सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 7, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 7

लाट्यायनीय-श्रौतसूत्रस्य तावज्ज्योतिष्टोमान्तभागस्य तत्प्रास्तुवन् । यत्र च
पुरस्कारदानमपि यथानियमं सभायामुद्घोषितमाकर्ण्य प्रावर्त्तिषि तन्निर्माणे-
ऽन्तेवसद्भिरभ्यर्थितः । सुसम्पाद्य च तां यथावकाशमग्रिमे वर्षे तस्यां ( पूर्वोक्त-
सभायां ) समर्पितवान् । अथ यथाकालं सभ्यैः सुपरीक्षितायां तस्यां पादोनशत-
मुद्राः पारितोषिकन्ततोलब्ध्वा काश्यां कृतनिवासायै दरभङ्गामहीमहेन्द्रस्य स्व-
र्गवासि-श्रीमल्लक्ष्मीश्वरसिंहवीरविक्रान्तस्य ज्येष्ठायै धर्मपत्न्यै पूर्वं द्वादशवर्षाणि
यावत्संसेवितायै संक्षिप्त-तज्जीवनचरित्रवर्णनात्मकखण्डकाव्येन सह सादरं
समर्पितवान्। ताञ्च काशिक-चौखम्बासंस्थानस्थित-विद्याविलासयन्त्रालयाध्यक्ष
द्वारा मुद्रापयित्वा परारि प्रकाशितवानस्मि। यत्रचसर्वोऽप्यधिकारः पुनर्मुद्रापणे
तस्माएव प्रत्तोऽस्ति ।
अथापरंसामगानां गृह्य-(कल्प-) सूत्रमप्येतत्प्राधान्येन चन्द्रकान्तभाष्य-
नारायणभाष्य-भवदेव-मुरारिमिश्र-तत्त्वकारादीनां व्याख्यानमवलम्ब्य स्वोपज्ञ
व्याख्यया “मृदुलया” सह मुद्रापयितुमुपक्रान्तं प्रामाणिकैश्छन्दोगपरि-
शिष्ट-गृह्यासाङ्ग्रहादिभिःकातीयगोभिलीयै-रन्यैरपि वचनजातै-रुपबृंहितं मिथि-
लामहीमहेन्द्र-महाराजरुद्रसिंहस्य पौत्रपत्न्यै श्रीमज्जनेश्वरीदेव्यै संक्षिप्त-तज्जी-
वनचरित्रवर्णनात्मकखण्डकाव्येन सह सादरं समर्पितवांस्तामथैनां तेभ्यः का-
शिक-चौखम्बासंस्थानस्थित-विद्याविलास-यन्त्रालयाध्यक्षेभ्यःससर्वाधिकारं सम-
र्पितवानस्मि ।
अचास्यैव परिशिष्टरूपेण गोभिलीयं श्राद्धकल्पमपि राजकीयोक्तपरीक्षायां
सन्निवेशितमिति तदपि महता यत्नेन सुसरलया दिशा भाष्यानुसारिण्योक्त-
व्याख्यया संवलित-मनतिविस्तृतमुक्तवैश्यवरेभ्य एव मुद्रापयितुंसमर्पितवानस्मि ।
यदम्यल्पीयसैवकालेनैतत्प्रकाशनानन्तरं मुद्रापयितुं प्रतिश्रुतवन्तः सन्तीति
सप्रमोदम्पाठकमहाभागेभ्यआवेदयामः ।
अथापरमप्येतदभ्यर्थयामहे ।
“मुद्राप्रमादजं दोषं दृष्टिदोषञ्च मामकम् ।
संशोध्य धीधनैरैतदुपयोज्यं स्वकर्मसु ॥ १ ॥
अथ च—
गच्छतः स्खलनं क्वापि सुपथिष्वपि स्यान्नृणाम् ।
हसन्त्यसावस्तत्र समादधति सज्जनाः ॥ २ ॥
इति सहृद्योक्तमनुस्मृत्य विरमामोनिर्अर्थकाद्विस्तरादिति शम् ॥