गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 10, कुल 332 में से
संदर्भ में पढ़ें( ३ )
२६ गले बद्धः ॥
२७ चरणौ न प्रसार्य्य च ॥
२८ अन्ततः प्रत्युपस्पृश्य शुचिर्भवति ॥
२९ हृदयस्पृशस्त्वेवाप आचामेत् ॥
३० उच्छिष्टोहैवातोऽन्यथा भवति ॥
३१ अथ प्रत्युपस्पर्शनानि ॥
३२ सुप्त्वा-भुक्त्वा-क्षुत्वा-स्नात्वा-पीत्वा-विपरिधाय च-रथ्यामाक्रम्य
श्मशानञ्चाचान्तः पुनराचामेत् ॥
इति प्रथम प्रपाठकस्य द्वितीया कण्डिका ॥ १ ॥ २ ॥ ॐ ॥
अथ तृतीया कण्डिका—
१ अग्निमुपसमाधाय परिसमूह्य दक्षिणजान्वक्तो दक्षिणेनाग्निमदितेऽ-
नुमन्यस्वेत्युदकाञ्जलिं प्रसिञ्चेत् ॥
२ अनुमतेऽनुमन्यस्वेति पश्चात् ॥
३ सरस्वत्यनुमन्यस्वेत्युत्तरतः ॥
४ देवसवितः प्रसुवेति प्रदक्षिणमग्निं पर्युक्षेत् सकृद्वा त्रिर्वा ॥
५ पर्युक्षणान्तानव्यतिहरन्नभिपर्युक्षन्होमीयम् ॥
६ अथ हविष्यस्यान्नस्याग्नौ जुहुयात् कृतस्य वाऽकृतस्य वा ॥
७ अकृतञ्चेत्प्रक्षाल्य जुहुयात् प्रोदकङ्कृत्वा ॥
८ अथ यदि दधि-पयो-यवागूंवा, कंसेन वा चरुस्थाल्या वा ॥
९ अग्नये स्वाहेति पूर्वां, तूष्णीमेवोत्तरां मध्ये चैवापराजितायां दिशी-
ति सायम् ॥
१० अथ प्रातः-सूर्याय स्वाहेति पूर्वां, तूष्णीमेवोत्तरां मध्ये चैवापराजि-
तायान्दिशि ॥
११ समिधमाधायानुपर्युक्ष्य तथैवोदकाञ्जलीन्प्रसिञ्चेदन्वमंस्था इति
मन्त्रविशेषः ॥
१२ प्रदक्षिणमग्निं परिक्रम्यापां शेषं निनीय पूरयित्वा चमसं प्रतिष्ठाप्य
यथार्थम् ॥
१३ एवमत ऊर्ध्वङ्गृह्योऽग्नौ जुहुयाद्वा हावयेद्वाऽऽजीवितावभृथात् ॥
१४ अथाप्युदाहरन्ति ॥
१५ कामं गृह्योऽग्नौ पत्नी जुहुयात्सायं प्रातर्होमौ गृहाः पत्नी गृह्य एषोऽ-
ग्निर्भवतीति ॥