गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 8, कुल 332 में से
संदर्भ में पढ़ेंश्रीगणेशायनमः ।
अथ गोभिलीयगृह्यसूत्राणि-
१ अथातो गृह्याकर्माप्युपदेक्ष्यामः ॥
२ यज्ञोपवीतिनाऽऽचान्तोदकेन च कृत्यम् ॥
३ उदगयने पूर्वपक्षे पुण्येऽहनि प्रागावर्त्तनादह्नः कालं विद्यात् ॥
४ यथादेशञ्च ॥
५ सर्वाय्येवान्वाहार्य्यवन्ति ॥
६ अपवर्गेऽभिरूपभोजनं यथाशक्ति ॥
७ ब्रह्मचारी वेदमधीत्यान्त्यां समिधमाधास्यन् ॥
८ जायाया वा पाणिञ्जिघृक्षन् ॥
९ अनुगुप्ता अप आहृत्य प्रागुदक्प्रवणं देशं समं वा परिसमुह्योपलिप्य
मध्यतः प्राचीं लेखामुल्लिखेदोदीचींश्च संहतां पश्चात् । मध्ये प्राची-
स्तिस्र उल्लिख्याभ्युक्षेत् ॥
१० लक्षणावृतैषा सर्वत्र ॥
११ भूर्भुवःस्वरित्यभिमुखमग्निं प्रणयन्ति ॥
१२ प्रेते वा गृहपतौ परमेष्ठिकरणम् ॥
१३ तथा तिथिनक्षत्रपर्वसमवाये ॥
१४ दर्श वा पौर्णमासे वाऽग्निंलमाधानङ्कुर्वीत ॥
१५ वैश्यकुलाद्वाऽम्बरीषाद्वाऽग्निमाहृत्याभ्यादध्यात् ॥
१६ अपि वा बहुयाजिन एवागाराद्ब्राह्मणस्य वा राजन्यस्य वा
वैश्यस्य वा ॥
१७ अपिवाऽन्यं मथित्वाऽभ्यादध्यात् ॥
१८ पुण्यस्त्वेवाऽनर्धुकोभवतीति ॥
१९ यथाकामयेत तथा कुर्यात् ॥
२० स यदेवान्त्यां समिधमादधाति जायाया वा पाणिञ्जिघृक्षन् जु-
होति तमभिसंयच्छेत् ॥
२१ स एवास्य गृह्योऽग्निर्भवति ॥
२२ तेन चैवास्य प्रातराहुतिर्हुता भवति ॥
२३ सायमाहुत्युपक्रम एवात ऊर्ध्वं गृह्येऽग्नौ होमोविधीयते ॥
२४ पुरा प्रादुष्करणवेलायाः सायम्प्रातरनुगुप्ता अप आहरेत्परिचरणीयाः॥
२५ अपि वा सायम् ॥
२६ अपि वा कुम्भाद्वा मणिकाद्वा गृह्णीयात् ॥