गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 17, कुल 332 में से
संदर्भ में पढ़ें( १० )
३ “ब्राह्मणस्य तृप्तिमनुतृप्यामी”ति ह यज्ञस्य वेदयन्ते ॥
४ अथ यदस्यान्यदन्नमुपसिद्धं स्यात् ॥
५ अथ ब्राह्मणान्भक्तेनोपेप्सेत् ॥
६ पूर्णपात्रोदक्षिणा तं ब्रह्मणे दद्यात् ॥
७ कंसं चमसं वाऽन्नस्य पूरयित्वा कृतस्य वाऽकृतस्य ‟वाऽपि वा
फलानामेवैतं पूर्णपात्रमित्याचक्षते ॥
८ ब्रह्मैवैक ऋत्विक् ॥
९ पाकयज्ञेषु स्वयंऽहोता भवतीति ॥
१० पूर्णपात्रोऽवमः पाकयज्ञानां दक्षिणा ॥
११ अपरिमितम्पराद्धर्धम् ॥
१२ अपि ह सुदाः पैजवन ऐन्द्राग्नेन स्थालीपाकेनेष्ट्वा शतं सहस्राणि ददौ ॥
१३ अथ यदि गृह्येऽग्नौ सायं प्रातर्होमयोर्वा दर्शपूर्णमासयोर्वा हव्यं वा
होतारं वा नाधिगच्छेत् कथं कुर्यादिति ? ॥
१४ आसायमाहुतेः प्रातराहुतिर्नात्येत्याऽऽप्रातराहुतेः सायमाहुतिरामा-
वास्यायाः पौर्णमासं नात्येत्यापूर्णमास्या आमावास्यम् ॥
१५ एतेनैवावकाशेन हव्यं वा होतारं वा लिप्सेत् ॥
१६ अपि वा यज्ञियानामेवौषधिवनस्पतीनां फलानि वा पलाशानि वा
श्रपयित्वा जुहुयात् ॥
१७ अप्यप एवान्ततो जुहुयादिति ह स्माह पाकयज्ञ ऐडोहुतं ह्येव ॥
१८ अहुतस्य प्रायश्चित्तं भवतीति ॥
१९ नाव्रतो ब्राह्मणः स्यादिति ॥
२० अथाप्युदाहरन्ति ॥
२१ यावन्न हूयेताभोजनेनैव तावत्सन्तनुयात् ॥
२२ अथ यदाधिगच्छेत् प्रतिजुहुयात् ॥
२३ एवमस्य व्रतं सन्ततं भवतीति ॥
२४ एषोऽत ऊर्ध्वंऽहविराहुतिषु न्यायः ॥
२५ मन्त्रान्ते स्वाहाकारः ॥
२६ आज्याहुतिष्वाज्यमेव संस्कृत्योपघातं जुहुयात् नाज्यभागौ न
स्विष्टकृत् ॥
२७ आज्याहुतिष्वनादेशे पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिर्होमः ॥
२८ यथा पाणिग्रहणे तथा चूडाकरणे चोपनयने गोदाने च ॥
२९ अपवृत्ते कर्म्मणि वामदेव्यगानंऽशान्त्यर्थं शान्त्यर्थम् ॥
इति प्र०प्र०नवमी कण्डिका ॥ १ ॥ ९ ॥
समाप्तश्च प्रथमः प्रपाठकः ॥*॥