गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 71, कुल 332 में से
संदर्भ में पढ़ें४० आचमनविधिः। [ १ प्रपाठके-
इति स्मृतिसुधाकरः(१) । सनिर्वाहं-घृतनिर्गममार्गसहितमित्यर्थः ।
प्राक्शः मूलमारभ्य तदग्रदेशाभिमुखम् । तेषां-स्रुवादीनाम् । संप्रमार्गः । सं-
प्रमार्जनम् । जुह्वता-होतुमिच्छता । अत्र कातीयश्रौतसूत्रम्-“विपर्यस्य बर्हि-
र्मूलैः” इति । तथा च पद्धतिकृतोवीरेश्वरादयोलिखन्ति-सम्मार्जनकुशानामग्रै-
रन्तरतोमूलैर्बाह्यतः स्रुवं संमृज्ये-”ति । लिप्तानां घृतादिलेपवताम् । उभयोः
संस्कारे प्रसक्त स्रुव एवादौ संस्कार्यः । “स वै स्रुवमेवाग्रे सम्माष्ट्र्यथेतरा
स्रुचः” इति मुरारिमिश्रधृतशतपथश्रुतेः । प्रतापनञ्च सर्वेषां ( लिप्तानामलिप्ता-
नाञ्च ) उक्तं चैतत्कारिकायाम्-
“प्रतापयेत्ततोवह्नौ रक्षसां वारणाय च ।
स्रुवखाते च ये सन्ति पापिष्ठाः पापयोनयः ॥
वह्निप्रतापिताः सर्वे भस्मीभवन्ति तत्क्षणात् ॥” इति ।
अत एवाधोमुखस्य प्रतापनं निबन्धृभिर्लिखितं, तथासति खाततापस्य
सुकरत्वात् ॥ ८ ॥
अथ सामवेदिनां सायमारभ्यैवोपासनपरिचरणस्योक्तत्वात् ( १।१।२३ )
तत्प्रकारन्तथैवाह-
अग्नये स्वाहेति पूर्वा, तूष्णीमेवोत्तराम् ।
मध्ये चैवाऽपराजितायाञ्चैव दिशीति सायम् ॥ ९ ॥
पूर्वाम्-प्रथमामाहुतिं मध्य एवाग्नेर्जुहुयात् । इति प्रकृतमनुवर्त्तते ।
उत्तराम्-द्वितीयाम्-च आहुतिं तूष्णीम-अमन्त्रकमेव । मनसा प्रजापतये
स्वाहेति मन्त्रदेवते अनुसन्धाय अपराजितायामैशान्यां दिशि अग्नेर्जुहुयात् ।
तथाच कात्यायनः-
“आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते ।
मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥” इति ।
( १ ) प्रकारान्तरं यथा-ग्रहयागपद्धतौ-
“खादिरन्तु स्रुवं विद्याच्चतुर्विंशाङ्गुले बुधः । चतुर्थांशेन पाणिः स्यात्तावता कलशौ स्मृतौ ॥
सभूषणौ भागयुगे गण्डी कार्या सुवर्तुला । एकाङ्गुलोऽत्र कण्ठः स्यात्ततस्त्र्यङ्गुलहानियुक् ॥
हस्तोनिकुब्जाङ्गुलिकोमाध्यन्दिनकाराकृतिः । समीपाङ्गुलिसंलग्नाश्चतस्रोऽङ्गुलयोऽन्तरे ॥
बहिः किञ्चिद्विभिन्नाः स्युरङ्गुष्ठस्तलसंस्थितः । अनामिकामध्यपर्वाद्धोरिखा गतोभवेत् ॥
पवित्रञ्चाङ्गुरीयञ्च पाण्योस्तलगंत भवेत् । अङ्गुष्ठपृष्ठसंलग्नं पुष्करञ्चक्षतः पृथक् ॥
तन्मध्ये निखनेत्कूपं कर्षाज्यग्रहणक्षमम् । कलशौ तत्र कर्त्तव्यौ मणिबन्धे परान्तिके ॥
प्रथमेत्र्यङ्गुलं विद्याद्द्वितीयञ्चतुरङ्गुलम् । तयोः पार्श्वेषु कार्याणि कङ्कणानि विशारदैः ॥”
इति । गण्डी-दण्ड। कर्षः षोडशमाषमितः ‘गुञ्जाः पञ्चाद्यमाषकाः । ते षोडशा-
क्षः कर्षोऽस्त्री” इत्यमरः । मणिबन्धः पाणिप्रकोष्ठसन्धिः ।