयासीद् यज्ञस्य पक्षावृषयः कल्पयन्तः । गायत्रीं
त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् । अथ० ८ । ९ । १४ ॥
( यज्ञस्य ) यज्ञ [ रसों के संयोग वियोग ] के ( पक्षौ ) ग्रहण करने वाले ( अग्नीषोमौ )
सूर्य और चन्द्रमा [ के समान ] ( ऋषयः ) ऋषि लोगों ने, ( या ) जो [ वेदवाणी ]
( तुरीया ) वेगवती वा ब्रह्म की [ जो सत्त्व रज और तम तीन गुणों से परे चौथा है ]
( आसीत् ) थी, ( यजमानाय ) यजमान के लिये ( स्वः ) मोक्ष सुख ( आभरन्तीम् )
भर देने वाली [ उस ] ( गायत्रीम् ) गाने योग्य, ( त्रिष्टुभम् ) [ कर्म, उपासना और
ज्ञान इन ] तीन से पूजी गयी ( जगतीम् ) प्राप्ति योग्य, ( बृहदर्कीम् ) बड़े सत्कार
वाली ( अनुष्टुभम् ) निरन्तर स्तुति योग्य [ विराट् वा वेदवाणी ] को ( कल्पयन्तः )
समर्थन करते हुये ( अदधुः ) धारण किया है ॥
कण्डिका १० ॥
यथा वै रथ एकैकमरमभिप्रतिष्ठन् वर्तते, एवं यज्ञ एकैकां तन्वमभि-२
प्रतिष्ठन्नेति । पुरा प्रचरितोराग्नीधीये होतव्या एतद्व वा उवाच वासिष्ठः
सात्यहव्यः, अस्कन्नः१ सोम इत्युक्ते मा सूर्क्षत प्रचरत प्रातर्वावाहाहं सोमं संस्था-
पयामीति । नास्य सोम स्कन्दति, य एवं विद्वान्त्सोमं पिबति, स ह स्म वै
आसन्द्यामासीनः सक्तुभिरुपमथ्य सोमं पिबति, अहं वाव सर्वतो यज्ञं वेद, य
एतान् वेद, न मामेष हिंसिष्यतीति । नैनं सोमपीथोऽनपेयो हिनस्ति, य एवं
विद्वान्त्सोमं पिबति । तं ह स्म यदाहुः, कस्मात्त्वमिदमासन्द्यामासीनः सक्तुभि-
रुपमथ्य सोमं पिबसीति । देवतास्वेव यज्ञं प्रतिष्ठापयामीति अब्रवीद् ब्राह्मणः ।
यस्यैवं विदुषो यस्यैवं विद्वान् यज्ञातं यजे प्रायश्चित्तं जुहोति, देवतास्वेव यज्ञं
प्रतिष्ठापयति । यन्नार्त्ति प्रतिजुहुयात्, सयोनित्वाय । त्रयस्त्रिंशद्वै यज्ञस्य तन्व
इति, एकान्नत्रिंशत् स्तोमभागाः, त्रीणि सवनानि यज्ञश्चतुर्थः, स्तोमभागैरेवैतत्
स्तोमभागान् प्रति प्रयुङ्क्ते, सवनैः सवनानि, यज्ञेन यज्ञं, सर्वा ह वा अस्य यज्ञस्य
तन्वः प्रयुक्ता भवन्ति, सर्वा आप्ताः सर्वा अवरुद्धा देवस्य सवितुः प्रसवे बृहस्पतये
स्तुतेति । यद्यद्वै सविता देवेभ्यः प्रासुवत् तेनाध्नुवन्, सवितृप्रसूता एवं स्तु३वन्ति
१. पू. सं. अस्कन् इति पाठः, अर्थसङ्गत्याऽत्र संशोधितः । तुलना कार्या श० ब्रा० १ । ४ ।
५ । १, यजु० २ । ८ ॥ २. पू. सं. 'वसिष्ठ' इति पाठः ॥
३. अतीव व्यत्यस्तोऽत्र पाठोऽस्माभिः संशोधितः ॥ सम्पा० ॥