सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 21, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 21

( १४ )
३ अक्षभङ्गे नद्धविमोक्षे यानविपर्यासेऽन्यासु चापत्सु यमेवाग्निं हरन्ति
तमेवे।पसमाधाय व्याहृतिभिर्हुत्वाऽन्यद्भग्द्रव्यमाहृत्य “यन्नृते चिद्-
मिक्षिपः” इत्याज्यशेषेणाभिन्यञ्जेत् ॥
४ वामदेव्यं गीत्वाऽऽरोहेत् ॥
५ प्राप्तेषु वामदेव्यम् ॥
६ गृहागतायां पतिपुत्रशीलसम्पन्ना ब्राह्मण्योऽवरोप्यानडुहे चर्मणि
उपवेशयन्ति “इहगावः प्रजायध्वमिति ॥
७ तस्याः कुमारमुपस्थ आदध्युः ॥
८ तस्मै शकलोटानञ्जलावावपेयुः ॥
९ फलानि वा ॥
१० उत्थाप्य कुमारं ध्रुवा आज्याहुतीर्जुहोत्यष्टा “विहधृतिरि”ति ॥
११ समाप्तासु समिधमाधाय यथावयसं गुरून्गोत्रेणाभिवाद्य मयार्थम् ॥
इति द्वि० प्र० च० कण्डिका ॥ २ ॥ ४ ॥ ॐ ॥
अथ पञ्चमी कण्डिका
१ अथातश्चतुर्थीकर्म ॥
२ अग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति “अग्ने प्रायश्चित्त”
इति चतुः ॥
३ अग्नेः स्थाने वायुचन्द्रसूर्याः ॥
४ समस्य पञ्चमीं बहुवदूद्य ॥
५ आहुतेराहुतेस्तु सम्पातमुदपात्रेऽवनयेत् ॥
६ तेनैनाङ् सकेशनखामभ्यज्य हासयित्वाऽऽप्लावयन्ति ॥
७ ऊर्ध्वन्त्रिरात्रात्सम्भव इत्येके ॥
८ यदर्त्तुमती भवत्युपरतशोणिता तदा सम्भवकालः ॥
९ दक्षिणेन पाणिनापस्थमभिमृशेद् “विष्णुर्योनिं कल्पयत्वि”त्येतयर्चा
“गर्भन्धेहि शिनीवाली” ति च ॥
१० समाप्यर्चौ सम्भवतः ॥
इतिद्वि०पञ्चमी कण्डिका ॥ २ ॥ ५ ॥
अथ षष्ठी कण्डिका-
१ तृतीयस्य गर्भमासस्यादिसद्देशे पुंसवनस्य कालः ॥
२ प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु-, पश्चादग्नेरुदगग्रेषु दर्भेषु
प्राङ्मुख्युपविशति ॥