गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 5, कुल 332 में से
संदर्भ में पढ़ें२ भूमिका ।
“अतऊर्ध्वम्पतन्त्येते सर्वकर्मबहिष्कृताः”
इति याज्ञवल्क्येन गौणकालपर्यन्तमप्यनुपनीतेषु पातित्याभिधानात्। विवा-
होऽपि नित्यः । आवश्यक-सत्प्रजोत्पादनार्थत्वात् ।
“तस्मात्सर्वप्रयत्नेन कर्त्तव्योदारसंग्रहः”
इति देवलवचनात् । “दारान्सर्वप्रयत्नेन विशुद्धानुद्वहेत्ततः”
इति कश्यपवचनाच्च । गर्भाधानादि तु न तथा । अतएवानावश्यकत्वान्नानु-
तिष्ठन्ति बहव इति मुरारिमिश्रादयः । अत्र गर्भाधानं क्षेत्रसंस्कारद्वारा-
ऽपत्यसंस्कारकम् । पात्रसंस्कारस्य प्रक्षालनादेस्तत्स्थजलादिसंस्कारकत्व-
वत् । पुंसवन-सीमन्तोन्नयने अपि तथा । स च क्षेत्रसंस्कारः प्रथमगर्भएव-
संपन्नश्चेन्नैतेषान्त्रयाणां प्रतिगर्भमावृत्तिः । आरम्भणीयान्यायात् ।
“सकृच्चसंस्कृता नारी सर्वगर्भेषु संस्कृता ।
यंयंगर्भं प्रसूयन्ते स सर्वः संस्कृतोभवेत्”
इति हारीतवचनाच्च । पत्नीभेदे तु भवत्येव त्रयाणामावृत्तिः । “प्रधानावृत्तौ
गुणावृत्तिरिति”-तिन्यायात् । जातकम्र्मादिकन्तु न स्त्रीद्वाराऽपत्यसंस्कारकमिति
न तत्प्रत्यपत्यमावर्त्तते । अत्र याज्ञवल्क्यः—
“ब्रह्म-क्षत्रिय-विट्-शूद्रा वर्णास्त्वाद्यास्त्रयोद्विजाः ।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः”
मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मण-क्षत्रिय-विशस्तस्मादेते द्विजाः स्मृताः” ” इति ।
इमे च संस्काराः पुंसामिव स्त्रीणामपि चातुर्वर्ण्येषु नियमिता महर्षिभिः ।
केवलमेषु विवाह एव समन्त्रकोऽन्येसंस्कारा अमन्त्रका एव भवन्तीति—
“तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ।
इति स्मृत्योक्तम् । तूष्णीम्-अमन्त्रिकाः। एता-जातकम्र्मादिकाः । यत्त्वत्र
“निषेकाद्या” इति मुरारिमिश्रैरुक्तन्तद्युक्तम् । जन्मतः पूर्वं स्त्रीत्वनिर्णयास-
म्भवात् ।
मनुः—“अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ।
संस्कारार्थं शरीरस्य यथाकालंयथाक्रमम् ॥
वैवाहिकोविधिः स्त्रीणामौपनायनिकःस्मृतः ।
पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया”॥
इति । औपनायनिकः । उपनयनकार्य—(प्रायत्य—) कारी । स्त्रीणामुपन-
नयस्थाने विवाहएवेति यावत् । गुरुशुश्रूषणस्थाने-पतिसेवा । अग्निपरिचरण-
स्थाने गृहकार्यम् । एतेसंस्काराः शूद्राणाममन्त्रका भवन्ति । तथा च यमः