गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 9, कुल 332 में से
संदर्भ में पढ़ें( २ )
२७ पुरास्तमयादग्निं प्रादुष्कृत्यास्तमिते सायमाहुतिञ्जुहुयात् ॥
२८ पुरोदयात्प्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिञ्जुहुयात् ॥
इति प्रथमप्रपाठकस्य प्रथमा कण्डिका ॥ १ ॥ १ ॥ ✻ ॥
अथ द्वितीया कण्डिका—
१ यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव ॥
२ दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽंसे प्रतिष्ठापयति, दक्षिणं
कक्षमन्ववलम्बं भवत्येवं यज्ञोपवीती भवति ॥
३ सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽंसे प्रतिष्ठापयति, सव्यङ्क-
क्षमन्ववलम्बं भवत्येवं प्राचीनावीती भवति ॥
४ पितृयज्ञेष्वेव प्राचीनावीति भवति ॥
५ उदगग्रेरुत्सृप्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेद्द्विः
प्रमृजीत ॥
६ पादावभ्युक्ष्य शिरोऽभ्युक्षेत् ॥
७ इन्द्रियाण्यद्भिः संस्पृशेत् ॥
८ अक्षिणी नासिके कर्णाविति ॥
९ यद्यन्मीमांस्यं स्यात्तत्तदद्भिः संस्पृशेत् ॥
१० तत्रैतदाहुः ॥
११ नोपस्पृशेद्ब्रजन् ॥
१२ न तिष्ठन् ॥
१३ न विलोकयन् ॥
१५ नाप्रणतः ॥
१६ नाङ्गुलीभिः ॥
१७ नातीर्थेन ॥
१८ न सशब्दम् ॥
१९ नानवेक्षितम् ॥
२० न वाह्यांसः ॥
२१ नान्तरीयैकदेशस्य कल्पयित्वोत्तरीयताम् ॥
२२ नोष्णाभिः ॥
२३ न सफेनाभिः ॥
२४ न च सोपानत्कः क्वचित् ॥
२५ कासकिकः ॥