सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 18, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 18

( ११ )
अथ द्वितीयप्रपाठके प्रथमा कण्डिका —
१ पुण्ये नक्षत्रे दारान्कुर्वीत ॥
२ लक्षणप्रशस्तान्कुशलेन ॥
३ तदलाभे पिण्डान् ॥
४ वेद्याः सीताया हृदाद्गोष्ठाच्चतुष्पथाद्देवनादादहनादीरिणात् ॥
५ सर्वेभ्यः सम्भार्य्यं नवमम् ॥
६ समान् कृतलक्षणान् ॥
७ पाणावाधाय कुमार्य्या उपनामये-“ऋतमेवप्रथममृतं नात्येति कश्चनर्त-
इयं पृथिवी श्रिता सर्वमिदमसौ भूयादि”ति तस्या नाम गृहीत्वैषा-
मेकं गृहाणेति ब्रूयात् ॥
८ पूर्वेषाञ्चतुर्णांङ्गृण्हन्तीमुपयच्छेत् ॥
९ सम्भार्य्यमपीत्येके ॥
१० क्रीतकैर्य्यैर्म्मार्गैर्वाऽऽप्लुताᳪसुहृत्सुरोत्तमेन सशरीरां त्रिर्म्मूर्धन्य-
भिषिञ्चेत्-“कामं वेद ते नाम मदोनामासी”ति समानयाम्युमिति
पतिनामगृह्णीयात्—स्वाहाकारान्ताभिरुपस्थमुत्तराभ्यां प्लावयेत् ।
११ ज्ञातिकर्म्मतत् ।
१२ पाणिग्रहणे पुरस्ताच्छालाया अग्निरुपसमाहितोभवति ॥
१३ अथ जन्यानामेको ध्रुवाणामपां कलशं पूरयित्वा सहोदकुम्भः प्रावृतो
वाग्यतोऽग्रेणाग्निं परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते ॥
१४ प्राजनेनान्यः ॥
१५ शमीपलाशमिश्रांश्च लाजांश्चतुरञ्जलिमात्रान् शूर्पेणोपसादयन्ति ।
पश्चादग्नेः ॥
१६ दृषदत्पुत्रञ्च ॥
१७ अथ यस्याः पाणिं ग्रहीष्यन्भवति सशिरस्का साऽऽप्लुता भवति ॥
१८ अहतेन वसनेन पतिः परिदध्यात् “याअकृन्तन्” एतयर्चा “परिधत्त
धत्त वाससे”ति च ॥
१९ प्रावृतां यज्ञोपवीतिनीमभ्युदानयन् जपेत् “सोमोऽददद्गन्धर्व्वायेति” ॥
२० पश्चादग्नेः संवेष्टितकूटमेवं जातीयं वान्यत् पद्भ्या प्रवर्तयन्तीं वा-
चयेत्-“प्रमे पतियानः पन्थाः कल्पतामि”ति ॥
२१ स्वयं जपेदजपन्त्यां “प्रास्या” इति ॥
२२ बर्हिषेऽन्तं कटान्तं प्रापयेत् ॥
२३ पूर्वे कटान्ते दक्षिणतः पाणिग्राहस्योपविशति ॥
२४ दक्षिणेन पाणिना दक्षिणमᳪसंमन्वारब्धायाः षडाज्याहुतीर्जुहो-