गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 20, कुल 332 में से
संदर्भ में पढ़ें( १३ )
अथ तृतीया कण्डिका —
१ प्रागुदीच्यान्दिशि यद्ब्राह्मणकुलमभिरूपम् ।
२ तत्राग्निरुपसमाहितो भवति ॥
३ अपरेणाग्निमानडुहं रोहितञ्चर्म्म प्राग्ग्रीवमुत्तरलोमास्तीर्णम्भवति ॥
४ तस्मिन्नेनां वाग्यतामुपवेशयन्ति ॥
५ सा खल्वास्त एवानक्षत्रदर्शनात् ॥
६ प्रोक्ते नक्षत्रे षडाज्याहुतीर्जुहोति 'लेखासन्धिष्व'त्येतत्प्रभृतिभिः॥
७ आहुतेराहुतेस्तु सम्पातं मूर्धनि वध्वा अवनयेत् ॥
८ हुत्वोपोत्थायापनिष्क्रम्य ध्रुवन्दर्शयति ।
९ "ध्रुवमसि ध्रुवाहम्पतिकुले भूयासममुष्यासावि"ति पतिनाम गृह्णी-
यादात्मनश्च ।
१० अरुन्धतीञ्च ॥
११ "रुद्धाहमस्मी"त्येवमेव ॥
१२ अथैनामनुमन्त्रयते "ध्रुवाद्यौरि"त्येतयर्चा ॥
१३ अनुमन्त्रिता गुरुं गोत्रेणाभिवादयते ॥
१४ सोऽस्या ( वाग् ) विसर्गः ॥
१५ तावुभौ तत्प्रभृति त्रिरात्रमक्षारलवणाशिनौ ब्रह्मचारिणौ सह शय्यां
याताम् ॥
१६ अश्राद्ध्यमित्याहुः ॥
१७ आगतेष्वित्येके ॥
१८ हविष्यमन्नं प्रथमं परिजपितं भुञ्जीत ॥
१९ श्वोभूते वा समशनीयꣳस्थालीपाकं कुर्वीत ॥
२० तस्य देवता अग्निः प्रजापतिर्विश्वेदेवा अनुमतिरिति ॥
२१ उद्धृत्यस्थालीपाकं व्यूह्यैकदेशं पाणिनाऽभिमृशेत् "अन्नपाशेन
मणिने"ति ॥
२२ भुक्तोच्छिष्टं वध्वै प्रदाय यथार्थम् ॥ गौर्दक्षिणा ॥
इति द्वि० तृतीया कण्डिका ॥ १ ॥ ३ ॥ ❊ ॥
अथ चतुर्थी कण्डिका—
१ यानमारोहन्त्याꣳ "सुकिꣳशुकं शाल्मलिम"त्येतामृचं जपेत् ॥
२ अध्वनि चतुष्पथान्प्रतिमन्त्रयते नदीश्च विषमाणि च महावृक्षान्
श्मशानञ्च "मा विदन् परिपन्थिन" इति ॥