गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 19, कुल 332 में से
संदर्भ में पढ़ें( १२ )
ति-“अग्निरेतु प्रथम” इत्येतत्प्रभृतिभिः ॥
२५ महाव्याहृतिभिश्च पृथक् ॥
२६ समस्ताभिश्चतुर्थीम् ॥
इति द्वितीयपाठकस्य प्रथमा कण्डिका ॥ २ ॥ १ ॥
अथ द्वितीया कण्डिका—
१ हुत्वोपोत्तिष्ठतः ॥
२ अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते । वध्वञ्जलिं
गृहीत्वा ॥
३ पूर्वा माता लाजानादाय भ्राता वा वधूमाक्रामयेदश्मानं दक्षिणेन
प्रपदेन ॥
४ पाणिग्राहो जपति “इममश्मानमारोहे”ति ॥
५ सकृत्सङ्गृहीतं लाजानामञ्जलिं भ्राता वध्वञ्जलावावपति ॥
६ तं सोपस्तीर्णाभिघारितमग्नौ जुहोत्यविच्छिन्दत्यञ्जलिं “इयं नार्यु-
पब्रूते” इति ॥
७ “अर्यमण्णु देवं” “पूषणमि” त्युत्तरयोः ॥
८ हुते पतिर्यथेतं परिव्रज्य प्रदक्षिणमग्निं परिणयति मन्त्रवान्वा ब्राह्मणः
“कन्यलापितृभ्य” इति ॥
९ परिणीता तथैवावतिष्ठते तथाऽऽक्रामति, तथा जपति तथाऽऽवपति
तथा जुहोति ॥
१० एवं त्रिः ॥
११ शूर्पेण शेषमग्नावावप्य प्रागुदीचीमभ्युत्क्रामय“न्त्येकमिश” इति ॥
१२ दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत् ॥
१३ “मा सव्येन दक्षिणमतिक्रमे”ति ब्रूयात् ॥
१४ ईक्षकान्प्रतिमन्त्रयेत “सुमङ्गलीरियं वधू” रिति ॥
१५ अपरेणाग्निमौदकोऽनुसंव्रज्य पाणिग्राहं मूर्द्धदेशेऽवसिञ्चति, तथेतरां
“समञ्जन्त्व”त्येतयर्चा ॥
१६ अवसिक्तायाः सव्येन पाणिनाऽञ्जलिमुपोद्गृह्य दक्षिणेन पाणिना
दक्षिणां पाणि साङ्गुष्ठमुत्तानं गृहीत्वैताः षट् पाणिग्रहणीया जपति
“गृभ्णामित” इति ॥
१७ समाप्तासूद्वहन्ति ॥ * ॥
इति द्वितीयप्रपाठकस्य द्वितीया कण्डिका ॥ २ ॥ ३ ॥