सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 27, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 27

( २० )
हस्तं गृभ्णाम्यसावि"ति ॥
२७ अथैनं प्रदक्षिणमावर्त्तयति “सूर्यस्यावृतमन्वावर्त्तस्वासावि”ति ॥
२८ दक्षिणेन पाणिना दक्षिणमंसमन्ववमृश्यानन्तर्हितान्नाभिमभिमृशेत्
“प्राणानां ग्रन्थिरसी”ति ॥
२९ उत्सृप्य नाभिदेशं “महुर” इति ॥
३० उत्सृप्य हृदयदेशं “क्रुशन” इति ॥
३१ दक्षिणेन पाणिना दक्षिणमंसमन्वालभ्य “प्रजापतये त्वा परिददा-
म्यसावि”ति ॥
३२ सव्येन सव्यं “देवायत्वा सवित्रे परिददाम्यसावि”ति ॥
३३ अथैनं सम्प्रेष्यति “ब्रह्मचार्य्यस्यसावि-”ति ॥
३४ “समिधमाधेह्यपोऽशान कर्म्म कुरु मा दिवा स्वाप्सीरि”ति ॥
३५ उदगग्नेरुत्सृप्य प्राङाचार्य्य उपविशत्युदगग्रेषु दर्भेषु ॥
३६ प्रत्यङ्ङ्माणवकोदक्षिणजान्वक्तोऽभिमुख आचार्य्य उदगग्रेष्वेव
दर्भेषु ॥
३७ अथैनं त्रिः प्रदक्षिणणं मुञ्जमेखलाम्परिहरन् वाचयति “इयं दुरुक्तात्
परिवाधमाने-”ति “ऋतस्य गोप्त्री”-ति च ॥
३८ अथोपसीद् “त्यधीहि भोः सावित्रीं मे भवाननुब्रवीत्वि-”ति ॥
३९ तस्मा अन्वाह-पच्छो-ऽर्द्धर्चश ऋक्कृत्स्न इति ॥
४० महाव्याहृतीश्च विहृता ओंकारान्ताः ॥
४१ वार्क्षञ्चास्मै दण्डम्प्रयच्छन्वाचयति “सुश्रवः सुश्रवसं मा कुर्वि”ति ॥
४२ अथ भैक्षञ्चरति ॥
४३ मातरमेवाग्रे, द्वे चान्ये सुहृदौ, यावत्यो वा सन्निहिताः स्युः ॥
४४ आचार्य्याय भैक्षन्निवेदयति ॥
४५ तिष्ठत्यहः शेषं वाग्यतः ॥
४६ अस्तमिते समिधमादधाति “अग्नये समिधमाहार्षम”-ति ॥
४७ त्रिरात्रमक्षारलवणाशी भवति ॥
४८ तस्यान्ते सावित्रश्चरुः ॥
४९ यथार्थम् ॥
५० गौर्दक्षिणा ॥
इति द्वि० प्र० दशमी कण्डिका ॥ १० ॥
इति द्वितीयः प्रपाठकः ॥ २ ॥