गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 313, कुल 332 में से
संदर्भ में पढ़ेंअथ-सर्वगृह्य(१)कर्माङ्गाभ्युदयिकसूत्रम्--
( श्राद्धकल्पचतुर्थखण्डस्थम् )
अथाभ्युदयिके श्राद्धे युग्मानांशयेत्। प्रदक्षिणमुपचारः। ऋज-
वोदर्भैः । यवैस्तिलार्थः । सम्पन्नमितितृप्तिप्रश्नः । दधिवदराक्षत-
मिश्रान्पिण्डान् । नान्दीमुखाः पितरः प्रीयन्तामिति वाचयेदिति
पितृभ्यः पितामहेभ्यः प्रपितामहेभ्योमातामहेभ्यः प्रमातामहेभ्यो
वृद्धप्रमातामहेभ्यः स्वाहोच्यतामिति । अस्तु स्वाहेत्युक्ते न स्वधाम्प्र-
युञ्जीत ॥ ४-१-१० ॥ इति ॥
गो० गृ० सूत्रम्-
वृद्धिपूर्त्ते युग्मानाशयेत्। प्रदक्षिणमुपचारः।यवैस्तिलार्थः।(४।३।३५-३७)
इतिच॥ अथेत्या(२)रम्भार्थकमपि मुखतोमङ्गलार्थम् । आभ्युदयिके
अभ्युदयप्रयोजनके “तदस्ये-”त्यधिकृत्य “प्रयोजनम्” ( पा० ५।१।१०९ )
इतिविहितस्यठञ्इकादेशेन ( पा० ७।३।५ ) पदसिद्धेरुपपादनात् । अभ्युदयः
समृद्धिरित्यनर्थान्तरम् । “नान्दी समृद्धिरिति कथ्यते” इति शुभकर्म्मनिर्णय-
धृतं भविष्यपुराणम् । तथा च नान्दीपदस्य चतुर्थीसमासबलेन तदर्थपर-
तया नान्दीश्राद्धमप्येतदेवात एवात्र पितरोऽपि नान्दीमुखा एव सूत्रेऽन्यत्रचा-
भिहिताः । तदिदं श्राद्धं मातृकापूजा-वसोर्द्धाराऽऽयुष्यमन्त्रजपान्कृत्वा कार्यम् ।
तथाच कर्म्मप्रदीपे कात्यायनः-
कर्मादिषु च सर्वेषु मातरः सगणाऽधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः॥
प्रतिमासु च शुभ्रा-( द्धा )-सु लिखिता वा पटादिषु ।
अपिवाऽक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः ॥
कुड्यलग्नां वसोर्द्धारां सप्तवारान्घृतेन तु ।
कारयेत्पञ्चवारान्वा नातिनीचां नचोच्छ्रिताम् ॥
( १ ) तथा च सूत्रम्-“सर्वाण्येवान्वाहार्यवन्ति” ( १।१।५ ) इति । अन्वाहार्य-
मेतन्मते नान्दीमुखमिति तत्रैवावोचाम ॥
( २ ) तथा चामरः “मङ्गलाऽनन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथ” इति। तत्रसकृदु-
च्चरितन्यायेनैकस्यैकत्रानेकार्थत्वमनुपपन्नमिति मुखत इत्युक्तम् । उच्चारणेनैवायं यात्रायां
मृदङ्गादिध्वनिवन्मङ्गलं जनयति । तथाचोक्तं “ॐ कारश्चाथशब्दश्चद्वावेतौ ब्रह्मणः पुरा।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ” इति । माङ्गलिकौ-मङ्गलप्रयोजनकौ ॥
“प्रयोजनम्” ( पा० ५।१।१०९ ) इति ठक् । तस्येकः । अत्र “तदस्ये” त्यनुवर्त्तते ।