गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 192, कुल 332 में से
संदर्भ में पढ़ें२ कण्डिका ] गोभिलगृह्यसूत्रे- २६१
अथैनामनुमन्त्रयते-“ध्रुवा द्यौरि-”त्येतयर्चा ॥ १२ ॥
( मं०ब्रा० १।३।८ )
अथानन्तरमेष एनां—वधूं प्रकरणाद्धरः । अनुमन्त्रणोक्तेरनामिकाग्रेण
स्पृशन्निति गम्यते । उक्त-( २।२।१४ सू० )-वचनात् । मन्त्रोयथा—
“ध्रु॒वाद्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दञ्जग॑त् ।
ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वा स्त्री प॑तिकु॒ले इ॒यम्” ॥ ८ ॥ इति ।
अस्यार्थः । अत्र यथा—तथेत्यध्याहायमर्थसाङ्गत्यार्थम् । 'यथा' 'द्यौः' अन्त-
रिक्षम् । 'ध्रुवा' स्थिरा 'पृथिवी' च 'ध्रुवा' स्थिरा । 'विश्वं' सर्वम् 'इदञ्जगत्'
सचराचरं 'ध्रुवम्' । सद्रूपेणाऽवस्थितम् । यथा च 'इमे' 'पर्वताः' 'ध्रुवासः'
ध्रुवाः(१) । तथा 'इयं स्त्री' पतिकुले' पतिगृहे(२) 'ध्रुवा' स्थिरा "भवत्वि"-ति
शेषः ॥ ८ ॥ इति ॥ २१ ॥
अनुमन्त्रिता गुरुं गोत्रेणाभिवादयते ॥ १३ ॥
अनुमन्त्रितैव(३) वधूरभिवादयते । न तु तन्त्रसमापनानन्तरम् । गुरुं
पतिम् । तथाच याज्ञवल्क्यः-“पतिरेको गुरुः स्त्रीणामि”-ति । गोत्रेण-पति-
गोत्रेण । सान्निध्यात्(४) । स्मृत्यन्तरसंवादाच्च । तदानीमेव तद्गोत्रत्वात्तस्याः ।
तथाच लघुहारीतः—
“स्वगोत्राद्भ्रश्यते नारी विवाहात्सप्तमे पदे ।
पतिगोत्रेण कर्त्तव्या तस्याः सर्वक्रिया ततः ॥”
इति । एवञ्च—
“चतुर्थीहोममन्त्रेण त्वङ्मासहृदयेन्द्रियैः ।
भर्त्रा संयुज्यते नारी तद्गोत्रा तेन सा भवेत् ॥”
इति बृहस्पतिवचनं शाखान्तरविषयम् ॥ तन्मन्त्रलिङ्गसंवादात् । तदुक्तं
बृहस्पतिनैव ।
“पाणिग्रहणिका मन्त्राः पतिगोत्रप्रदायकाः ।”
इति । एवञ्च प्रवरसापिण्ड्ययोरपि इदानीमेव प्राप्तिः । गोत्रसमानत्वात् ।
अत्राभिषेकपाणिग्रहणमन्त्राणा(५)मेव शरीरैक्यनिमित्तत्वाच्चेति बोध्यम् ॥
( १ ) “आजसेरसुकू” ( पा० ७।१।५० ) इत्यसुगागमः ॥
( २ ) “कुले जनपदे गोत्रे सजातीयगणेष्वपि । भवने च तनो क्लीबमि”ति मेदिनी ।
( ३ ) अनुमन्त्रितैतिश्लोपादानमेवानुमन्त्रणानन्तरमेवाभिवादनप्राप्त्यर्थमिति भा-
ष्यकारः ॥
( ४ ) गुरुं गोत्रेणेति पदयोः । अतएव पद्धतिकृतोबारेेश्वरादयः “अनुमन्त्रिता सती
प्राज्ञेन गोत्रेण पाणिग्राहमभिवादयेत्” इत्येवं लिखन्ति स्म ॥
( ५ ) अनुमन्त्रण-मन्त्रेणाऽप्ययमर्थोऽभिनिसरति “ध्रुवा स्त्री पतिकुले इयमि”ति ।
कुलशब्दो-गोत्रार्थकोऽपि मेदिन्यामुक्त इत्यनुपदमेवोपदर्शितम् ॥
२१ गो० गृ० सू