गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
६ कण्डिका ] गोभिलगृह्यसूत्रे— ८१
इति । अत्र ( तत्रापि च ) यजमान एव कर्ता । अतः परं ब्रह्मणः कर्म्मो-
पदिशति—अथेत्यादि । अथानन्तरं ब्रह्मा आसने-यजमानोपकल्पिते समा-
स्तृतदर्भे । उपविशति । तत्र मन्त्रमाह—आवसोरिति । अस्यार्थः । वसु ध-
नम् । (१)दक्षिणाद्रव्यम् । आ तस्यास्ते । सदने-कुशास्तरणस्थानेऽहं सीदाम्यु-
पविशामीति ॥ वीरेश्वरादिपद्धतिषु तु "ॐ आ(२)वसोः सदने सीद" इत्येवं
यजमानेन धृतदक्षिणकरः स्वासन उपवेशितोब्रह्मा "ॐ सीदामीति" ब्रूयादि-
त्युक्तम् ॥ १५ ॥
स खल्वयम्—
अग्निमभिमुखोवाग्यतः प्राञ्जलिरास्त आकर्मणः पर्यवसानात् ॥१६॥
अग्निमभिमुखः । आभिमुख्येनाग्नेरवस्थितः । तदभिमुख इत्यर्थः । वाग्यतः
संयतवाक् । प्राञ्जलिः कृताञ्जलिपुटः सन्नास्ते-उपविशति । कियन्तं का-
लम् ? आ कर्मणः पर्यवसानात् । कर्म्मसमाप्तिपर्यन्तमित्यर्थः ॥ १६ ॥
वाग्यत इत्यत्र प्रतिप्रसवमाह—
भाषेत यज्ञसंसिद्धिम् ॥ १७ ॥
यज्ञसंसिद्धिम—“अधिकृत्ये”—ति शेषः । होत्राऽन्यथा क्रियमाणे कर्म्मणि
तत्संसिद्ध्यर्थमेतदेवं कुरुष्वैतत्कुरुवैतत्कुरुष्वेत्यादि भाषेत । एतदन्यत्रास्य वाग्य-
तत्वमित्यर्थः । कृताऽकृताऽवेक्षणं हि तत्कर्म निर्दिष्टं च च “ब्रह्मा चतुर्विद्योभव-
ती”ति । चतुर्विद्यः(३) सर्वार्थविदिति सर्वङ्कर्म यथावदुपदेष्टुमीष्टे । तथाचै-
तदन्यत्रास्य मौनमुक्तम्भवति ॥ १७ ॥
तदेवाह—
नायज्ञियां वाचं वदेत् ॥ १८ ॥
अयज्ञियाम् । यज्ञा(४)नर्हाम् । संस्कृतामपि वाचन्न वदेत् । कुतः पुनर-
संस्कृताम् । यत्र हि “साधुभिर्भाषितव्यं न म्लेच्छितवै-(५)नापभाषितवै” इति
श्रुतिर्विरुध्यते ॥ १८ ॥
( १ ) “द्रव्यं वित्तं स्वापतेयं रिक्थम्ऋक्थं धनं वसु” इत्यमरः । लिङ्गव्यत्यय आर्षः ।
( २ ) मन्त्रार्थस्तु-हे ब्रह्मन् ! त्वं वसोर्दक्षिणाग्नेः सदने-आसीद् उपविश । अत्राडो
व्यवहितप्रयोगः ( पा० १।४।८२ ) छान्दसः ॥ इत्येवमेके व्याचक्षते । एतत्तत्त्वमग्रेऽनुपदं
स्फुटीभविष्यति ॥
( ३ ) चतस्रोविद्या यस्य सः ।
“आन्वीक्षिकी त्रयी वार्त्ता-दण्डनीतिश्च शाश्वती ।
विद्या ह्येताश्चतस्रश्च कर्म्मसंस्थितिहेतवः” ॥ इत्याग्नेयं वचनम् ।
( ४ ) अत्र “यज्ञर्त्विग्भ्यां घञ्खौ” (पा० ५।१।७) इत्यर्हार्थे घस्येयः । (पा०७।१।२)
( ५ ) अत्र तव्यार्थे तवै छान्दसः ( पा० ३।४।१४ ) अस्यैव व्याख्यानं “नापभा-
षितवा” इति ।
११ गो० गृ० सू०
Here is the complete, line-by-line transcription of the Sanskrit text from the image into clean Markdown in Devanagari:
८२ अथ दर्शपूर्णमासविधिः । [ १ प्रपाठके-
यद्ययज्ञियां वाचं वदेत् वैष्णवीमृचँयद्यजुर्वा जपेत् ॥ १९ ॥
यदि-कुतश्चित्कारणात्(१) अयज्ञियां यज्ञानर्हां वाचं वदेत्तर्हि वैष्णवीं वि-
ष्णुदेवताकामृचम् “इदंविँष्णुर्र्विचक्रमे”-इत्यादिलक्षणाम्। तदज्ञाने-यजु
रपि(२) “विष्णोस्राटमसि” इत्यादिकम्। जपेद्दोषशान्त्या इत्यर्थः ।
“प्रमादात्कुर्वताङ्कर्म प्रचवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्णं
स्यादिति श्रुतिः” इति स्मृत्यन्तराभिधानञ्चात्रोद्बलकं द्रष्टव्यम् ॥ १९ ॥
अपि वा “नमोविष्णवे” इति ब्रूयात् ॥ २० ॥
अपि वा-अथवा । तयोरज्ञानदशायां क्रियालाघवेन वा । विष्णुस्मरणमा-
त्रस्य विधेयस्य ता
नयोरपि" is slightly different: it has 'त्वा' or 'त्या'?
Wait, the idiom is: "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति श्रुत्याऽनयोरपि काम्यत्वम् । 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेते'ति श्रुत्या च नित्यत्वम् ।"
Both are "श्रुत्या"! Because both cite a śruti: one śruti gives kāmyatva, the other gives nityatva!
Wait, let's look at the print: does it have 'त्त्वा' or 'त्या'?
Ah, it's 'त्या'! "श्रुत्याऽनयोरपि". Wait, let's look at the letter:
श्रु + त् + य + ा = श्रुत्या. Wait, is that a 'ब'/'व'? Look at the circle: it looks like 'श्रुत्वा'! Many 19th-century prints had typos like 'श्रुत्वा' for 'श्रुत्या'. Let's look very carefully at the image at line 31:
श्रु - त् - [?] - ऽ - न - यो - र - पि.
It is: श्रु, then त, then below it is a loop like 'वा' or 'या'? It is 'त्वा'! It really is printed as "श्रुत्वाऽनयोरपि" or "श्रुत्याऽनयोरपि"? Wait, look at 'श्रुत्या' at the
संख्या प्रोक्ता अङ्गिरसाः—
'ब्रह्मविष्टरसंज्ञौ द्वौ बर्हिषः समुदाहृतौ ।
कतिभिस्तु भवेद्ब्रह्मा कतिभिर्विष्टरः स्मृतः ? ॥
पञ्चाशद्भिः शरैर्ब्रह्मा तदर्द्धेन तु विष्टरः ।
ऊर्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः ॥
दक्षावर्त्तो भवेद्ब्रह्मा वामावर्त्तस्तु विष्टरः ।” इति ॥
कुशैरित्युपलक्षणं, तेन “पञ्चाशत्तृणकाब्रह्मा तदर्द्धेन तु विष्टरः” इति वचनं
संगच्छते । एवञ्चकातीयसङ्ख्यानियमोक्तिरेतावत्कुशाद्यभावे इति द्रष्टव्यम् २१
इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “मृदुला”ssख्यायां मुकुन्दशर्म्मसङ्कलितायां
प्र० प्रपाठकस्य षष्ठी कण्डिका ॥ १ ॥ ६ ॥ * ॥
अथ सप्तमी कण्डिका—
अथोलू(दू)खलमुशले प्रक्षाल्य शूर्पञ्च पश्चादग्नेः प्रागग्रान् द-
र्भानास्तीर्योपसादयति ॥ १ ॥
अथ द्रव्याण्यासाद्य (१)सम्प्रोक्ष्य च पूर्वमासादिते उलू(दू) खलमुशले
शूर्पञ्चेत्येतत्त्रयम्—
“मुशलोलूखले(२)वार्क्षे स्वायत्तौ सुदृढौ तथा ।
इच्छाप्रमाणे भवतः शूर्पं वैणवमेव च ॥”
इति कर्म्मप्रदीपोक्तलक्षणं प्रक्षाल्य पश्चादग्नेः प्रागग्रान्दर्भान्नास्तीर्य तत्रो-
पसादयति–स्थापयेदित्यर्थः(३) । पूर्वं खल्वग्नेरुत्तरतः समासादितानां शूर्पोल्लू-
( १ ) अथात्र चन्द्रकान्तभाष्ये विशेषः । अत्राथेति विशिष्टमानन्तर्यं द्योतयति कि-
न्तत् ? यथोपयोगमुत्तरतोऽग्नेर्द्रव्याणामधोमुखानामुदगग्राणां पूर्वपूर्वक्रमेणासादनम् ।
वोक्षणं प्रोक्षणाद्भिः कृत्वा । तथाच कर्म्मप्रदीपः—
“प्रागग्रे प्राङ्मुखोऽग्नेरुदगग्रं समीपतः ।
तत्तथाऽऽसादयेद्द्रव्यं यद्यथा विनियुज्यते ॥” इति ।
साङ्ख्यायनगृह्यञ्च ।
“उत्तरतोऽग्नेर्यथोपयोगमवाञ्चि पात्राण्यासादयेत्” इति ।
“द्रव्याणामुपक्लृप्तानां होमीयानां यथाक्रमम् ।
सादन्यन्वीक्षणङ्कुर्यादद्भिरभ्युक्षणन्तथा” ॥ इति च स्मृत्यन्तरम् ॥
( २ ) पलाशखादिरयज्ञियकाष्ठनिर्मिते । अत्र “शूर्पन्तवैषीकमेवतु” इति क्वचित्पाठस्त-
त्राप्यैषीकपदं वैणवस्याप्युपलक्षणम् । स्मृत्यन्तरसंवादात् ॥
( ३ ) योऽङ्गविधौ द्रष्टव्य इदमङ्गेऽपीत्युक्तमधस्तान्न विस्मर्त्तव्यम् ।
७ कण्डिका ] गोभिलगृह्यसूत्रे— ८५
खलमुशलानामिदानीमग्नेः पश्चिमतः स्थापनं कर्त्तव्यम् निर्वापार्थम् ॥ १ ॥
अथ हविर्निर्वपति व्रीहीन्वा यवान्वा कंसेन चरुस्थाल्या वा ॥२॥
अथेति । उलूखलमुशलासादनानन्तरम् । इत्यर्थः । हविर्हवनीयं निर्वप-
ति—उलूखले निःक्षिपेत् । हविर्विशेषाकाङ्क्षायामाह-व्रीहीन्वा (१)यवान्वा ।
वाशब्दौ तुल्यवद्विकल्पार्थौ । एवमग्रेऽपि । निर्वापसाधनमाह कंसेनेति । तत्र
कंसं(२) वर्त्तुलाकारयज्ञियपात्रभेद इति शब्दकल्पद्रुमः । "कंसोऽस्त्री तैजस-
द्रव्ये कांस्ये माने ऽखुरे तु ना" इति मेदिनी । "कंसोऽस्त्री पानभाजन-
मि"त्यमरः ॥ २ ॥
तत्र मन्त्रमाह—
“अमुष्मै त्वा जुष्टं निर्वपामी”ति देवतानामादेशं सकृद्दिस्तूष्णी
गर्भी?
Notice L31: तदन्तर्गर्भं गर्भिदलम् । तदस्यास्तीति अन्तर्गर्भि । गर्भात्तृतीय-दलम् । तद्भिन्नमनन्तर्गर्भिणम् ।
Yes! "गर्भात्तृतीयदलम् । तद्भिन्नमनन्तर्गर्भिणम् ।"
So L30 is: गर्भभिन्नमिति or गर्भिमिन्नमिति or गर्भिभिन्नमिति!
Look at L30: ग, र्भि, then मि or भि? It has a circle, but no top line rupture: it looks like मि! A typesetter's typo for भि: गर्भिमिन्नमिति or गर्भभिन्नमिति? Wait, let's look at मि in यावदिति: exactly the same shape!
So it literally says गर्भिमिन्नमिति (typo for गर्भिभिन्नमिति or गर्भभिन्नमिति).
- L31:
अन्तर्गतोगर्भोयस्य तदन्तर्गर्भं गर्भिदलम् । तदस्यास्तीति अन्तर्गर्भि । गर्भात्तृतीय-
Wait, is itगर्भिसदृशम्orगर्भिदलम्?
Look at the letters:ग,र्भि,द,ल,म्->गर्भिदलम्!
Next sentence: `तद
७ कण्डिका ] गोभिलगृह्यसूत्रे— ८७
“श्रापाके” ण्यन्ताल्लिङ् । पुगागमः । मित्त्वाद्ध्रस्वत्वमुपधायाः (पा० ६।४।९२)
तस्माद्दग्धमकठिनमनतिशिथिलमवीतरसं, लोकप्रसिद्धेः । कर्मप्रदीपोऽप्याह—
“स्वशाखोक्तविधिश्विन्नोह्यदग्धोऽकठिनः शुभः ।
न चातिशिथिलः पाच्योन च वीतरसश्चरुः ॥”
इति । प्रदक्षिण-दक्षिणावर्त्तं यथाभवति तथा मेक्षणेनोक्तलक्षणेन (१।५।१९)
उदायुवन् “युमिश्रणे” (अ० प० ) इति स्मरणादूर्ध्वमौषन्मिश्रयन् । श्रपये-
दिति सम्बन्धः । मेक्षणेनेति तु “तस्मिन्नेवाग्नौ श्रपयत्योदनञ्चरुञ्च मांसञ्च-
रूञ्च पृथङ्मेक्षणाभ्यां प्रदक्षिणमुदायुवन्” इति (४।२।१४) अग्रिमसूत्रात् ॥७॥
शृतमभिघार्योदगुद्वास्य प्रत्यभिघारयेत् ॥ ८ ॥
शृतम्पक्वचरुम् । अभिघार्य-स्रुवगृहीतेनाज्येनाप्लाव्य । उदगुत्तरस्या-
मग्नेः । उद्वास्य उत्तार्य्य प्रत्यभिघारयेत् पुनस्तथाऽऽप्लावयेत् । गृह्यसंग्रहे—
“पवित्रमन्त(१)रा कृत्वा चरुम्प्राञ्चोऽभिघारयेत् ।
उद्वास्य चैवं विधिवद्देवन्तन्त्र न लुप्यते ॥” इति ॥
“चतुर्मुष्टिंश्चरुः कार्यश्चतुर्णामुत्तरोऽपि वा” इति च ॥ ८ ॥
अग्निमुपसमाधाय कुशैः समन्तं परिस्तृणुयात्पुरस्ताद्दक्षिणत उत्त-
रतः पश्चादिति ॥ ९ ॥
अग्निम् उपसमाधाय-समिद्भिः समिध्य ( प्रज्वाल्य ) कुशैः पूर्वासदितै-
र्बर्हिःस्वरूपैः ( विशाखाप्रतिलूनैः ) ( १।५।१६ ) समन्तं—समन्तात् । सर्वतः
सर्वासु दिक्षु ) अग्नेर्बहिः । परिस्तृणुयात्—आच्छादयेत् । “स्तॄञ्-आच्छादने”
( स्वा० उ० ) लिङ्विधौ । स्तरणक्रममाह पुरस्तादिति । पूर्वस्यां दक्षिणास्यामु-
त्तरस्याम्पश्चिमायामित्येवं क्रमेणेत्यर्थः । अत्र समन्तमिति द्वितीया पञ्चम्यर्थे
व्यत्ययेन । ( ३।१।८५ ) समस्तमिति पाठः प्रामादिकः ॥ ९ ॥
सर्वतस्त्रिवृतं पञ्चवृतं वा ॥ १० ॥
सर्वतः सर्वासु दिक्षु । त्रिवृतं-त्रिवारं, पञ्चवृतं-पञ्चवारं वा । परिस्तृणुया-
दित्यनुवर्त्तते ॥ १० ॥
अथ कथम्पुनरेकं परिस्तरणं सम्पद्यते ? यस्य त्रिःपञ्चकृत्वोवा करणमुप-
दिश्यते ? । तदुच्यते—
बहुलमयुग्मंसंहतम् ॥ ११ ॥
बहुलं-बहुत्तृणकम् (२) । अयुग्माः (३)संहताः परस्परं संलग्नाः कुशा यत्र
( १ ) पवित्रान्तर्हितं कृत्वेत्यपिपाठः क्वचित् ॥
( २ ) बहून्कुशान् लाति गृह्णातीति बहुलम् । परिस्तरणक्रियाविशेषणमेतत् ।
( ३ ) मुरारिमिश्रास्तु-अयुग्मञ्च तत्संहतञ्चेत्ययुग्मसंहतम् । त्रिवृतं पञ्चवृतं वेत्यने-
८८ दर्शपूर्णमासविधिः । [ १ प्रपाठके-
तत् । तदेवं प्रतिदिशमयुग्मैः परस्परसंलग्नैः कुशैरेकम्परिस्तरणं सम्पद्यते ।
तस्य खल्वस्य त्रिः पञ्चकृत्वो वा करणमुपदिश्यत इत्यर्थः । तदिदं परिस्तरणं
पूर्वस्यामुत्तरान्ताद्दक्षिणान्तं यावत् । दक्षिणायां पूर्वान्तात्पश्चिमन्तं यावत् ।
यथा दक्षिणस्यान्तथोत्तरस्याम् । यथा पूर्वस्यान्तथा पश्चाद्दिशि कर्त्तव्यम् । प-
रिस्तरणक्रियाविशेषणमेतत्सर्वन्द्वष्टव्यमिति मुरारिमिश्राः प्राहुः(१) ॥ ११ ॥
अथेदानपरिस्तरणप्रकारोऽभिधीयते--
प्रागग्रैरग्रैर्मूलानि च्छादयन् ॥ १२ ॥
प्राक् प्रथमं पतितान्यग्राणि येषान्तैस्तथाभूतैः कुशैः समन्तं परिस्तृणुया-
दिति सिंहावलोकितेन समन्वयितव्यम् । तथैव कर्म्मठप्रसिद्धेः । कथमित्यपे-
क्षायामाह-अग्रैरिति । अग्रमूलक्रमेण स्थापिनकुशानामूलानि स्थाप्यमानकु-
शाग्रैश्छादयन्नीशानादाग्नेयान्तं वायव्यान्रैर्ऋतान्तं प्राक् प्रतीच्योः । प्राक्प्रत्य-
क्क्रमेण च दक्षिणोत्तरयोरित्येष परिस्तरणक्रम आयाति । किन्तु-“प्राङ्युदञ्चि
वा कर्म्माणि सन्तिष्ठन्ते" इति श्रुतेराजानिकशिष्टाचापरिगृहीतत्वादाग्नेय्या-
मुत्तराग्रास्तीर्णकुशाग्राधस्तादास्तीर्य्यमाणकुशमूलङ्कार्य्यमित्येवमुदक्संस्था भवति ।
तथाच साङ्ख्यायनीये-“प्रागग्रैः कुशैः परिस्तृणो”ति-इत्युपक्रम्य “सर्वाश्चावृत्तो-
दक्षिणाप्रवृत्तय उदक्संस्था भवन्ति” इत्युक्तम् । आवृत्तः प्रक्रियाः परिपाट्योवां
“आवृत्पर्रिपाटी अनुक्रमः” इत्यमरः ।। आश्वलायनोऽपि-“दिक्षु सर्वासूद-
क्संस्था-प्राच्यादिषु परिस्तृतिः” इत्युक्तवान् । अतएव पार्वणे पश्चिमादारभ्य
पूर्वान्तम् । आभ्युदयिकेच दक्षिणादारभ्योत्तरान्तमर्ध्यादिक्रमः सकलशिष्टा-
चारपरिगृहीत उपलभ्यते । वीरेश्वरादयोऽपि-“आग्नेयादीशानान्तम्” इत्येवं
परिस्तरणक्रमं स्वपद्धतौ वाजसनेयके लिखन्ति स्म । यत्तु-प्रागग्रैरित्यनेन प्रा-
क्पश्चिमयोरपि पूर्वाग्राणामेव कुशानाम्परिस्तरणमिति केषाञ्चिन्मतं तत्र परि-
धिकार्य्यनिर्वाहकताऽग्रे (१।७।१६) वक्ष्यमाणा नोपपद्यते । इति द्रष्टव्यम् ॥१२॥
परिस्तरणे प्रकारान्तरमाह-
पश्चाद्वाऽऽस्तीर्य दक्षिणतः प्राञ्चं प्रकर्षति तथोत्तरेण ॥१३॥
वा-अथवा। पश्चात्--प्रतीच्यामग्रैः । प्राच्यामिवास्तीर्य । दक्षिणतः--
दक्षिणास्यां, प्राञ्चं पूर्वपूर्वाप्रक्रमेण यथास्यात्तथा (अग्रैर्मूलानिच्छादयन्)
प्रकर्षति । प्रकीर्णयति । ( परिस्तृणाति ) तथा-तेनैव प्रकारेण । उत्तरेण उत्त-
नैवायुग्मत्वे प्राप्ते एकत्रृत्तस्यापि प्राप्यर्धमिदम् “शब्दाधिक्यादि”--तिन्यायात् । तथा-
चशृङ्गान्तरम्-“सकृत्त्रिर्वा प्रदक्षिणं प्रतिदिशमग्नेरि”—ति । संहतमन्तरालशून्यं, सर्व-
मिदं क्रियाविशेषणमिति द्रष्टव्यम् । अत्रप्रदक्षिणमिति शाखान्तराभिप्रायमित्याहुः ॥
( १ ) अत्रारुचिविशेषोऽनुपदं मूलएव द्रष्टव्यः ॥
७ कण्डिका ] गोभिलगृह्यसूत्रे- ८६
रतः । पूर्वतस्तुसूर्य्यएव कार्यनिर्वाहको भावनया याज्ञिकानामित्यवगन्त(१)-
व्यम् ॥ १३ ॥
दक्षिणोत्तराण्यग्राणि कुर्यात् ॥ १४ ॥
दक्षिणानि च तान्युत्तराणि चेति दक्षिणोत्तराणि । अग्राणि । “कुशाना-
म्” इति शेषः । पश्चात् पुरस्ताद्वा यानि बर्हींषि स्तृतानि भवन्ति । तेषामग्राणि
दक्षिणोत्तरक्रमेण कुर्यात् इत्यर्थः । गृह्यवृत्तिकृतोभट्टनारायणोपाध्यायास्तु--पूर्व-
सूत्रे--उभयहस्तेन कुशान् गृहीत्वा दक्षिणहस्तगृहीतैर्दक्षिणत परिस्तृणाति । स-
व्यहस्तगृहीतैरपि सव्यत इत्यभिधायात्र सूत्रे दक्षिणहस्तगृहीतकुशाग्राणि उत्त-
राणि-उपरिष्टात् ऊर्ध्वम्पूूर्वस्यां दिशि, अर्थात्सव्यहस्तगृहीतान्यधराणि पश्चाद्दि-
शि इत्यर्थ इत्याहुः । महाममहो-मुरारिमिश्रास्तु—दक्षिणहस्तगृहीतकुशाग्राणि
उत्तराणि-उपरिष्टात्कुर्यान् । एवञ्चार्थात्सव्यहस्तगृहीतानि अधराणीत्यर्थ इत्या-
हुः । कतमोऽर्थोऽत्र याज्ञिकावृत्तिसिद्ध इति विद्वांस एव विदाङ्कुर्वन्तु ॥ १४ ॥
एष परिस्तरणन्यायः सर्वेष्वाहुतिमत्सु ॥ १५ ॥
एषोऽनन्तरोक्तः परिस्तरणस्य न्यायः प्रकारः । सर्वेष्वाहुतिमत्सु । यत्र ३
आहुतयस्तत्र २ भवति । अन्यत्र सायंम्प्रातर्होमादिभ्यः । तथाच कात्यायनः—
“यान्यधस्तरणानाम्नान्न तेषु स्तरणं भवेत् ।
एककार्यार्थसाध्यत्वात्परिधीनपि वर्जयेत् ॥”
इति । स्तरणाम्नानादधः पूर्वं यानि आम्नातानि प्रातर्होमादीनि तेषु स्तरणं
न भवेत् , एकेति-स्तरणवैकल्पिकान्-स्तरणैककार्यकारित्वात्परिधीनपि तेषु
वर्जयेदित्यर्थः ॥ १५ ॥
कुशानां परिधीनाञ्च (२)खल्वभावे---
परिधीनप्येके कुर्वन्ति शामीलान्पार्णान्वा ॥ १६ ॥
परिधीन्—
“बाहुमात्राः परिधय ऋजवः सत्वचोऽव्रणाः ।
त्रयामवन्त्यशीर्णाग्रा एकेषान्तुचतुर्दिशम् ॥”
इति कर्मप्रदीपोक्तलक्षणसंख्याकानपि । एके आचार्याः कुर्वन्ति । परि-
स्तरणार्थम् । तानेव विशिनष्टि-शामीलान्-शमीमयान् । “शम्याः ष्ल्ञ्” (पा०
४।३।१४२) इति विकारार्थे प्रत्ययः । तदलाभे पार्णान्-पलाशमयान् वा । “प-
लाशे किंशुकः पर्णोवातपोथः” इत्यमरः ॥ परिधीनां विन्यासप्रकारमाह-कर्म-
( १ ) परिस्तरणं कुशानान्देवतोपवेशनार्थेति तान्त्रिकप्रसिद्धिः । असुरोपघातनि-
वृत्तये च परिधिः । तथाचानुपदं सूत्रयिष्यति-“परिधीनप्येके कुर्वन्ती”ति ॥
( २ ) तथाच गृह्यान्तरम् “दर्भाणां स्थाने शरैः प्रस्तरितव्यम्” इति । शरैरित्युप-
लक्षणम् ॥
१२ गो०गृ० सू०
९० अथ दर्शपूर्णमासविधिः । [ १ प्रपाठके-
प्रदीपः-
“प्रागग्रावभितः पश्चादुदगग्रमथापरम् ।
न्यसेत्परिधिमन्यञ्चोदगग्रः स पूर्वतः ॥” इति ।
अत्र-एके कुर्वन्तीत्यनेनैतदपि सूचयत्याचार्यः । स्तरणकल्पे परिधिरनर्थ-
कः । स्तरणेनैव तत्कार्यस्य कृतत्वात् । परिधिर्हि-असुरोपघातप्रतिषेधाय चतु-
र्दिक्षु क्रियते । गृह्यसङ्ग्रहेतु—
“परिधींस्तु न कुर्वीत गृह्यकर्मसु याज्ञिकः ।
उदकाञ्चलयस्तिस्रस्ते वै परिधयः स्मृताः ॥”
इत्युक्तम् ॥ १६ ॥
उत्तरतोऽपां पूर्णः स्रुवः प्रणीता ॥ १७ ॥
उत्तरत उत्तरस्यान्दिशि अग्नेः । अपाम्-अद्भिः । शेषे षष्ठी (पा०२।३।५०)
उदकेन पूर्णः सम्भृतः । स्रुवोयथोक्तलक्षणः । स एव प्रणीता-तत्कार्यकृद्भवति ।
तदनेन संस्कारविशेषादप एवाभिधीयन्ते ताभिश्च पर्युक्षण-पवित्रमार्जनाद्य
उदकार्थाः कर्त्तव्या इत्यभिप्रायः । “प्रणीताभिरुदकार्थः कार्य” इति च गृह्या-
न्तरम् । अत्र गृह्यसङ्ग्रहे- “विहितप्रतिषिद्धाञ्च प्रणीतां नोपकल्पयेत्” इति ।
प्रणीतान्तत्पात्रम् ॥ १७ ॥
भावे न वा स्यादित्येके ॥ १८ ॥
भावः सत्तेत्यर्थान्तरम् । भावे अन्यस्य महतः पात्रस्य प्रणीतादेः । अन-
न्तरोक्तः स्रुवः प्रणीतार्थकृ(१)न्नवा नैव स्यादित्येके आचार्या मन्यन्ते ॥१८॥
बर्हिषि स्थालीपाकमासाद्येध्ममभ्याधायाज्यꣳसंस्कुरुते ॥ १९ ॥
बर्हिषि आस्तृते स्थालीपाकं चरुम् । आसाद्य-स्थापयित्वा इध्ममित्येकव
चनं जात्यपेक्षमिध्मान्यथोक्तानभि-आत्मनोऽभिमुखम् आधाय-“इध्मोऽप्येधा-
(२)र्थमेवाग्नेर्हविराहुतिषु स्मृतः” इति कर्म्मप्रदीपदर्शनादमन्त्रकमग्नौ प्रक्षिप्य ।
अन्यत्राङ्ग(३)होमादिभ्य इति चन्द्रकान्तभाष्यम् । भट्टनारायणोपाध्याया अ-
प्येवमेवाहुः । वस्तुतः समन्त्रकमिध्मस्येन्धनस्याप्याधनं वचनबलात् । तथा-
( १ ) चन्द्रकान्तभाष्ये तु-स्याद्वाऽदृष्टार्थमिति वाशब्दस्वारसिकार्थमाहुः ।
( २ ) इन्धनमेधः । एधार्थमग्निसमिन्धनार्थम् ॥ “ञिइन्धीदीप्तौ” (रु० आ०) अ-
स्माद् घञि निपातः । (पा० ६।४।२९) ॥ “इध्ममेधः समित्स्त्रियाम्' त्यमरः ।
( ३ ) कात्यायनः-“अङ्गहोम-समित्तन्त्र-सोष्यन्त्याख्येषु कर्मसु । येषाञ्चैत-
दुपयुक्तेषु तत्सहशेषु च ॥ अक्षभङ्गादिविपदि जलहोमादिकर्म्मणि । कृत्याहुतिषु स-
र्वासु नैतेष्विध्मो विधीयते ।” इति । अङ्गहोमाः सर्वप्रायश्चित्तादयः । समित्तन्त्रं-ब्रह्म-
चारिणां समिदाधानहोमः । येषामिति-येषाङ्कर्मणामुपरि सूत्रकृता इध्मोविहितस्तेषु
तत्सदृशेषु क्षिप्रहोमादिषु चेत्यर्थः ॥ _ क्षिप्रहोमोऽनुदितदिहोमः ॥
७ कण्डिका ] गोभिलगृह्यसूत्रे— ९१
चाङ्गिराः—
“इध्मसन्नहनाधानं चरुश्रपणमेव च ।
तूष्णीमेतानि कुर्वीत समन्त्रञ्चेध्ममादहेत् ॥”
इति । यद्यपि समन्त्रकत्वे तूष्णीमिति विरुद्धम् । तथापि-तूष्णीमिति द-
र्शनान्मन्त्रस्य स्मरणमात्रं न तु पाठोऽतोन विरोधः । अतएव प्रजा(१)पति-
म्मनसा ध्यात्वेति वीरेश्वरादिपद्धतिषु समिदाधान उक्तम् । मन्त्रश्चात्र महाव्या-
हृतिरूप एव । तदुक्तं छन्दोगपरिशिष्टे—
“आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते ।
मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥”
इति । अनादेशे-अविधाने । “होमद्रव्यस्ये”ति शेषः । मन्त्रस्य देवतायाश्चे-
त्यत्रानादेश इति सम्बध्यते । मन्त्रस्यानादेशे प्रजापतिदेव(२)ताको महाव्याहृति-
मन्त्रः । स च
९२ दर्शपूर्णमासविधिः । [ १ प्रपाठके
अङ्गिराः—
“इध्मः समानवृक्षाणां द्विप्रादेशः प्रमाणतः ।”
कात्यायनोऽपि—
“समिधोऽष्टादशेध्मस्य प्रवदन्ति मनीषिणः ।
दर्शं च पौर्णमासे च क्रियास्वन्यासु विशतिम् ॥” इति ।
तथा—
“मूलमध्याग्रदेशेषु ईषत्सिक्तांस्तु निर्वपेत् ।”
इति । अयञ्च सेको घृतादिनैव । अत एवोक्तं वीरेश्वरादिभिः स्वस्वपद्धतौ
“मूलमध्याग्रक्रमेणघृताक्तानि”ति । स्थौल्यादिकन्तु यथोक्तं ( २।२।७ ) धर्म्मा-
न्तरमिध्मस्य । समित्समानमेव ग्राह्यम् । तथाच समित्स्वरूपमुक्त्वा कात्यायनः—
“प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्त्तितम् ।
एवं विधाः स्युरेवेह समिधः सर्वकर्म्मसु ॥”
इति । इह गृह्यकर्म्मणि । समिध्यतेऽग्निरेभिरिति व्युत्पत्त्या समिध इध्मा
एवं विधा एव समित्समाना एवेत्यर्थ इति मुरारिमिश्राः । आज्यमिति । अन-
(१)क्त्यनेनेत्याज्यं सर्पिरादि । संस्करुते-संस्कुर्याद्वक्ष्यमाणेन विधिना ॥ १९ ॥
किन्तदाज्यन्तदाह—
सर्पिस्तैलं दधि पयो यवागूं वा ॥ २० ॥
सर्पिर्घृतम् “घृतमाज्यं हविस्सर्पिः” इत्यमरः । तैलम् तिलस्नेहम् । यवा-
गूः । भृष्टयवचूर्णं षड्गुणजले ( दुग्धे वा ) सिद्धं द्रवद्रव्यम् । यूयते मिश्रय-
तेऽसाविति “युमिश्रणे” (अ०प०) इत्यस्मात्कर्म्मणि ( उ० ३।८१ ) अगूच्प्र-
त्ययः । “यवागूः षड्गुणजले सिद्धा स्यात्कृशरा घना” इति शार्ङ्गधरीये
(म०खं०२अ०) अत्र पूर्वपूर्वासम्भवे उत्तरोत्तरोपादानमिति द्रष्टव्यम् ॥ सर्व-
मेतदाज्यमुच्यते तदाह गृह्यासङ्ग्रहे कात्यायनः—
“अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा ।
ऋतुभिरेव यत्पूतन्तदाज्यमितरद् घृतम् ॥
घृतं वा यदि वा तैलं पयो वा यदि यावकम् ।
आज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते ॥” इति ।
यावकम् । यवागूः ॥ २० ॥
आज्यसंस्कारप्रकारमाह—
तत एव वर्हिषः प्रादेशमात्रं पवित्रे कुरुते ॥ २१ ॥
( १ ) “अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० ) इत्यस्मात् “अञ्जेः संज्ञा-
याम्” ( पा० ३।१।१०९ वा० ) इति क्यपि बाहुलकाद्वृद्धिः । तेनाञ्जन-(स्निग्धीकरण)
साधनमुच्यते । यत्तु इज्यत अनेनेति आज्यमिति चन्द्रकान्तभाष्यादावुक्तन्तदर्थसङ्गति-
मनुसृत्य व्याख्यानमात्रम् ॥
तत—स्तृतादेवेत्यर्थे इति कौमुदी। तत्रायमाशयः। तत्पदस्य पूर्वप्रक्रान्त-
वाचकत्या स्तृतस्य चाव्यवहितोपस्थितत्वात्तत्परामर्शौचित्यात्। न च विनि-
युक्तविनियोगविरोधः। औपदेशिकत्वात्। यथा "व्रीहीन्प्रोक्षती"त्यादौ प्रो-
क्षितानामेव व्रीहीणामवघातान्वयः। न च तत्र "प्रोक्षिता व्रीहयोऽवघाताय
कल्पन्त" इति स्मरणात्सामानाधिकरण्यानुरोधात्तथोपदेशोगम्यत इति न दोष
इति वाच्यम्। अत्रापि तत्पदस्य प्रक्रान्तवाचकत्वोपदेशसत्त्वात्। अत एव
“न तर्हि बर्हिष इवे"ति कुसुमाञ्जलौ वर्द्धमानचरणैर्बर्हिष इवेति व्यतिरेके
दृष्टान्त इत्युक्तम्। धीरवीरादिपद्धतिरप्येवमेव। भाष्यकृतस्तु—तत एव वि-
स्तीर्णशेषादेवेति व्याचक्षते—
“स्तृतेभ्यो न प्रचिनुयाद्यातयामं स्तृतं स्मृतम्”
इति स्तृतनिषेधात्तेन च स्तरणक्रिययैकदा नियमादृष्टजननात्तैनैव पवित्रकरणे
विनियुक्तविनियोगविरोधाच्चानास्तृतादेव ग्रहणमुचितमिति तेषामाशयः। प्रादे-
शमात्रे—विस्तृततर्जन्यङ्गुष्ठप्रमाणे । प्रमाणेऽर्थे मात्रच्प्रत्ययः (पा० ५।२।३७)
पवित्रे कुरुते इति द्विवचनन्दलापेक्षम्। प्रादेशमात्रस्य वर्हिर्द्वयस्य खल्वत्र पवि-
त्राकरणमुपदिश्यते। न हि द्विदलपवित्रस्य द्वित्वं शक्यते वक्तुम्। वर्हिषः प्रादे-
शमात्र इत्यभिधानात्। तथाच कर्म्मप्रदीपे कात्यायनः—
“अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च।
प्रादेशमात्रं विज्ञेयम्पवित्रं यत्र कुत्रचित्॥”
एतदेव हि पिञ्जल्या लक्षण समुदाहृतम्।
आज्यस्योत्पवनार्थंयँत्तदप्येतावदेवतु॥” इति।
“समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति”
इति च ब्राह्मणम्। अत एव शुभकर्म्मनिर्णये— “नन्वनन्तर्गर्भिणं साग्रं
कौशं द्विदलमेवचे”ति कात्यायनवचनादेतावद्विशेषणयुक्तं कुशपत्रद्वयं पवित्र-
पदार्थस्तत्र च द्विवचनविभक्त्यर्थद्वित्वान्वयात्पत्रचतुष्टयन्तावल्लभ्यते तथाचाचा-
रविरोध इति चेन्मैवम्। "प्रादेशमात्रे पवित्रे कुरुते" इत्यत्र पवित्रपदस्य शक्यै-
कदेशपत्रमात्रपरत्वात्। मुख्यपरत्वे हि सूत्रे प्रादेशमात्रे इति विशेषणं व्यर्थ-
मापद्येत विशिष्टशक्तपदादेव तल्लाभसम्भवात्। किञ्च “पवित्रे स्थ” इति
मन्त्रलिङ्गात् प्रकृतसूत्राच्च पत्रचतुष्टयविनियोगशङ्कामाभूदिति पवित्रलक्षणम-
भिधाय कात्यायनेनोक्तम् “आज्यस्योत्पवनार्थंयँत्तदप्येतावदेव तु” इति। ननु-
विनिगमनाविरहात् कथन्तदनुरोधेन सूत्रादौ मुख्यार्थत्याग इति चेन्न तस्य सू-
त्रतात्पर्य्योन्नायकत्वात्। तदुक्तम्—
“अस्पष्टानां विधिं सम्यग्दर्शयिष्ये प्रदीपवत्”
इति। एवञ्चाचारोपष्टब्धं "पवित्रमन्तरा कृत्वे"ति गृह्यसङ्ग्रहवचनमपि
शङ्गच्छते । एवञ्च “पवित्रे स्थो वैष्णव्यावि”त्यादि मन्त्रस्थपवित्रपदान्तरं
यत्र यत्र द्विवचनविभक्तिरस्ति तत्र तत्र पवित्रपदं शक्यैकदेशदलपरमेव श्रोत्रि-
यपदवत् । देवस्त्वेति मन्त्रस्थ पवित्रपदञ्च मुख्यपरमेव, अनुपपत्त्यभावात् ।
अतएव तत्र पवित्रेणेत्येकवचनमपि सङ्गच्छते इति दिक् ॥ कश्चित्तु—‘‘कौश-
न्द्विदलमेवचे’’ति पवित्रलक्षणे दलपदं न पत्रपरमपि तु तदुभयपार्श्वपरमि-
त्येकमेव पवित्रपदार्थस्तथा च न द्विवचनानुपपत्तिरिति प्रकृते समाधानमाह
तन्न—एवमप्यर्घ्यादावेकपात्रात्मकपवित्रदानापत्तावाचारविरोधस्य “आज्यस्यो-
त्पवनार्थं यत्तद्दष्येतावदेव तु” इति परिशिष्टवचनविरोधस्य, सूत्र “प्रादे-
शमात्रे” इति विशेषणवैय्यर्थ्यस्य चापरिहारादिति मुरारिमिश्राः प्राहुः ॥ २१ ॥
ओषधिमन्तर्द्धाय
७ कण्डिका ] गोभिलगृह्यसूत्रे- ६५
तदेव हस्तघटितं प्रशस्तं हव्यकव्ययोः ॥"
इति । उदगग्राभ्यां पवित्राभ्यां-पवित्रघटितदलाभ्यामित्यर्थः । उत्पूनाति
ऊर्द्ध्वं शोधयति ॥ २४ ॥
कथमिति ? तत्प्रकारमाह-
अङ्गुष्ठाभ्याञ्चोपकनिष्ठिकाभ्याञ्चाङ्गुलिभ्यामभिसंगृह्य प्राक्-
शस्त्रिरुत्पुनाति "देवस्त्वासवितोत्पुनात्वच्छिद्रेण पवित्रेण
वसोः सूर्य्यस्य रश्मिभि"रिति सकृद्यजुषा द्विस्तूष्णीम् ॥२५॥
तथाचैकहस्तानामिकाङ्गुष्ठाभ्यां मूलदेशे अपरहस्तानामिकाङ्गुष्ठाभ्यामग्रदे-
शेऽभिसंगृह्य-अर्थात्पवित्रे गृहीत्वोत्तराग्राभ्यान्ताभ्यामाज्यमादाय **"देवस्त्वे"**ति
यजुषा प्राङ्मुखं प्राकशः । त्रिरिति । मन्त्रेण सकृदुत्पुनाति ऊर्ध्वन्नीत्वा क्षिप-
ति । द्विस्तूष्णीमित्यर्थः ॥ अत्र व्यस्तहस्तानामिकाङ्गुष्ठाभ्याम्पवित्रग्रहणमिति
पद्धतिकृतोधीरे श्वरादयः ॥ मन्त्रार्थस्तु हे आज्य ! 'त्वा' त्वां 'सविता' 'देवः'
आभ्याम् 'अच्छिद्रेण' अच्छिद्राभ्यामव्यवच्छिन्नाभ्याम् 'पवित्रेण' पवित्राभ्या-
म् । 'उत्' अधिकं 'पुनातु' अज्ञातकेशकीटादिदोषमपनयतु । किञ्च वसु तेजः
रश्मिर्वा ( निघं० १।५।१० ) तत्प्रधानत्वात्सोऽपि ( सूर्य्यः ) तथोच्यते । तस्य
'वसोः' तेजानिधेः 'सूर्य्यस्य 'रश्मिभिः' किरणैः "किरणप्रग्रहौरश्मी" इत्यमरः।
त्वामुत्पुनात्विति सम्बन्धः । अभिधानभेदाभिप्रायेण सविता(१)सूर्यादन्यः ।
पवित्रेणेति व्यत्ययेन एकवचनम् ॥ २५ ॥
अथैने अद्भिैरभ्युक्ष्योग्नावप्युत्सृजेत् ॥ २६ ॥
अथानन्तरमेवाविमुञ्चन्नेव एने पवित्रे सव्येन गृहीत्वा दक्षिणेन अद्भिः
प्रणीताजलेनाभ्युक्ष्य दक्षिणेनैवाग्नावपि उत्सृजेन्निः क्षिपेदित्यर्थः ॥ २६ ॥
अथैतदाज्यमधिभ्रित्योदुद्वासयेत् ॥ २७ ॥
अथोत्पवनानन्तरम् । एतद् अनन्तरोक्तं सर्पिरादिरूपमाज्यम् । अधिश्श्रि-
त्य-अग्नेरुपरि कृत्वा प्रतप्य उदगुत्तरस्यामग्नेः कुशोपरि उद्वासयेत् । अवतार्य
स्थापयेत् । अत्र चाधिश्रयणन्दधिभिन्नानामेवाज्यानान्न तु दध्नोऽपि तत्र निषे-
धात् । तथाच कात्यायनः-
"आज्यानां सर्पिरादीनां संस्कारे विधिचोदिते ।
अनधिश्रयणन्दध्नः शेषाणां श्रपणं स्मृतम् ॥"
इति । तथा-
"यथा सीमन्तिनी नारी पूर्वगर्भेण संस्कृता ।
( १ ) मन्त्रमयीवैं देवता इति हि कर्ममीमांसकानामालाभ्रः । तस्य शब्दात्मिका
इत्यर्थः । अत एव चणकमसूरादयोऽपि देवतास्तेषामान्नायन्ते । तदधिष्ठात्र्यो देवता इति
हि तत्त्वविदः प्राहुः ॥
एवमाज्यस्य संस्कारः पूर्वैर्गोवोत्तरह्य तु ॥”
इति । एवञ्च यत्किञ्चिदवशिष्टे संस्कृते घृतादौ पुनर्घृतान्तरप्रवेशने तत्र
न संस्कारान्तरापेक्षा । सर्वापचारे पुनस्तदपेक्षैव तत्र संस्काराभावादिति द्रष्ट-
व्यम् ॥ वारत्रयमेवमाज्यसंस्कार इति पद्धतिकृतोधीरोश्वरादयः ॥
एवमाज्यस्य संस्करणकल्पोभवतीति ॥ २८ ॥
इति गो० गृ० प्र० प्र० के सप्तमी कण्डिका ॥ १ ॥ ७ ॥ ॐ ॥
एवमनेन प्रकारेण आज्यस्य संस्करणकल्पोभवति । यत्र यत्राज्यं संस्कृ-
यते तत्र तत्रैवकत्तर्व्यमित्यर्थः । इतिः कण्डिकापरिसमाप्त्यर्थः । स्रुवादिसंस्कार-
समुच्चयार्थो वा । तथाच गृह्यान्तरम्-“स्रुवं प्रतप्य दर्भैः सम्मृज्याभ्युक्ष्य पुनः
प्रतप्य निदध्यात्” इति । कर्म्मप्रदीपोप्याह--
“तेषां प्राक्शः कुशैः कार्य्यः सम्प्रमार्गोऽजुहूवता ।
प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा ॥”
इति ॥ २८ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायाम्मृदुलाख्यायां मुकुन्दशर्म्मकृतायाम्प्रथ-
मप्रपाठकस्य सप्तमी कण्डिका ॥ १ ॥ ७ ॥ * ॥
अथाष्टमी कण्डिका -
पूर्वमाज्यमपरः स्थालीपाकः ॥ १ ॥
पूर्वापरदेशत्वाद्द्वयोरपि पूर्वापरव्यपदेशः । पूर्वस्यान्दिश्याज्यम् आसाद-
यितव्यम् । अपरस्याञ्च स्थालीपाक आसादयितव्य इति शेषः । पूर्वं खल्वग्ने-
रुत्तरतः समासादितयोरनयोरिदानीङ्क्रियासौकर्यार्थमग्नेः पश्चिमतः पूर्वापरभावेन
समासादनमिति बोद्धव्यम् । तथाच गृह्यान्तरम्--“होत्रग्न्योरन्तरा आज्यह-
विषी आसादयेत्” इति । इदानीं हविषः पश्चिमतः समासादनादेव वक्ष्यत्या-
चार्य्यः “अथैतद्धविरुच्छिङ्घमुदगुद्वास्य” इति ॥ १ ॥
पर्युक्ष्य स्थालीपाक आज्यमानीय मेक्षणेनोपघात ँहोतुमेवोपक्रमते २
“अदितेऽनुमन्यस्व” इत्येवमादिनाऽग्निं पर्युक्ष्यस्थालीपाके चरौ आज्य-
मानीय--प्रक्षिप्य मेक्षणेन यथोक्तेन ( १।५।१९ सू० ) उपघातम्--उपघात-
नामा यथा भवति होमस्तथा होतुमेवोपक्रमते--प्रारभेत इत्यर्थः । विद्ध्यर्थेऽत्र-
लेट् । एवकारोऽवधारणार्थः । नान्यत् किञ्चिदभिघारणादिकं कुर्य्यादिति तदर्थः ।
“चरावाज्यमानीय प्रपद्विरूपाक्षौ जपित्वा समिधमाधाय जुहुयादेव” इति
भट्टभाष्यम् । तदनेनोपघातहोमे अभिघारणादिकमाज्यभागौ च न भवतीति
सूचयति । द्विविधः खलु होमो याज्ञिकप्रसिद्धः।उपघातः उपस्तीर्णाभिघारितश्च ।
चरावाज्यं निःक्षिप्य विनैवाभिघारणादिकयँद्धूयते स उपघातः । यश्च
स्रुचि स्रुवेणाज्येनाभिघार्य्य चरुमवदाय पुनराज्येनाभिघार्य्य हूयते सउपस्ती-
र्णाभिघारित इत्याख्यायते । स्रुवेण स्रुचि यदाज्य प्रथमङ्गृह्यते तदुपस्तीर्णं,
हविरवदायानन्तरं यदाज्यन्दीयते तदभिघारितम इति व्यपदिश्यते । यथाचो-
पस्तीर्णाभिघारितं होतव्यन्तदनुपदं व्युत्पादयिष्यते । यथाचोपघातहोमस्तदत्र
सूत्र्यते । तथा च गृह्यासङ्ग्रहः—
पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः ।
हूयते चानुपस्तीर्य्य उपघातः स उच्यते ॥
यद्युपघातञ्जुहुयाच्चरावाज्यं समावपेत् ।
मेक्षणेनच होतव्यं नाज्यभागौ न स्विष्टकृत् ॥ ”
इति । तदेवमुपघातमिति पारिभाषिकी संज्ञा होमविशेषस्य । स खल्वयमु-
पघातहोमः समशनीयचरु—पितृयज्ञचर्वोरन्यत्रापि बहुदैवत्ये चरौ आन्वष्ट-
क्यचरौ च भवति । तदाह कर्म्मप्रदीपः—
“चरौ समशनीये तु पितृयज्ञचरौ तथा ।
होतव्यं मेक्षणेनान्यदुपस्तीर्णाभिघारितम् ॥ ”
इति । “चरौ तु बहुदैवत्ये होमस्तस्योपघातवत्” इति चस्मरणम् । वक्ष्य-
ति चान्वष्टक्ये “कंसे चरुं समादाय मेक्षणेनोपघातञ्जुहुयात्” इति ॥ “त-
त्रान्वष्टक्यपितृयज्ञयोः क्षिप्रहोमधर्मः । समशनीयेतु ब्रह्मोपवेशनादितन्त्रधर्म”
इति भट्टनारायणोपाध्यायाः । वृषोत्सर्गहोमस्य तु बहुदैवत्येऽपि नोपघातत्वं,
तदाह कर्म्मप्रदीपः—
“एतेभ्य एव जुहुयान्मेक्षणेनावदाय च ।
स्रुच्याहुतीश्चरोः पृथक् सिञ्चेदाज्याभिघारितम्” इति ।
“चतुर्गृहीतं कृत्वाज्यमाभिरूग्भिः पृथक् पृथक् ॥
स्वाहाकारावसानाभि-र्जुहुयाद्विधिवत्सदा ॥ ” इति च ॥ २ ॥
यद्युवा उपस्तीर्णाभिघारितञ्जुहुयात्
आज्यभागावेव प्रथमौ जुहुयात् ॥ ३ ॥
उ-इति वितर्कार्थको निपातः । वै-इति निश्चयार्थः । यद्युपस्तीर्णाभिघारितं
यथानुषदोक्तलक्षणं जुहुयात्(१) । तर्हि आज्यभागावेव प्रथमौ जुहुयात् । यद्वा
तर्ह्येवाज्यभगौ प्रथमौ जुहुयादित्येवमवध्रियत एवकारेण । तदिमावाज्य-
भागौ उपघातहोमे न भवत इति दर्शयति । मुरारिमिश्रास्तु-उपस्तीर्णाभि-
( १ ) अत्र जुहूषेद्दिति चन्द्रकान्तभाष्यादौ पाठः । होतुमिच्छेदिति तदर्थः ।
१३ गो०गृ० सू०
२८ अथ दर्शपौर्णमासविधिः । [ १ प्रपाठके-
घारितं लक्षयित्वा तथा वा जुहुयात् । एवकारोभिन्नक्रमस्तथा चोभयोरपि
कल्पयोराज्यभागौ प्रथमौ जुहुयादेवेत्यर्थः । विकल्पश्च मेक्षणहोमेन सह व्यव-
स्थितः । व्यवस्थामाह कात्यायनः ।
“चरौ समशनीये तु पितृयज्ञचरौ तथा ।
होतव्यं मेक्षणेनान्यदुपस्तीर्णाभिघारितम्” इति ॥ ३ ॥
अथ कथमाज्यभागौ जुहुयात्तदुच्यते—
चतुर्गृहीतमाज्यं गृहीत्वा पञ्चावत्तन्तु भृगूणाम् ।
अग्नये स्वाहेत्युत्तरतः सोमाय स्वाहेति दक्षिणतः प्राक्शो जुहुयात् ४
चतुः कृत्वोगृहीतम् स्रुवेण(१) । सुची(२)ति शेषः । गृहीत्वा कृत्वा (३) ।
“अग्नये स्वाहा” इति मन्त्रेणाग्नेरुत्तरभागे प्राक्शः प्राग्गतं (४) यथा स्यात्त-
था स्रुचैव जुहुयात् । एवं ( तथैव गृहीत्वा ) “सोमाय स्वाहा” इत्यग्नेर्दक्षिणभागे
प्राग्गतञ्जुहुयात् । अन्यास्त्वाहुतयोऽग्नेर्म्मध्यभागे होतव्या इत्यर्थादवगम्यते ।
तथा च साङ्ख्यायनगृह्यम्— “उत्तरमाग्नेयं दक्षिणे सौम्यम्मध्येऽन्या आहुतयः”
इति । वक्ष्यति चाचार्य्यः “अग्नये स्वाहेति मध्ये जुहुयात्” इति ॥ अत्रा-
ज्यग्रहणे—गोत्रकृतां व्यवस्थामाह पञ्चावत्तन्विति । पञ्चावत्तं—पञ्चकृत्वोव-
दानेन गृहीतन्तु भृगूणाम् भृगुगोत्रापत्यानाम् । अत्र “अत्रिभृगुकुत्सवसि-
ष्ठगौतमाङ्गिरोभ्यश्च” (पा० २।४।६५) इति गोत्रप्रत्ययस्याणोलुक् । भृगुगो-
त्राणां भार्गवप्रवराणाञ्चेति भवदेवभट्टः । भार्गवप्रवराणामिति भट्टनारायणो-
पाध्यायाः । तन्त्रान्तरकारास्तु स्मरन्ति—
“जामदग्न्या वत्सविदा वार्ष्टिषेणास्तथैव च ।
भार्गवाश्च्यवना और्वाः पञ्चावत्तिन ईरिताः ॥” इति ॥ ४ ॥
अथ हविष उपस्तीर्यावद्यति ॥ ५ ॥
अथानन्तरम् । उपस्तीर्य—प्रकृतत्वादाज्यं स्रुवेण स्रुचि निधाय । हविषः
इत्यवयवलक्षणा षष्ठी । तथाच हविषोऽवयवं मेक्षणेन अवद्यति—अवदाय स्रु-
चि गृह्णातीत्यर्थः ॥ ५ ॥
( १ ) आज्यधारणे तस्य गुणत्वात् ।
( २ ) अत्र मुरारिमिश्राः स्रुचैव जुहुयात् कुतः ? होमार्थत्वादेव तस्या इत्याहुः ।
जुहूः प्रदाने गुणभूतेति तान्त्रिकसमयात् । “यस्य पर्णमयी जुहूर्भवति न स पापꣳ श्लो-
कं शृणोति यस्य खादिरी न सोऽन्नात्परिहीयते” इति च श्रवणात् । पर्णमयी—पलाशम-
यी । तथाचोक्तं “द्रव्यसंस्कारकर्मसु फलार्थवादः स्यात्” ( जै० सू०.४।३।१ ) इति ।
“अनेन गृहीतं जुह्वा जुहोति” इति च गृह्यान्तरम् ॥
( ३ ) “अश्वालम्भनमालभेत” इत्यादिष्विहापि प्रत्ययार्थमात्रविवक्षा द्रष्टव्या ॥
( ४ ) प्राङ्मुख इति मुरारिमिश्राः ।
८ कण्डिका ] गोभिलगृह्यसूत्रे— ९९
कथमवद्यतीत्युच्यते—
मध्यात्पूर्वाद्धाच्चतुरवत्ती चेद्भवति, मध्यात्पूर्वाद्धात्
पश्चाद्धादिति पञ्चावत्ती चेद्भवतीति ॥ ६ ॥
मध्यात् — चरोर्म्मध्यप्रदेशात् । पूर्वाद्धात् — चरोरित्येव । चशब्दश्च समुच्च-
यार्थोलुप्तवद्द्रष्टव्यः । तथाचान्यत्राप्युक्तम् “विनापि चं समुच्चयो द्योत्यते गाम-
श्वं पुरुषम्पशुमिति यथे ” ति । तथाच गृह्यान्तरं “मध्यात्पूर्वाद्धाच्च हविषोऽव-
द्यति” इति । चतुःकृत्वोऽवत्तान्यवदानानि सन्त्यस्येति (१) मत्वर्थ इनिः ।
( पा० ५।२।११५ ) एवमग्रेऽपि । चेद्यदि अवदाता भवति तर्हि मध्यात्पूर्वाद्धा-
च्चावद्यतीति गतेन सम्बन्धः । चेत्-यदि पुनः पञ्चावत्ती अवदाता भवति,
तदा चरोर्म्मध्यात् — पूर्वाद्धात् पश्चाद्धात्-अपराद्धाच्च(२) अवद्यतीत्यर्थः ।
इति-एवमवदानं भवतीति मन्तव्यम् ॥ ६ ॥
अभिघारयत्यवदानानि ॥ ७ ॥
अवदानानि—यथा श्रुचि गृहीतानि हवींषि अभिघारयति-आज्यस्रुवेणा-
प्लावयति । बहुवचनं वक्ष्यमाणत्रिर्होमापेक्षया । व्यक्तिभेदापेक्षया वा ॥ ७ ॥
प्रत्यनक्त्यवदानस्थानान्ययातयामतायै ॥ ८ ॥
अवदानानां स्थानानि येभ्योऽवद्यति तानि मेक्षणेनानक्ति-अङ्क्तानि करोतीत्यर्थः । बहु-
वचनं पूर्ववद्व्याख्येयम् । प्रति प्रत्येकम् अनक्ति — अक्तानि करोति । आज्यस्रु-
वेणाप्लावयतीत्यर्थः । किमर्थम् ? अयातयामतायै । यज्ञायोग्यता यातयामते-
त्युच्यते(३) । न यातयामताऽयातयामता तस्यै । एतदुक्तं भवति । मेक्षणक्षतेन
यातयामता चरोरुत्पद्यते । आज्याप्लावनेन पुनरयातयामता तस्य भवतीति ॥८॥
एवं खल्ववदाय—
अग्नये स्वाहेति मध्ये जुहुयात् ॥ ६ ॥
मध्ये-अग्नेरेव ॥ ९ ॥
( १ ) यद्यपि “न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेतदर्थप्रतिपत्तिकर” इति
न्यायᳲपाणिनीयैराहतस्तथाप्येष “कृष्णसर्पवान्वल्मीक.” इत्यादौ व्यभिचरित इत्यु-
पेक्षितोऽत्र तस्य परिग्रहः ॥
( २ ) पश्चिमाद्धात् । “अपरस्यार्द्धे पश्चभावो वक्तव्य” ( पा० २।२।१८ वा० )
इति साधुः ॥
( ३ ) तथाच “यो ह वा अविहितार्षेयच्छन्दोदैवतमन्त्रेण यजति याजयति अधी-
तेऽध्यापयति × × × ×वा यातयामान्यस्य च्छन्दांसि भवन्ती”ति ॥ उद्धृत्य शिष्ट-
मुच्छिष्टमित्येष दोषोऽपनीयते प्रत्यञ्जनेनेति वदन्ति ॥
२०७ दर्शपूर्णमासविधिः । [ १ प्रपाठके
कति जुहुयादित्युच्यते—
सकृद्वा त्रिर्वैतेन कल्पेन ॥ १० ॥
एतेन कल्पेन-अनन्तरोक्तयाऽऽवृता ( परिपाट्या ) इत्यादरार्थमुक्तम्
सकृद्वा त्रिर्वा जुहुयात् । वाशब्दद्वयन्तुल्यवद्विकल्पार्थम् । त्रित्वपक्षे च—"ए-
का देया तिस्रोदेया" (१)इत्यादिवच्छ्रेयोभूयस्त्वं कल्पयितव्यम् । अन्ये-
त्वाहुः अभावविकल्पोऽयं, त्रित्वपक्षाशक्तौ सकृत् ॥ १० ॥
अथ स्विष्टकृत उपस्तीर्यावद्यत्युत्तरार्द्धपूर्वाद्धत् ।
सकृदेव भूयिष्ठमवद्य द्विरभिघारयेत् ॥ ११ ॥
अथ—प्रधानहोमानन्तरं स्विष्टकृतः(२) अर्थे । अवद्यति अवदाय(३) स्रु-
चि गृह्णाति । किङ्कृत्वा ? उपस्तीर्य—सकृदाज्यं स्रुवेण स्रुचि निधाय ।
कथम् ? चरोरुत्तरार्द्धपूर्वाद्धत्-अपराजिताया ( ऐशान्या ) दिशः । सकृदेक-
वारमेव भूयिष्ठं बहुतरं यथा स्यात्तथा अवद्य-हविर्द्विरभिघारयेत् । आज्य-
स्रुवेण वारद्वयमाप्लावयेत् । एवं किल चत्वार्यवदानानि सम्पद्यन्ते । सकृदुप-
स्तरणमवदानं हविषोद्विरभिघारणञ्चेति ॥ ११ ॥
यद्यु पञ्चावत्ती स्याद्विरुपस्तीर्यावदाय द्विरभिघारयेत् ॥ १२ ॥
उ वितर्के(४) । यदि पुनरयं यजमानः पञ्चावत्ती(५) स्यात् तर्हि द्विरु-
पस्तीर्थ अवदाय हविर्द्विरभिघारयेत्—द्विवारमाप्लावयेत् । पञ्चावदानसम्पत्त्य-
र्थम् ॥ पञ्चावत्तिनस्तु—
"जामदग्न्या विदा वत्सा वार्षिषेणास्तथैव च ।
भार्गवाश्च्यवना और्वाः पञ्चावत्तिन ईरिताः" ॥
इति गोभिल गृह्यभाष्योक्ता बोध्याः ॥ १२ ॥
न प्रत्यवनक्त्यवदानस्थानान्ययातयामतायै ॥ १३ ॥
स्विष्टकृतोऽर्थेऽवद्य होमान्तरकर्त्तव्यताभावात्तदर्थ-मयातयामतायै प्रत्यवने-
जनमवदानस्थानस्य नोपयुज्यत इति न प्रत्यवनक्तीति समासार्थः । अत्र "मश-
काय धूम" इतिवन्निवृत्त्यर्थं (६)भाक्तमिदमयातयामताया इति । केचित्तु-
( १ ) कात्यायनोऽपि "यत्र स्यात्कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं
ब्रुवते तत्र कृच्छ्राच्छ्रेयोविशिष्यते" इति ॥
( २ ) चतुर्थ्यन्तपाठे तादर्थ्यं चतुर्थी बोध्या ॥
( ३ ) द्यतिरत्र खण्डने ( दि० प० ॥
( ४ ) "यद्युवा" इति पाठे सोऽयं निपातसमुदायो यद्यर्थ इति भाष्यम् ॥
( ५ ) अत्र "कृष्णसर्पवान्वल्मीक" इतिवन्मत्वर्थीय इनिर्बोद्ध्यः । पञ्च-संख्याकम्
। ग्रस्तमवदानमस्यास्तीति कर्त्तरि षष्ठ्यर्थे इनिः ॥ ( ६ ) लाक्षणिकम् ।