गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 11, कुल 332 में से
संदर्भ में पढ़ें( ४ )
१६ निष्ठिते सायमासप्रातराशे भूतमिति प्रवाचयेत् ॥
१७ श्रुतेऽभगया वाचा शुचिर्भूत्वा ॥
१८ प्रतिजपत्योमित्युक्तैस्तस्मै नमस्तन्माहा इत्युपांशु ॥
इति प्र० प्र० तृतीया कण्डिका ॥ १ ॥ ३ ॥ ☸ ॥
अथ चतुर्थी कण्डिका—
१ अथ वाग्यतोबलीन्हरेत् ॥
२ भाषेतार्न्नसंसिद्धिमतिथिभिः कामं सम्भाषेत ॥
३ अथ हविष्यस्यान्नस्योद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्याग्नौ जुहुयात् तू-
ष्णींपाणिनच ॥
४ प्राजापत्या पूर्वाऽऽहुतिर्भवति सौविष्टकृत्युत्तरा ॥
५ अथ बलीन्हरेत् बाह्यतोवाऽन्तर्वा सुभूमिं कृत्वा ॥
६ सकृदपोनिनयि चतूर्धा बलिं निदध्यात् सकृदन्ततः परिषिञ्चेत् ॥
७ एकैकं वाऽनुनिधानमुभयतः परिषिञ्चेत् ॥
८ स यत्प्रथमं निदधाति स पार्थिवोबलिर्भवति । अथ यद्द्वितीयं स
वायव्यो यत्तृतीयं स वैश्वदेवो यच्चतुर्थं स प्राजापत्यः ॥
९ अथापरान्बलीन्हरेत् । उद्घानस्य, मध्यमस्य द्वारस्याब्दैवतः प्रथमो-
बलिर्भवत्योषधिवनस्पतिभ्यो द्वितीय, आकाशाय तृतीयः ॥
१० अथापरं बलिं हरेत्-शयनं वाऽधिवर्चों वा स कामाय वा बलिर्भवति
मन्यवे वा ॥
११ अथ संस्तूपं स रक्षोजनेभ्यः ।
१२ अथैतद्बलिशेषमद्भिरभ्यासिच्यापसलवि दक्षिणा निनयेत्तत् पितृभ्यो
भवति ॥
१३ आसीन एवाग्नौ जुहुयात् ॥
१४ आसीनः पितृभ्यो दद्यात् यथोपपादमितरान् ॥
१५ स्वयन्त्वेवैतान्यावद्वसेद्बलीन्हरेत् ॥
१६ अपि वाऽन्योब्राह्मणः ॥
१७ दम्पती एव ॥
१८ इति गृहमेधिव्रतम् ॥
१९ स्त्री ह सायं प्रातः पुमानिति ॥
२० सर्वस्वत्वेवाऽन्नस्यैताम्बलीन्हरेत्-पित्र्यस्य वा स्वस्त्य