सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 12, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 12

( ५ )
२२ यद्येकस्मिन्काले व्रीहियवौ प्रक्रियेयाताम् अन्यतरस्य कृत्वा कृतं
मन्येत ॥
२३ यद्येकस्मिन्काले पुनः पुनरन्नं पच्येत सकृदेवैतद्बलितन्त्रं कुर्वीत ॥
२४ यद्येकस्मिन्कुले बहुधान्नं पच्येत गृहपतिमहानसादेवैतद्बलितन्त्रं
कुर्वीत ॥
२५ यस्य त्वेषामग्रतः सिद्ध्येत् । नियुक्तमग्नौ कृत्वाऽग्रं ब्राह्मणाय दत्त्वा
भुञ्जीत ॥
२६ यस्यो जघन्यं भुञ्जीतैवेति ॥
२७ अथाप्युदाहरन्ति ॥
२८ एतस्यैव बलिहरणस्यान्ते कामं प्रब्रूवीत भवति हैवास्य ॥
२९ स्वयन्त्वेवासस्यं बलिं हरेत् । यवेभ्योऽध्याव्रीहिभ्यः, व्रीहिभ्योऽध्या-
यवेभ्यः । स त्वासस्योनाम बलिर्भवति ॥
३० दीर्घायुर्हैव भवति ॥
३१ विश्राणिते फलोकरणानामाचामस्यापामिति बलिं हरेत् स रौद्रो-
भवति स रौद्रोभवति ॥
इति प्रथमप्र० चतुर्थी कण्डिका ॥ १ ॥ ४ ॥ ❊ ॥
अथ पञ्चमी कण्डिका
१ अथ दर्शपूर्णमासयोः ॥
२ सन्ध्याम्पौर्णमासीमुपवसेत् ॥
३ उत्तरामित्येके ॥
४ अथ यदहश्चन्द्रमा न दृश्येत ताममावास्याम् ॥
५ पक्षान्ता उपवस्तव्याः पक्षादयोऽभियष्टव्याः ॥
६ आमावास्येन हविषा पूर्वपक्षमभियजते पौर्णमासेनापरपक्षम् ॥
७ यः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी, यः परमः सङ्कर्षः
सा अमावास्या ॥
८ यदहस्त्वेव चन्द्रमा न दृश्येत ताममावास्याङ्कुर्वीत ॥
९ दृश्यमानेऽप्येकदा गताध्वा भवति ॥
१० त्रयः पौर्णमासी काला भवन्ति, सन्ध्यावाऽस्तमितोदया वोळचैर्वा ॥
११ अथ यदहः पूर्णोभवति ॥
१२ पृथगेवैतस्य ज्ञानस्याध्यायो भवति अधीयीत वा, तद्विद्योवा प-
र्यागमयेत ॥