गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 146, कुल 332 में से
संदर्भ में पढ़ेंपुण्ये(१) शोभने । नक्षत्रे ज्योति(२)श्शास्त्रोक्ते । विवाहे तस्यादरातिशयो-
ऽनेन द्योत्यते । दारान्-“दाराः पुंभूम्नि चाक्षताः” इत्यभिधानान्नित्यं पुंलिङ्गो-
बहुवचनान्तश्च दारशब्दः सहधर्म्मचारिणीवाचकः । तांकुर्वीत । उद्वहेत ॥ १ ॥
कीदृशान्? तत्राह-
लक्षणप्रशस्तान्कुशलेन ॥ २ ॥
लक्षणेन प्रशस्तान्प्रशस्त(३)लक्षणोपेतान् । यद्वाऽन्तर्भावितण्यर्थोऽत्र प्रशंस-
तिः । लक्षणपदञ्च तज्ज्ञे लाक्षणिकन्तेन लक्षणज्ञप्रशंसितान् । कुशलेनेति लक्षण-
पदार्थान्वयि । स्त्रीलक्षणाभिज्ञेनेति तदर्थः । तथाच तद्द्वारा लक्षणान्यवगन्तव्या-
नि । नित्यसापेक्षस्थले एकदेशान्वयस्य देवदत्तस्य गुरुकुलमित्यादिषु दर्शनात् ।
यद्वा कुशलेन स्त्रीलक्षणविदा पुरुषेण लक्षणैर्वैधव्यादिसूचकैरन्निन्द्याद्युक्तैः प्रश-