सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 6, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 6

भूमिका । ३
“शूद्रोऽप्येवं विधः कार्योंविनामन्त्रेण संस्कृतः ।
न केन चित्समसृजच्छन्दसा तं प्रजापतिः ॥”
इति । एवंविधोऽदुष्टकर्मा । यथोदितकर्मा च । “अशूद्राणामदुष्टकर्मणा-
मि”-ति आपस्तम्बेनोपनयने शूद्रपर्युदासात्तस्यामन्त्रकमप्युपनयनं निषि-
द्धम् । अत एव—
“तस्मादस्याधिकारोस्ति न वेदेषु न च स्मृतौ”
इति तस्य वेदाद्यध्ययननिषेधः ।
तथा-“विवाहमात्रसंस्कारं शूद्रोऽपि लभतां सदा ।”
इत्यत्र मात्रग्रहणाद्विशेषविहितव्यतिरिक्तन्निवृत्तिरितिनोक्तवचनविरोधः ।
इदंवाक्यं विवाहे कन्यादानादिवाक्यसम्बन्धोभवति । संस्कारान्तरेषु च
लौकिकवैदिक-सर्वविधवाक्यनिवृत्तिरित्येतत्तात्पर्यकमित्यपरे वदन्ति ।
अथास्य प्रकाशने निदानम्
एकदा वर्त्तमानमिथिलेश-तातपादा रहस्येतमर्थमस्माभिः सविनयं प्रबोधिता
यदेते संस्कारा नाधुना पठनपाठनक्रमेण समाहताइति यथापुस्तकमधीतशास्त्रान्त-
राअपि पौरोहित्यमनुतिष्ठन्तो “यथालिखितपाठक”-तया
“गीती-शीघ्री-शिरः कम्पी यथालिखितपाठकः ।
अनर्थज्ञोऽल्पकण्ठश्च षड़ेते पाठकाधमाः ॥”
इति पाणिनिशिक्षया पाठकाधमेषु परिगणिताः सन्तोयथावत्कर्मकारयितु-
मपारयन्तः पुरोहिताअपि पुरोऽहिताः प्रायोवृत्त्या सम्बोभुवति ततएष कर्मका-
ण्डग्रन्थपठनपाठनक्रमोऽभिनवोद्घाटितमुजफ्फरपुरीयधर्मसमाजसंस्कृतमह-
विद्यालये धर्म्यइति कृत्वा स्थापितश्चेद्भविता तदा महती धर्मोन्नतिः ( धर्म्य-
कर्मज्ञानेन ) सम्पादिता स्यादिति ।
एवमस्मदभ्यर्थनया लुप्तप्रचारस्यास्य ( कर्मकाण्डग्रन्थपठनपाठनक्रमस्य )
सम्पाठनमुखेनराजकीयपरीक्षायामपिशास्त्रान्तरवदुपयोजयितुमावर्जितस्वान्तै रु-
क्तास्मत्प्रभुवरैर्मिथिलामहीमहेन्द्रैः श्रीमद्रमेश्वरसिंहवीरविक्रान्तैर्विहारोत्क-
लप्रान्तीयः सम्राड्द्वितीयप्रतिनिधिः सपुरस्कारन्तदर्थमार्थिकसाहाय्यकदानेनानु-
कूलितः। ततश्चास्य श्रौत-स्मार्त्ता-गमऽऽभेदभिन्नस्य त्रिविधस्यापि कर्म्मकाण्डस्य
सर्व्वाअपि प्रथमादिका उपाध्यन्ताः परीक्षास्तेन तत्र महाविद्यालयेकालेन प्रवर्त्तिताः
अथ तत्रोक्तविषयाध्यापनायोक्तप्रभुवरैर-हमेव तत्र नियोजयितुमुपश्लोकितो-
ऽथानुमतश्च “गवर्निङ्गबडी”-समाख्यसभायां समलमकार्षमुक्ताध्यापनस्थानम् ।
अथ गते बहुतिथे काले बिहारोत्कलप्रान्तीय-“संस्कृत-कौन्वोकेसन” सभायाः
सभ्येष्वन्यतमः संवृत्तः।
अथ तत्र ( सभायां ) सभ्यैरनतिप्रचाराणां दुर्बोधानाञ्च कर्म्मकाण्डे
पाठ्यग्रन्थानां ससरलव्याख्यं प्राकाश्यमभिलक्ष्यमाणानां प्राचीनानान्मध्ये