गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 188, कुल 600 में से
संदर्भ में पढ़ें१५० गोपथब्राह्मणे पूर्वभागे प्र० ३ । क० १० ॥
कण्डिका १० ॥
अथ ये पुरस्तादष्टावाज्यभागाः पञ्चप्रयाजा द्वावाघारौ द्वावाज्यभागावा-
ग्नेया आज्यभागानां प्रथमः सौम्यो द्वितीयो हविर्भागानां हविर्ह्येव सौम्यमाग्नेयः
पुरोडाशोऽग्नीषोमीय उपांशुयाजोऽग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदित्येते
मध्यतः पञ्च हविर्भागाः । अथ ये षट् प्राजापत्या इडा च प्राशित्रञ्च यच्चाग्नीध्रीया-
दद्यति, ब्रह्मभागो यजमानभागोऽन्वाहार्य्य एव षष्ठोऽथ य उपरिष्टादष्टावाज्य-
भागास्त्रयोऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुरष्टममथ या गायत्री हरिणी
ज्योतिष्पक्षा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकमभिवहति, वेदिरेव सा, तस्य ये पुरस्ता-
दष्टावाज्यभागाः स दक्षिणः पक्षोऽथ ये उपरिष्टादष्टावाज्यभागाः स उत्तरः पक्षः,
हवींष्यात्मा, गार्हपत्यो जघनमाहवनीयः शिरः सौवर्णराजतौ पक्षौ, तद्यदादित्यं
पुरस्तात् पर्य्यन्तं न पश्यन्ति तस्माज्ज्योतिष्क उत्तरो भवति । अथ या पङ्क्तिः
पञ्चपदा सप्तदशाक्षरा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकमभिवहति याज्येव सा, तस्या
ओं श्रावयेति चतुरक्षरम्, अस्तु श्रौषदिति चतुरक्षरं, यजेति द्वयक्षरं, ये यजा-
मह इति पञ्चाक्षरं, द्व्यक्षरो वै वषट्कारः, सैषा पङ्क्तिः पञ्चपदा सप्तदशाक्षरा
सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकमभिवहति, तद्यत्रास्यैश्वर्य्यं स्याद्यत्र वैनमभिवहेयुरे-
वंविद्मेव तत्र ब्रह्माणं वृणीयान्नानेवंविदमिति ब्राह्मणम् ॥ १० ॥
कण्डिका १०॥ कण्डिका ८ के यज्ञ सम्बन्धी प्रश्नों के उत्तर ॥
(अथ ये पुरस्तात् अष्टौ आज्यभागाः, आज्यभागानां पंचप्रयाजाः, द्वौ
आज्यभागौ द्वौ आघारौ आग्नेयौ, प्रथमः द्वितीयः सौम्यः) [सौदायन ने उत्तर
दिये - कण्डिका ८ देखो] फिर जो पहिले आठ आज्यभाग [घी की आहुतियां] हैं,
उन आज्यभागों में पांच प्रयाज [पांच प्राण देवता वाली आहुतियां-प्राणाः वै
प्रयाजाः-ऐतरेय ब्राह्मण १ । ११ । ५] दो आज्यभाग दो आघार [नामक आहुति]
दोनों आग्नेय [अग्नि देवता वाली] और पहिली और दूसरी सौम्य [एक सोम देवता की]
है। (हविर्भागानां हविः हि एव सौम्यम्, आग्नेयः पुरोडाशः, अग्नीषोमीयः
उपांशुयाजः अग्नीषोमीयः पुरोडाशः, अग्निः स्विष्टकृत् इति एते मध्यत पंचहवि-
र्भागाः) हविर्भागों में हवि ही सोम देवता का है १, अग्नि का पुरोडाश २, अग्नि और
सोम का उपांशु याज [मौन आहुति] ३. अग्नि और सोम का पुरोडाश ४, अग्नि का स्विष्टकृत्
[आहुति] है ५, यह मध्य के पांच हविर्भाग हैं। (अथ ये षट् प्राजापत्याः,
इडा च प्राशित्रं च यत् च आग्नीध्रीयौ अद्यति, ब्रह्मभागः, अन्वाहार्य्यः यजमान-
भागः, एव षष्ठः) और जो छः प्राजापत्य [प्रजापति देवता की] आहुति हैं उनमें
१०-(सौम्यः) सोमदेवताकः (उपांशुयाजः) अप्रकाशमन्त्रयज्ञः (प्राशि-
त्रम्-प्र + अश भोजने-इत्रन् । प्राशनम् (इडा) इल स्वप्नक्षेपगयोः-कः, टाप् ।
पृथिवी । गौः । वाक्, (अद्यति)-आर्षं दिवादिमत्वम् । अत्ति । भक्षति (अन्वाहार्य्य)
अनु + आ + हृञ् हरणे-ण्यत् । प्रतिमासकर्त्तव्याऽमावास्याविहितश्राद्धोपेतः ।