सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 118, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 118

७ कण्डिका ] गोभिलगृह्यसूत्रे— ८७
“श्रापाके” ण्यन्ताल्लिङ् । पुगागमः । मित्त्वाद्ध्रस्वत्वमुपधायाः (पा० ६।४।९२)
तस्माद्दग्धमकठिनमनतिशिथिलमवीतरसं, लोकप्रसिद्धेः । कर्मप्रदीपोऽप्याह—
“स्वशाखोक्तविधिश्विन्नोह्यदग्धोऽकठिनः शुभः ।
न चातिशिथिलः पाच्योन च वीतरसश्चरुः ॥”
इति । प्रदक्षिण-दक्षिणावर्त्तं यथाभवति तथा मेक्षणेनोक्तलक्षणेन (१।५।१९)
उदायुवन् “युमिश्रणे” (अ० प० ) इति स्मरणादूर्ध्वमौषन्मिश्रयन् । श्रपये-
दिति सम्बन्धः । मेक्षणेनेति तु “तस्मिन्नेवाग्नौ श्रपयत्योदनञ्चरुञ्च मांसञ्च-
रूञ्च पृथङ्मेक्षणाभ्यां प्रदक्षिणमुदायुवन्” इति (४।२।१४) अग्रिमसूत्रात् ॥७॥
शृतमभिघार्योदगुद्वास्य प्रत्यभिघारयेत् ॥ ८ ॥
शृतम्पक्वचरुम् । अभिघार्य-स्रुवगृहीतेनाज्येनाप्लाव्य । उदगुत्तरस्या-
मग्नेः । उद्वास्य उत्तार्य्य प्रत्यभिघारयेत् पुनस्तथाऽऽप्लावयेत् । गृह्यसंग्रहे—
“पवित्रमन्त(१)रा कृत्वा चरुम्प्राञ्चोऽभिघारयेत् ।
उद्वास्य चैवं विधिवद्देवन्तन्त्र न लुप्यते ॥” इति ॥
“चतुर्मुष्टिंश्चरुः कार्यश्चतुर्णामुत्तरोऽपि वा” इति च ॥ ८ ॥
अग्निमुपसमाधाय कुशैः समन्तं परिस्तृणुयात्पुरस्ताद्दक्षिणत उत्त-
रतः पश्चादिति ॥ ९ ॥
अग्निम् उपसमाधाय-समिद्भिः समिध्य ( प्रज्वाल्य ) कुशैः पूर्वासदितै-
र्बर्हिःस्वरूपैः ( विशाखाप्रतिलूनैः ) ( १।५।१६ ) समन्तं—समन्तात् । सर्वतः
सर्वासु दिक्षु ) अग्नेर्बहिः । परिस्तृणुयात्—आच्छादयेत् । “स्तॄञ्-आच्छादने”
( स्वा० उ० ) लिङ्विधौ । स्तरणक्रममाह पुरस्तादिति । पूर्वस्यां दक्षिणास्यामु-
त्तरस्याम्पश्चिमायामित्येवं क्रमेणेत्यर्थः । अत्र समन्तमिति द्वितीया पञ्चम्यर्थे
व्यत्ययेन । ( ३।१।८५ ) समस्तमिति पाठः प्रामादिकः ॥ ९ ॥
सर्वतस्त्रिवृतं पञ्चवृतं वा ॥ १० ॥
सर्वतः सर्वासु दिक्षु । त्रिवृतं-त्रिवारं, पञ्चवृतं-पञ्चवारं वा । परिस्तृणुया-
दित्यनुवर्त्तते ॥ १० ॥
अथ कथम्पुनरेकं परिस्तरणं सम्पद्यते ? यस्य त्रिःपञ्चकृत्वोवा करणमुप-
दिश्यते ? । तदुच्यते—
बहुलमयुग्मंसंहतम् ॥ ११ ॥
बहुलं-बहुत्तृणकम् (२) । अयुग्माः (३)संहताः परस्परं संलग्नाः कुशा यत्र
( १ ) पवित्रान्तर्हितं कृत्वेत्यपिपाठः क्वचित् ॥
( २ ) बहून्कुशान् लाति गृह्णातीति बहुलम् । परिस्तरणक्रियाविशेषणमेतत् ।
( ३ ) मुरारिमिश्रास्तु-अयुग्मञ्च तत्संहतञ्चेत्ययुग्मसंहतम् । त्रिवृतं पञ्चवृतं वेत्यने-