गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 326, कुल 332 में से
संदर्भ में पढ़ेंगोभिल-श्राद्धकल्पे— २९५
शाण्डिल्यस्य महामुनेरकलुषे गोत्रे प्रशस्ये सताम् ।
जातः सद्गुणभूषिते करमहावंशे मुकुन्दः सुधीः ॥
व्याकृत्यादिविचक्षणः क्षणमपि प्रेक्षा न यस्याऽभवत् ।
श्रौत-स्मार्त्त-शिवोक्त(१)कर्मनिचयादन्यत्र लग्ना क्वचित् ॥ १ ॥
विग्नः पुत्रकलत्रमित्रनिवहस्यार्थेऽसमर्थोऽपि सन् ।
श्री५लक्ष्मीश्वरसिंहभूपतिमणेर्वैदेहभूमीशितुः ॥
आशीताचले सेतु-विस्तृतयशोराशेर्द्यासागर-
स्यात्यर्थं कृपयाऽऽप्रसन्नमतिरिति प्रज्ञाय विज्ञापितः(२)॥
तस्याऽशेषगुणाकरस्यमहतः पत्न्याः प्रशस्यात्मनः ।
ज्येष्ठायाः स्वगुणैःसमा रवि(१२)मिता धर्म्माधिकारेस्थितं ।
सेवासक्तमना न जातुचिदपि प्राप्तोऽमतत्वं, सदा ।
सद्धर्मे नितराम्रतिन्दददमुष्याःसम्मतोऽभूत्ततः ॥
शा०केष्वब्धिवसुक्ष्मा(१८४१)परिमिते कस्यापि वश्यात्मनः ।
शश्वत्प्रार्थनया कमश्नरमहाभागैः समाकारितः ॥
धर्म्मोद्धारकृतोमहर्षितुलितस्य श्री५रमेशप्रभोः ।
सम्मत्याऽत्र कृतोमुजफ्फरपुरे विद्यालयेऽध्यापकः(३)॥ २ ॥ ३ ॥ ४ ॥
(विशेषकम्)
श्रीमद्गोभिलगृह्यसूत्रनिवहेऽन्तेवासिनां प्रक्षुते ।
सम्राट्स्थापितसत्परीक्षाविधौ पूर्णोपकारक्षमाम् ॥
व्याख्यां पूर्वकृतिप्रगल्भलिखितच्छायातिहृद्यां व्यधात् ।
नाम्नेमां "मृदुलां" शराब्धिवसुभू (१८४५) शा० के तपस्यर्जुने ॥
वारे भूमिभुवोदिवाकरतिथौ साम्राज्यभाजि प्रभौ ।
जॉर्ज पञ्चमके नकेऽत्र सुखिनः स्वे स्वेऽधिकारे स्थिताः ॥
तस्यैवातिगुणे मुजफ्फरपुरे संस्थापिते प्रोन्नते ।
नानाशास्त्रपरिश्रिते ननु महाविद्यालयेऽध्यापयन्(४) ॥ ५ ॥ ६॥
(युग्मम्)
विद्वांसोऽमत्सरा नूत्नां प्रत्नव्याख्याश्रितां पुरा ।
लोकन्ते चेदिमां क्षुद्रां सफलः स्याच्छ्रमोह्ययम् ॥ ७ ॥ इति ॥
यत्नेन गच्छतोमार्गे स्खलनं चेन्महीयसाम् ।
हसन्त्यसाधवस्तत्र समादधति सज्जनाः ॥ १ ॥ इति च ॥
(१) आगमशास्त्रं शिवोक्तम् ।
(२) विचार्य ज्ञापितोमहाराज्या सेवाऽऽसक्तमनाअभूदित्यन्वयः ।
(३) श्रौत-स्मार्त्ता-ऽऽगमकर्मकाण्डस्य ।
(४) अस्य व्यधादिति गतेनाभिसम्बन्धइति युग्मम् ॥