गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 28, कुल 332 में से
संदर्भ में पढ़ें( २१ )
( अथसमावर्त्तनसूत्राणि )
अथ तृतीयप्रपाठकस्य चतुर्थी कण्डिका—
१ ब्रह्मचारी वेदमधीत्य ॥
२ उपन्याहृत्य गुरवे ॥
३ अनुज्ञातो दारान्कुर्वीत ॥
४ असगोत्रान् ॥
५ मातुरसपिण्डान् ॥
६ नग्निका तु श्रेष्ठा ॥
७ अथाऽऽप्लवनम् ॥
८ उत्तरतः पश्चाद्वाऽऽचार्य्यकुलस्य परिवृतम्भवति ॥
९ तत्र प्रागग्रेषु दर्भेषूङ्ङाचार्य उपविशति ॥
१० प्राङ् प्रह्वाचार्य्युदगग्रेषु दर्भेषु ॥
११ शीतोष्णाभिराचार्य्योऽभिषिञ्चेत् ॥
१२ स्वयमिव तु ॥
१३ मन्त्रवर्णो भवति ॥
१४ “येऽश्वन्तरग्नयः प्रविष्टा” इत्यपामञ्जलिमवसिञ्चति ॥
१५ “यदपां घोरं यदपां क्रूरं यदपामशान्तमि”ति च ॥
१६ “यो रोचनस्तमिह गृह्णामी”त्यात्मानमभिषिञ्चति ॥
१७ “यशसे तेजस” इति च ॥
१८ “येन श्रियमकृणुतमि”-ति च ॥
१९ तूष्णीञ्चतुर्थम् ॥
२० उपोत्थायादित्यमुपतिष्ठते “उद्यन्भ्राजभृष्टिभि”—रित्येतत्प्रभृतिना
मन्त्रेण ॥
२१ यथालिङ्गं वा विहरन् ॥
२२ चक्षुरसीत्यनुबध्नीयात् ॥
२३ मेखलामवमुञ्चत “उदुत्तमं वरुणपाशमि”ति ॥
२४ ब्राह्मणान्भोजयित्वा स्वयम्भुक्त्वा केशश्मश्रुलोमनखानि वापयीत
शिखावर्ज्जम् ॥
२५ स्नात्वाऽलङ्कृत्याऽहते वाससी परिधाय स्रजमाबध्नीत “शीरसि
मयि रमस्वे”ति ॥
२६ “नेत्र्यौ स्थो नयतम्मामि”—त्युपानहौ ॥
२७ “गन्धर्वोऽसी”ति वैणवदण्डं गृह्णाति ॥