गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
२०० गन्धर्वतन्त्रे ।
पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने ॥ २९ ॥
उलूककाकपक्षाभ्यां कृत्वा होमं निरन्तरम् ।
द्वेषयेद् द्विष्टमन्योन्यकलहाकुलसंकुलम् ॥ ३० ॥
उलुकपक्षहोमेन गर्भपातो भवेत् स्त्रियाः ।
बिल्वपत्रैः सुमध्वक्तैर्मासमेकं निरन्तम् ॥ ३१ ॥
सहस्रैकप्रमाणे कृत्वा होमं समाहितः ।
अपि वन्ध्या लभेत् पुत्रं चिरजीविनमुत्तमम् ॥ ३२ ॥
बन्धूककुसुमं हुत्वा रक्तं मधुसितान्वितम् ।
दुर्भगा चैव या नारी सुभगा सा न संशयः ॥ ३३ ॥
[इडा?हठा]दागत्य कामार्ता बलादालिङ्गयन्ति तम् ।
इयं देवी महेशानी वामाचार२फलप्रदा ॥ ३४ ॥
दक्षिणाचारयोगेन न भवेत् फलदायिनी ।
भोजनान्तरं चास्या बलिं दद्याद् दिने दिने ॥ ३५ ॥
उच्छिष्टेन जपेन्मन्त्रं शतमष्टोत्तरं शिवे ।
उट३जे वा श्मशाने वा शून्यागारे चतु(ष्टयं?ष्पथे) ॥ ३६ ॥
बलिप्रदानतो देवी प्रत्यक्षा भवति ध्रुवम् ।
अनयैवाभिसंमन्त्र्य ओषध्यः सर्वसिद्धिदाः ॥ ३७ ॥
चन्द्री चक्री तथा वज्री त्रिशूला मुद्गरी तथा ।
देहस्था समरे पुंसां सर्वायुधवि[धा?दा]रिणी ॥ ३८ ॥
गृहीतं पुष्यनक्षत्रे अपामार्गस्य मूलकम् ।
लेपमात्रेण धीराणां सर्वायुधनिवारणम् ॥ ३९ ॥
१ 'स' क, पाठ । २ 'रा' क पाठ । ३ 'उज्जटे' क पाठ ।
विंशः पटलः । २०१
अर्जुनं च नारजं च चम्पकोन्मत्तकः कुहूः ।
लेपमात्राज्जयी युद्धे वज्रदेहो भवेन्नरः ॥ ४० ॥
खर्जूरी मुखमध्यस्था कटीबद्धा च केतकी ।
भुजदण्डस्थितस्तालः सर्वायुधनिवारणः ॥ ४१ ॥
दक्षबाहुस्थितश्चार्को वामे तु हृदयेऽथवा ।
रुद्रः पुष्पगतो युद्धे वज्रदेहो भवेन्नरः ॥ ४२ ॥
त्रिलोहवेष्टितं कृत्वा रसं वज्राभसंयुतम् ।
रणस्थस्य करस्थं च सर्वायुधनिवारणम् ॥ ४३ ॥
गिरिकर्णी शमीं दूर्वां गुञ्जां श्वेतां समाहरेत् ।
चन्दनेनान्विताः सर्वास्तिलकाद्विजयी रणे ॥ ४४ ॥
अधःपुष्पा शिखी चैव श्वेता च गिरिकर्णिका ।
गोरोचनासमायुक्ता तिलकं शत्रुमोहनम् ॥ ४५ ॥
कनकार्को[१] वह्निरिन्द्रद्रुः पञ्चमस्तथा ।
करोति तिलकं यस्तु पश्येतं पञ्चधा रिपुः ॥ ४६ ॥
कृष्णसर्पकरालं तु रसं मृत्तिकयान्वितम् ।
सितगुञ्जां वपेत् तत्र तस्या मूलं समाहरेत् ॥ ४७ ॥
हरीतक्या समायुक्तं तिलकं शत्रुमोहनम् ।
कृततिलकं भटं दृष्ट्वा पश्येत् स्वं श्वावृतं रिपुः ॥४८॥
शृंगगौर्भ(द्य?द्य)माणस्तु पतत्येव ततो भुवि ।
छाया यस्य जले याति संग्राद्यः कासमर्दकः ॥ ४६ ॥
अनेन तिलकेनाभिः कूपवापीं प्रपश्यति ।
'ख' क पाठ
२०२ गन्धर्वतन्त्रे ।
ब्रह्मदण्डी च कौमारी ईश्वरी वैष्णवी तथा ॥ ५० ॥
वाराही वज्रिणी चान्द्री महालक्ष्मीस्तथैव च ।
एताश्चौषधयो दिव्यास्तथैता मातरः स्मृताः ॥ ५१ ॥
कृतताडी करे बद्धो सर्वशत्रुनिवारिणी ।
बहुना तु किमुक्तेन संक्षेपात् कथ्यतेऽधुना ॥ ५२ ॥
षट्कर्मशालिनी विद्या प्रयोगात् सर्वसिद्धिदा ।
मूलविद्याप्रयोगेन सिद्धिहानिर्भवेद् ध्रुवम् ॥ ५३ ॥
प्रयोगेच्छा यदा देवि तदैनां च प्रयोजयेत् ।
अनयाखिलकर्माणि साधयेत् साधकोत्तमः ॥ ५४ ॥
प्रसङ्गात् कथितं देवि गोपनीयं प्रयत्नतः ।
— ☸ —
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शोषिकाविद्याप्रयोगक्रमनिरूपणं
विंशः पटलः ॥ २० ॥
१ 'दूर्वा' ख. पाठ. ।
एकविंशः पटलः
——————❀——————
ईश्वर उवाच
ततो वै मूलमन्त्रेण महेशानीं धिया स्मरन् ।
अप्राश्य चैव निर्माल्यं पादोदकपुरःसरम् ॥ १ ॥
शिरसा धारयेद्यस्तु भूमौ बिन्दूंस्तु पातयेत् ।
ब्रह्महा स तु विज्ञेयो यद्भक्त्या चात्मसा(द्व?त्कृ)तम् ॥ २ ।
शिवं गन्धं समादाय शंखतोये विलोकयेत् ।
सव्यहस्ते समादाय दक्षहस्तेन मन्त्रवित् ॥ ३ ॥
सप्तधा मन्त्रितं कृत्वा सर्वतीर्थमयं स्मरेत् ।
प्रोक्षयेत् तेन चात्मानं मूलदेवीं हृदि स्मरन् ॥ ४ ॥
पादोदकं पिवेद् भक्त्या शेषं मूर्धनि योजयेत् ।
सर्वाङ्गलेपनं कृत्वा यन्त्रलेपादिकं च यत् ॥ ५ ॥
निर्मञ्छेत् कामबीजेन मूलमन्त्रेण चात्मनः ।
अनामिकाग्रपर्वेण ललाटमपि संस्पृशेत् ॥ ६ ॥
निर्माल्यं शिरसा धार्य सर्वाङ्गेष्वनुलेपनम् ।
मन्त्रेण भास्करायार्घ्यमच्छिद्रार्थं निवेदयेत् ॥ ७ ॥
जानुभ्यामवनीं गत्वा पठित्वा मन्त्रमीरितम् ।
एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् ॥ ८ ॥
यज्ञाच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम ।
सर्वं तदच्छिद्रमस्तु मार्तण्डस्य प्रसादतः ॥६ ॥
————————————————————————
१ 'मौ वा बिन्दु पातयेत्' ख पाठ. ।
२०४ गन्धर्वतन्त्रे ।
मार्त्तण्डभैरवं पश्चात् प्रणम्य च विलोकयेत् ।
आदावन्ते च देवस्य नमस्कारविलोकने ॥ १० ॥
कुर्याच्च सर्वदा भक्त्या धर्मकामार्थसिद्धये ।
यज्ञाधिकारिता चादौ पश्चात् संपूर्णता विधेः ॥ ११ ॥
विधेर्विपर्ययात् तस्य कृतं हरन्ति राक्षसाः ।
तमुद्यन्तं विलोक्यैव यजेदस्तमितं ततः ॥ १२ ॥
उभयोरेकतां मत्वा तमुद्यन्तं पुनस्ततः ।
स एवादौ स चान्तस्थः सोऽनन्तो ह्यन्त एव सः ॥१३
आद्यमन्तं विदित्वैव सर्वकर्मफलं लभेत् ।
ततस्तु पुष्पनैवेद्यतोयपात्रादिकं च यत् ॥ १४ ॥
मायाबीजेन तत्सर्वं पुनरेव विलोकयेत् ।
हस्तेन चक्षुषा वापि यत्र यश्च कृतः पुरा ॥ १५ ॥
पात्रन्यासस्तस्य तस्य विसृष्टिरमुना भवेत् ।
तोयैरभ्युक्ष्य तत्स्थानं मार्जयेत् तदनन्तरम् ॥ १६ ॥
उदके तरुमूले वा निर्माल्यं तत्र संत्यजेत् ।
नैवेद्यादीनि सर्वाणि गुरवे गुरुशक्तये ॥ १७ ॥¹
समर्प्योपायनं भक्त्या शिवायै² गुरुरूपिणे ।
जानुभ्यामवनीं गत्वा प्रणमेद् दण्डवत् प्रिये³ ॥ १८ ॥
आदाय गुरुणा दत्तं स्वीकुर्यात्तु विधानतः ।
तयोरभावतो दद्यात् कुमारीभ्यो यथाविधि ॥ १६ ॥
अमृतं भक्षयेद् देवो भुक्त्वा देवत्वमालभेत् ।
१ 'मा' क पाठ. । २ 'शिवत्रा' क पाठ । ३ 'मेव च' क पाठः ।
एकविंशः पटलः । २०५
अमृतं तद्विजानीयादुत्सृष्टं दैवतेनं यत् ॥ २०॥
परदैवतनैर्माल्यं विनान्यत् स्वीकृतं नहि ।
अनिवेद्य शिवायैव यत्किंचित् स्वीकृतं प्रिये ॥ २१ ॥
(स?तत्)च पशुर्मृतं भुङ्क्ते लोकद्वययुतं प्रिये ।
पुरा सर्वे मनुष्याद्या भुक्त्वा मृतमि(ये?दं) नतु ॥ २२ ॥
देवत्वं(नोभवेत्?चालभन् ) यस्मात्तन्नैव भक्षयेत् क्वचित्२ ।
दिव्यभावविशुद्धात्मा भक्षयेदमृतं यदि ॥ २३ ॥
नित्यमभ्यासयोगेन देवगामी भवेन्नरः ।
अमृतोपस्तरं कृत्वा पिधानमपि तेन वै ॥ २४ ॥
बलिशेषं समादाय जुहुयाच्चैव पूर्ववत् ।
हुत्वामृतं ततो भक्त्या प्राशयेद् भावशुद्धितः ॥ २५ ॥
भुक्त्वामृतं तदा देवि हस्तं मूर्धान विन्यसेत् ।
त्रितत्त्वेन त्रिधाचम्य षडङ्गानि प्रविन्यसेत् ॥ २६ ॥
शिवो दाता च [भ?भो]क्ता च शिवः सर्वमिदं जगत् ।
शिवो जयति सर्वत्र यः शिवः सोऽहमेव च ॥ २७ ॥
शक्तीरलंकृतैवक्त्राः सुवेशाः सुमनोहराः ।
पश्येत्तु देवतादृष्ट्या ता एव देवता यतः ॥ २८ ॥
तथैव ब्राह्मणान् पश्येद्भूदेवान् शुद्धमानसान् ।
भक्त्या नत्वा प्रमुदितस्ततः स्तानवलोकयेत् ॥ २६ ॥
अनेन विधिना देवि संपूज्य परमेश्वरीम् ।
तत्कृपालब्धविज्ञानपूर्णोऽहमिव भूतले३ ॥ ३० ॥
१ 'त तु' क पाठ । २ 'तु काचित्क्वचित्' क पाठ । ३ 'लब्धिराहित साहित-
स्याहमेव वा' क पाठ ।
२०६ गन्धर्वतन्त्रे ।
भावनांवशसंपन्नो विहरेत् तु तदिच्छया ॥ ३० ॥
देव्युवाच
क[स्य?थं] वा क्रियते पूजा [न?नु]गृह्येत निवेदितौ ।
कथं वा प्रत्ययं चेतस्तदुपायं वद प्रभो ॥ ३१ ॥
ईश्वर उवाच
साधु पृष्टं त्वया भद्रे स्मरणान्मुक्तिदायकम् ।
शिवंरूपं परं ब्रह्म अनुत्तरपदं महत् ॥ ३२ ॥
तदन्तःस्थं परं ब्रह्म ज्योतीरूपं सनातनम् ।
स्वयं प्रकाशते ह्यात्मा मेघापायेऽंशुमानिव ॥ ३३ ॥
अभ्यसेद् बहुशस्तत्र श्रुतिदर्शितवर्त्मना ।
वर्णरूपं तु शब्दस्य तन्मय्यस्तत्क्रियास्तथा ॥ ३४ ॥
जप्त्वा कृत्वा भवेत् सिद्धिर्भोगमोक्षमयी तर्तः ।
यावन्मनो लयं याति तस्मिन् स्वात्मनि चिन्मये ॥३५॥
तावदिष्टमनुं मन्त्री जपहोमैः समाचरेत् ।
अतः परं न किंचित् तु कृत्यम(सि?स्ति)तदात्मनः ॥३६॥
विदिते परमे तत्त्वे समस्तैर्नियमैरलम् ।
तालवृन्तेन किं कार्यं लब्धे मलयमारुते ॥ १ ३७ ॥
अवश्यं च भावि फलं तदासौ तत्करोति यः ।
आस्तिकः स तु विज्ञेयः क्रमान्मोक्षे प्रतिष्ठितः ॥३८॥ ४
प्राप्य न्यसेत्तदा तस्मिन् कृत्वा तद्रहितं न्यसेत् ।
उभयात्मकं तु विन्यस्य स संन्यासी मुनिर्मतः ॥३६॥
१ 'तात्' ख पाठ । २ 'श' क पाठ । ३ 'द्धेभो' क. पाठ । ४ 'मयास्तु
त' क पाठ ।
एकविंशः पटलः । २०७
यन्त्रं शरीरमत्रोक्तं विदित्वा कमलेक्षणे ।
कृत्वा चाहंमतिं तन्त्रे यजेद्भक्त्या समाहितः ॥ ४० ॥
यद्रूपं परमेशान्या नि[ष्पा?ष्क]लं सक[लार्ण?लं च]वा ।
आत्म(१)भेदेन संपूज्य आत्मानं प्रियमिश्वरीम् ॥४१॥
तदानन्दमयं धाम याति पश्चान्न संशयः ।
एवं सा पञ्चमी प्रोक्ता पञ्चधा प्रथितविग्रहा ॥ ४२ ॥
पञ्चतत्त्वात्मके देहे प्रत्यक्षीक्रियते हि तैः ।
नान्यत्र वै भवेद् व्यक्ता विनात्मनि विचिन्तनम् ॥४३॥
अनुमानं महेशान्या आत्मन्येव नच क्वचित् ।
अनुमीय परं चैवं सर्वमात्मवदाचरेत् ॥ ४४ ॥
वस्तूनां गन्धमात्रेण सौरूप्यदर्शनात् तथा ।
तुष्यन्ति देवताः श्रेष्ठाः स्तुत्या लभ्याश्च पार्वति ॥४५॥
भूतप्रेतपिशाचाश्च यक्षराक्षसपन्नगाः ।
उपभोगेन तुष्यन्ति मनुष्याद्याश्च जन्तवः ॥ ४६ ॥
गुरोः शरीरमास्थाय कुमारीणां विशेषतः ।
ब्राह्मणानां गवां चैव भुञ्जते देवताः पराः ॥ ४७ ॥
तस्मात्तांश्च प्रयत्नेन भोजयेत् तोषयेत् सदा ।
तुष्टेष्वेषु महादेवी परितुष्टा जगन्मयी ॥ ४८ ॥
ब्राह्मणानां शरीरस्था भुञ्जते पितरस्तथा ।
अनङ्गव्यवधानं स्यादङ्गहीनं तु यद्भवेत् ॥ ४६ ॥
साङ्गं भवति तत् सर्वं मिष्टान्नौर्विप्रभोजनात् ।
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पूजासंपूरणाद्युपायविधिनिरूपणं
एकविंशः पटलः ॥ २१ ॥
१ 'कृत्वावहमर तन्त्र' क पाठ । २ 'भया च ' क. पाठ ।
द्वाविंशः पटलः
—❀—
ईश्वर उवाच
हृदिस्थं परमात्मानं विहायान्यत् समीहते ।
अहो मूढो वरारोहे बहिर्यन्मृग्यतेऽन्धवत् ॥१॥
विज्ञाय हृदयान्तःस्थं परं(य?प्र)कृतिगोचरम् ।
तन्निष्ठकर्मणा चैनमात्मन्येवं प्रतीयते* ॥ २ ॥
तत्प्रतीतौ भवेत् सिद्धो नान्यथा खलु पार्वति ।
अहं विष्णुः स्वयंभूश्च स्वायंभुवा इमे वयम् ॥ ३ ॥
तदनुभूय देहेऽस्मिंस्तद्देवं समुपास्महे ।
तदन्तःस्थं समाहूय तद्देवं तु यजामहे ॥ ४ ॥
उद्वास्य च तदात्मानं स्थापयित्वा निजे हृदि ।
निवेदितं तु तत्प्रीत्यै तस्मिन्नेव निवेदयेत् ॥ ५ ॥
विनामृतं न चान्यत् तु काङ्क्षन्ते देवतागणाः ।
अमृतेनैव तत्पूजा अमृतं तु निवेदयेत् ॥ ६ ॥
अमृतत्वं लभेद्वीरः स्वीकृत्यात्मनिवेदितम् ।
इति ते कथितं देवि शेषिका[मत्?मृत]मुत्तमम् ॥७॥
स्थूलसूक्ष्मविभेदेन ज्ञायते कृपया गुरोः ।
नित्यं नैमित्तिकं[कर्म?काम्यं]चेति तेषां पृथक् पृथक् ॥८॥
त्रिविधं त्रैपुरं कर्म क्रमतस्तत् समाचरेत् ।
यदुक्तं तामसं त्यक्त्वा तत् सर्वं यत्नतश्चरेत् ॥६॥
- दैवादिकस्य इङ्गतौ इत्यस्य धातोः कर्तरि अयं प्रयोग ।
द्वांविंशः पटलः । २०६
दैनन्दिनमतो नित्यं पातकमविधानतः ।
मासिकं तिथिकृत्यं च वार्षिकं फलदायकम् ॥ १०॥
लङ्घनान्निरयो यस्य नित्यं श्रद्धावि[धान?घात]तः ।
नैमित्तिकं विजानीयाच्छ्रद्धया तत्समाचरेत् ॥ ११ ॥
फलमात्रश्रुतिर्यस्य श्रुतिस्मृतिप्रचोदितौ ।
काम्यं तन्तु विजानीयात् पूजितं तत्र गोचरे ॥ १२ ॥
विदध्यात् तत्प्रयत्नेन यत् पुनर्लोकपूजितम् ।
धर्ममपि त्यजेत् साधु यत् पुनर्लोकगर्हितम् ॥ १३ ॥
नित्यं सात्त्विकमेवात्र नैमित्तिकं तु राजसम् ।
तामसं काम्यमेवात्र कुर्यात् फलवितृष्णया ॥ १४ ॥
तृष्णां तां दूरतस्त्यक्त्वा मनः पूर्णं विचिन्तयेत् ।
पूर्णे मन[सि?स्थे]तृष्णे च पूर्णं सर्वमिदं जगत् ॥१५॥
उपानद्गूढपादस्य ननु चर्मावृत्तैव भूः ।
फलविरहितं काम्यं नित्यं नैमित्तिकं तथा ॥ १६ ॥
क्रियते त्रिपुराप्रीत्यै कृत्वा त[स्मै?स्यै]निवेदनम् ।
सात्त्विकं तद्विजानीयाद् भोगमोक्षफलप्रदम् ॥ १७ ॥
यस्य यद्विहितं कर्म त्रिविधं तत्र गोचरे ।
श्रुतिस्मृत्युदितं चापि मनसापि न हारयेत् ॥ १८ ॥
कर्मलोपादधोयोनौ जायते साधकाधमः ।
शिवशक्तिमयं विश्वं विदित्वा सद्गुरोः प्रिये ॥ १९ ॥
स्थूलसूक्ष्मविभेदेन पितृमातृस्वरूपतः ।
१ 'क यद्वि' क पाठ । २ 'तम्' ख पाठ , ३ 'यै' क पाठ ।
२१० गन्धर्वतन्त्रे ।
कर्मभिस्तोषयेत् तौ तु तद्भावमाश्रितः सदा ॥ २० ॥
उभयात्मा भवेत् सिद्धयै नैकात्मा ज्ञानवर्जितः ।
ज्ञानचक्षुस्तयोरैक्यं विदित्वा श्रीगुरोः क्रमात् ॥ २१ ॥
अनुभूय तदानन्दं तदात्मा तत्र संविशेत् ।
मातुः पितुर्यथा बालो व्युत्पत्तिं लभते क्रमात् ॥ २२ ॥
तयोः समत्वसंधानाद् व्युत्पन्नो ज्ञानमालभेत् ।
देवताः शक्तिरित्याहुः पितरः शिव एव च ॥ २३ ॥
एतावुभौ तांस्तु सर्वान् सुहृदः पूर्वसूचितान् ।
बलिभिस्तर्पयेत् तांस्तु सुहृद्भिश्च हतोऽन्यथा ॥ २४ ॥
तेषां बलिं पुरस्कृत्य तावुभौ परितोषयेत्
पश्चात् तेभ्यो निवेद्यैव सुहृद्भिर्विहरेन्मुदा ॥ २५ ॥
स्वाहान्तेन च देवेभ्यो मनुष्ये हन्तकारतः ।
स्वधान्तेन पितृभ्यस्तु तेभ्यो लभ्यन्तगेन[?]¹तु ॥ २६ ॥
निराशाः पितरस्तस्य यास्यन्ति खलु पार्वति ।
सुहृदो ज्ञातयश्चापि वाङ्मात्रेणापि नार्चिताः ॥ २७ ॥
सुहृदो वर्ष्म खादन्ति ज्ञातयः कर्म संचितम् ।
ऐहिकं स्वपिता हन्ति स्वमाता पारलौकिकम् ॥ २८ ॥
लोकद्वयविहीनस्तु नैव सिद्धिं प्रविन्दते² ।
अयष्ट्वा पितरं यज्ञे यजेन्मातरमम्बिकाम् ॥ २६ ॥
विधिशतैरपि यज्ञं नानुगृह्णाति शाश्वती ।
आदावन्ते पितुस्तस्मात् कुर्यात् तर्पणमादरात् ॥ ३० ॥
१ ‘ ष्ठेभ्योऽन्त एव च ’ क पाठ. । २ ‘ प्रयच्छति ’ क पाठ ।
द्वांविंशः पटलः । २११
अदत्तं नोपतिष्ठेत दद्यात् तस्मादतः परम् ।
गोभूहिरण्यरत्नादि भक्ष्यभोज्यानि यानि च ॥ ३१ ॥
वासिनीभ्यो द्विजेभ्यश्च दीनान्धकृपणाय च ।
त्यक्त्वा चावश्यकं कर्म लौकिकं भावतत्परः ॥ ३२ ॥
योगक्षेमे हितं यत्तु कुर्यात् तदनुशासनात् ।
समर्थो जीवयेत् स्नेहात् स्वकीयाननुजीविनः ॥ ३३ ॥
दुष्टेभ्यो दुष्टचित्तेभ्यो हिंस्रे साहसिकात् तथा ।
बलिभ्यो धनमत्तेभ्यः कायस्थेभ्यो विशेषतः ॥ ३४ ॥
रक्षयेत् पालयेत् साधुः पुत्रानिव (नि?पि)तौरसान् ।
लोकांश्च त्रिविधान्मत्वा लालयेत् पालयेत् सदा ॥ ३५॥
वध्यान् वध्यात्तथा दण्ड्यान् दण्डयेच्छास्त्रदर्शनात् ।
अवध्यस्य वधे यावांस्तथादण्ड्यस्यै दण्डने ॥ ३६ ॥
दण्ड्यस्यादण्डने पापस्तावान् वध्यस्य रक्षणे ।
इति विज्ञाय योगात्मा योगक्षेमं समाचरेत् ॥ ३७ ॥
विभूतीरात्मनः पश्येत् तत्प्राप्त्या तन्निवेदयेत् ।
विभूतीरात्मनो यस्तु महादेव्यै प्रदर्शयेत् ॥ ३८ ॥
ताभिरेव युतो भूयादणिमादिविभूतिभिः ।
मुहूर्त्तत्रयमात्रं तु कुर्यात् तनुविचिन्त(येत?नम् ) ॥ ३६॥
चिन्तयेत् परं ब्रह्म मध्याह्ने समुपगते ।
मुहूर्त्तत्रयमात्रं तु निद्रया समुपासयेत् ॥ ४० ॥
ततो बुद्धौ यथाकाले तामेव समुपासयेत् ।
१ 'र्थे' ख पाठ. । २ 'हिंस्रेभ्य' क पाठ । ३ 'दण्डस्तस्य तु' क. पाठ ।
४ 'द्वया' क पाठ ।
२१२ गन्धर्वतन्त्रे ।
ललितानि च नृत्यानि गीतानि मधुराणि च ॥ ४१ ॥
दर्शयेच्छावयेद् देव्यै भावात्मा तद्विलोकयेत् ।
नृत्येषु गीतानियता देव्यः स्रक्चन्दनार्चिताः ॥ ४२ ॥
भूषिताश्चारुभूषाभिर्वि[दुवे?हरे]त् ताभिरेव च ।
ततो मध्ये स्वयं देवः कामेश्वर इवापरः ॥ ४३ ॥
कामेश्वरीयुतो भूत्वा यजेत् कामेश्वरीं ततः ।
ब्रह्मचिन्तापरामोदमुदितो राज्यचिन्तकः ॥ ४४ ॥
मुहूर्तत्रयमात्रं तु निद्रया समुपासयेत् ।
दिवा दद्यात् पितृभ्यस्तु मातृभ्यो निशि तत्परः ॥ ४५ ॥
माता रात्रिः समाख्याता पिता दिवस एव च ।
उभयोरेकतां मत्वा सिद्धो भवति नान्यथा ॥ ४६ ॥
सोमः शक्तिः शिवः सूर्यो निशा शक्तिर्दिवा शिवः ।
यदा स भगवान् देवो महात्रिपुरभैरवः ॥ ४७ ॥
परापरायणोऽनन्तः परमानन्दनिर्भरः ।
परापररहस्याख्यां योगिनीं ब्रह्मरूपिणीम् ॥ ४८ ॥
शिवानन्दानन्दमयीं महात्रिपुरसुन्दरीम् ।
आकृष्योर्ध्वं यदा तिष्ठेत् तदहः परिकी(र्त?र्त्य)ते । ४६॥
शक्तिभैरवसंयोगादानन्दानन्दनिर्भ(या?रा)त् ।
भैरवानन्द[नम्रा?मग्ना]न्तर्लीला सा परमा कला ॥५०॥
मध्याह्नं तद्विजानीयान्मुहूर्तत्रयलक्षितम् ।
तौ तदा समभागेन तिष्ठेतां शक्तिभैरवौ ॥ ५१ ॥
पूर्वापरौ तदा ज्ञेयावेतद्विगुणलक्षितौ ।
द्वाविंशः पटलः । २१३
परस्पराद्वैतेप्सन्तौ प्राप्ताद्वैतौ तु मध्यतः ॥ ५२॥
अभिजिन्न नाम जानीयात् तत्कालं सुरवन्दिते ।
तत्तत्तेजोभिराकीर्णं तयोरैक्यं तदा भवेत् ॥ ५३ ॥
सूर्यकोटिप्रतीकाशं चन्द्रकोट्ययुतप्रभम् ।
तदा दशभुजो देवः पञ्चवक्त्रस्त्रिलोचनः ॥ ५४ ॥
शुक्लाम्बरधरः शुक्लः शुक्लमाल्यानुलेपनः ।
तस्योत्सङ्गे महादेवी चन्द्रकोट्ययुतप्रभा ॥ ५५ ॥
प्रहसन्ती विशालाक्षी परमानन्दनन्दिता ।
तद्रूपतामभीप्सन्ती तद्रूपेक्षणलालसा ॥ ५६ ॥
शुक्लवेशं विना देवि नान्यत् तत्प्रीतये तदा ।
तत्रान्यद्रूपमापन्ने साधके दैवचोदिते ॥ ५७ ॥
क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् ।
सर्वैः शुक्लमयैर्द्रव्यैः शुक्लवेशैर्यजेत् तदा ॥ ५८ ॥
दिवि देवी भवेद् दृश्या शरच्चन्द्रनिभानना ।
तत्र पूजा सदा कार्या विशेषेण वरानने ॥ ५९ ॥
पेयं चो[षं?ष्यं] तथा लेह्यं चर्व्यं भक्ष्यं च तर्पणैः ।
निवेदयेत् सदा भक्त्या यत्पुनः सुमनोहरम् ॥ ६० ॥
उपचारैर्यजेत् प्रातर्मध्ये रस्यानपानकैः ।
गीतनृत्यादिना साकं रात्रौ यागपुरःसरम् ॥ ६१ ॥
प्राङ्मुखो हि यजेत् प्रातर्मध्याह्ने दक्षिणामुखः ।
सायं प्रत्यङ्मुखो भूत्वा रा(हु?त्रा)वुदङ्मुखः सदा ॥ ६२॥
पाद-टिप्पणी (Footnotes):
१ ‘र्णा’ क पाठ । २ ‘श्या’ क पाठ । ३ ‘निर्भोपमा’ क पाठ । ४ ‘च’ क पाठ । ५ ‘सा’ क पाठ ।
२१४ गन्धर्वतन्त्रे ।
तत्र शांभवभेदेन जपेद्विद्यामनन्यधीः ॥ ६२ ॥
वर्जयेच्छक्तिभेदं तु यदीच्छेदात्मनो हितम् ।
अरुणकिरणाच्छन्नं यत्पूर्वं भैरवोदयात् ॥ ६३ ॥
अर्धनारीश्वरं ज्ञेयं तत्र पूजा(च?क्रि)याः समाः ।
उपचारैस्तदा कुर्यात् सपर्यां विधिना तथा ॥ ६४ ॥
वरिवस्यां गृही, समभागेन संस्थितौ यदि ।
आनन्दपारमिच्छन्तौ सदानन्दविवर्धिनौ ॥ ६५ ॥
पूर्वापरौ महापुण्यौ यदा तौ समरूपिणौ ।
चिन्तयेत् सततं भक्त्या तौ तत्कालविधानतः ॥ ६६ ॥
शक्तिशांभवभेदेन जपेद्विद्यामनन्यधीः ।
शुक्लाम्बरो भवेत् तत्र शुक्लमाल्यानुलेपनः ॥ ६७ ॥
रक्ताम्बरधराः पश्येद् रक्तमाल्यानुलेपनाः ।
दिशश्च विदिशश्चैव रक्ता दृश्या मनीषिभिः ।
लाक्षारुणमयं विश्वं स्वयं च तत्र तद्भवेत् ॥ ६८ ॥
पद्मरागप्रतीकाशैः² कोटिसूर्यसमद्युतिः ।
नाथः कामेश्वरस्तत्र ह्येकवक्त्रश्चतुर्भुजः ॥ ६६ ॥
रक्तपद्मनिभां³ देवी बालार्ककिरणारुणाँ ।
इच्छंस्तद्रूपतां प्राप्तुं तद्रूपा तैं⁴ विशन्त्यतः⁵ ॥ ७० ॥
अनुभूय तदाबन्धं भैरवानन्दसंकुलम् ।
विपरीतमभीप्सन्ती तदाक्रमणलालसा ॥ ७१ ॥
तदा स[रो?मो]भवेत् कालः सायंसंध्येति गीयते ।
'कार्या सपर्या' ख पाठ । २ 'सुरराजममन्त्रिभ' क पाठ । ३ 'भा देवी' क.
पाठः । ४ 'शाम्' क पाठ । ५ 'पा ता' क. पाठ. ।
द्वाविंशः पटलः । २१५
शोणितैश्च समाक्रान्तां प्रतीचीमवलोकयन् ॥ ७२ ॥
पूजयेत् साधको भक्त्या चोपचारैर्यथाविधि ।
यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥ ७३ ॥
अधः कृत्वा तु पुरुषं (वर्णं?रन्तु)मिच्छा भवेद्यदा ।
तदाक्रम्य स्वयं देवी भैरवोपरिसंस्थिता ॥ ७४ ॥
सहजानन्दसन्दोहैर्निजानन्दप्रवर्धिनी ।
तदा नैजं भवेद्विश्वं तत्र पूजा महोदया ॥ ७५ ॥
तत्तद्दृ(ष्टृ?ष्टि)मयैर्दीपै(र्भा?र्भो)गैश्च विविधैः सदा ।
लाक्षारुणमयं सर्वं स्वयं तावत्तथा भवेत् ॥ ७६ ॥
शक्तिभेदात्मिकां विद्यां हंसबीजपुटीकृताम् ।
प्रणवान्तरितां शुद्धां नादलीलां तदात्मिकाम् ॥ ७७ ॥
मूलाद्ब्रह्मरन्ध्रान्तां विषतन्तुतनीयसीम् ।
अर्धे^१राम्बुरुहहंसीं सुस्थिरामिव चञ्चलाम् ॥ ७८ ॥
सं(श्र?स्र)वन्तीं सुधाधारां शुद्धलाक्षारसोपमाम् ।
आवाह्य पूजयित्वा खं कमलाङ्कपुरान्तरे ॥ ७९ ॥
विनिर्जि(त?त्ये)न्द्रियमनो जपेदानन्दरूपिणीम् ।
मध्यं मुखं विजानीयात् पूर्वापरौ स्तनद्व[यौ?यम]् ।८०॥
अर्धमात्रां^३ परं रूपं निशामध्यं तयोरधः ।
अनन्तफलदं पुण्यं भोगमोक्षफलप्रदम् ॥ ८१ ॥
संध्याचतुष्टयं भद्रे कथितं भुवि दुर्लभम् ।
चतुर्भुजं महादेव्या ज्ञेयं कालचतुष्टयम् ॥ ८२ ॥
आत्मा सा परमेशानी परमेश्वर एव च ।
१ 'हराम्बुव' क पाठ । २ 'सुख' क पाठ । ३ 'त्रा' क पाठ ।
२१६ गन्धर्वतन्त्रे ।
यदङ्गं तु विहीयेत तदङ्गच्छेदकं तयोः ॥ ८३ ॥
तत्र यत् क्रियते कर्म मङ्गल्यं मङ्गलं परम् ।
ध्यानं पूजा जपञ्चैव होमो न्यासश्च तर्पणम् ॥ ८४ ॥
अत्र वै पूजिता देवी पूरयेत् तन्मनोरथान् ।
अत्र यत् पुण्यमनघे भक्तिश्रद्धासमन्विते ॥ ८५ ॥
विधिना विहिते यज्ञे परमानन्दसंकुले ।
वक्त्रकोटिसहस्रैस्तु ह्यनन्तो वक्तुमक्षमः ॥ ८६ ॥
अमृताञ्जलिरेप्यत्र [सुधाब्धितुलनोपमैः] ।
अत्र यो नार्चयेद् देवीं जलेनापीह पार्वति ॥ ८७ ॥
न नमेद्वा गुरून् भक्त्या ब्रह्महा स निगद्यते ।
अत्र निद्रापरा यान्ति महाकालपुरं प्रिये ॥ ८८ ॥
दम्भं मोहं तथा निद्रामालस्यं बाह्यचिन्तनम् ।
कामं क्रोधं तथा लोभं हिंसां मात्सर्यमेव च ॥ ८९ ॥
वर्जयित्वा प्रयत्नेन विद्यामेव समभ्यसेत् ।
दुर्वासनां परित्यज्य कोटिजन्मसमद्भवैः ॥ ६० ॥
एकेन जन्मना मुक्तिं याति भोगी न संशयः ।
शक्तेर्मुखं विना नान्यत् पश्येद्वै कर्हिचित्तदा ॥ ६१ ॥
पशवो दूरतस्त्याज्याः पुरुषाश्चान्यपूजकाः ।
अत्रान्यचिन्तनाद्यान्ति म्लेच्छयोनिं पतन्त्यधः ॥ ६२ ॥
यान्ति चोर्ध्वं परं धाम चिन्तनाद् ब्रह्म शाश्वतम् ।
नास्ति पुरस्क्रिया तेषां कायक्लेशपुरस्सरा ॥ ६३ ॥
१ ' मध्य ' ख पाठ । २ ' सुधासागरतुलनाम् ' क पाठ । ३ 'वान्' ख पाठ. ।
नित्यं¹ पुरस्क्रियायुक्तास्त एव परिकीर्तिताः ।
तं तु देवा नमस्यन्ति किं पुनर्न(व?र)मर्कटाः ॥ ९४ ॥
देवीकला भवेत्तत्र सर्वलोकवशंकरी ।
अमर्त्या अ(र्पि?पि)तं म(न्य?र्त्य)मीहन्ते कुलवल्लभम् ॥९५॥
दृष्ट्वा युवतयः सर्वाः क्लि[न्नान्मा?द्यद्यो]न्यो मुदान्विताः ।
शरदिन्दुप्रभं देवं पूर्णेन्दुप्रतिमाननम् ॥ ९६ ॥
नानावैदग्ध्यचातुर्यस्निग्धपीयूषभाषिणम् ।
अपि चेत्तत्समा नारी तत्समः पुरुषोऽस्ति चेत् ॥६७॥
नरेन्द्रं नरशार्दूलं दृष्ट्वा क्षुब्धमना² भवेत् ।
पूर्वे यद् दीयते वस्तु परे तस्माच्चतुर्गुणम् ॥ ६८ ॥
नानाविधोपहाराणि महादेव्यै निवेदयेत् ।
राजोपचारं दत्त्वान्ते स्तुत्वा नुत्वा विसर्जयेत् ॥ ६६ ॥
कालत्रयेऽप्यशक्तश्चेच्चतुर्थे सर्वथा प्रिये ।
अनश्नन् पूजयेद्रात्रौ भयनिद्रापराङ्मुखः ॥ १०० ॥
प्रातर्होमं प्रकुर्वीत तथा मध्यन्दिनेऽथवा ।
निद्राकालं प्रवक्ष्यामि साधकानां हिताय च ॥ १०१ ॥
दिवानिशोर्महादेवि नव मुहूर्तास्ततः परम् ।
मुहूर्तत्रयमानं तु निद्रा देव्याः समीरिता³ ॥ १०२ ॥
अत्र निद्रापरां देवीं निद्रया समुपासयेत् ।
निद्राकाले जपेद्यस्तु पूजयेद्वा विमोहितः ॥ १०३ ॥
स्वापकालं विना देवि स्व(पे?प्या)दन्यत्र योऽबुधः ।
१ ' तद् ' क पाठः । २ ' ब्धं ' क पाठ. । ३ ' ता ' ख. पाठः ।
२१८ गन्धर्वतन्त्रे ।
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ॥ १०४॥
तस्मात् सर्वप्रयत्नेन बोधकाले प्रबोधयेत् ।
दर्शनं चावलोकं च संभाषं चान्यलोकनम् ॥ १०५॥
स्वयमावेशनं चैव मन्त्राणां पञ्चलक्षणम् ।
विदित्वा प्रजपेन्मन्त्रं सर्वसिद्धिमुपालभेत् ॥ १०६॥
वेदसंध्यं त्रिसंध्यं वा द्विसंध्यं वाथ सुव्रते ।
योगात्मा योगविज्ञानी योगमुद्रासमन्वितः ॥ १०७॥
अब्दमेकं जपेद्यस्तु ब्रह्मचर्यव्रते स्थितः ।
सहस्रं प्रजपेदादावन्तेऽपि च सहस्रकम् ॥ १०८॥
मध्ययोः¹ प्रजपेद्विद्यां शेषं य(च्छ्?त्स)मभागतः ।
लक्षमेकं भवेद् देवि त्रिंशदभ्यन्तरे तथा ॥ १०६॥
अस्तब्धाकुञ्चितं कार्यं न द्रुतं न विलम्बितम् ।
अक्षराक्षरसंचारिध्वनिमात्रं विभावयेत् ॥ ११०॥
मयाप्येतद् व्रतस्थेन जप्यतेऽद्यापि सुन्दरि ।
त्रिसंध्यं जप्यते ब्रह्म तत्पदप्राप्तिसिद्धये ॥ १११॥
एवं क्रमाद्भवेत् सिद्धो भोगी भोगपरायणः ।
एवं मासमृतुं चैव वत्सरं युगमेव च ॥ ११२॥
गमयेत् परमेशानि यद्वा म(न्न?न्व)न्तरादिकम् ।
एतद्रहस्यं परमं न प्रकाश्यं कदाचन ।
समयाचारसंकेतं भोगमोक्षफलप्रदम् ॥ ११३॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे समयाचारसंकेतवर्णनं
द्वाविंशः पटलः ॥ २२ ॥
१ 'मध्येऽपि' ख पाठः ।
त्रयोविंशः पटलः ।
—०—
ईश्वर उवाच
होमादिकं तु विफलं कुमारीपूजनं विना ।
कुमारी पूजिता येन त्रैलोक्यं तेन पूजितम् ॥ १ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ऋषयो वासवस्तथा ।
पितरश्चैव दिक्पाला गन्धर्वाप्सरसोऽसुराः ॥ २ ॥
देवपत्न्यस्तथा नागा मातरः सिद्धचारणाः ।
विश्वेदेवाः सयक्षाश्च राक्षसाश्चैव देवताः ॥ ३ ॥
स्थावरा जङ्गमाश्चैव सर्वभूतानि जन्तवः ।
सर्वे ते तृप्तिमायान्ति कुमार्यो यत्र पूजिताः ॥ ४ ॥
बह्वीनामप्यलाभे तु एकैव^२ वरवर्णिनी ।
प्रमदा यौवनोन्मत्ता सा भवेत् सुन्दरी परा ॥ ५ ॥
अष्टाब्दावधि पञ्चाब्दात् पूजितव्या विधानतः ।
कुमार्यै यज्जलं दत्तं तज्जलं सागरोपमम् ॥ ६ ॥
यदन्नं दीयते तस्यै कुलाचलसमं प्रिये ।
कुमारीपूजनं देवि कुमारीमनुना भवेत् ॥ ७ ॥
यथा वा पूज्यते देवी पूजितव्यास्तथा^३ तथा ।
हेतुना भोजिताव्या*स्ताः पायसैर्मधुरान्वितैः ॥ ८ ॥
१ 'व' ख पाठः । २ 'कैक' ख पाठः । ३ 'ष्यात' ख पाठः ।
- णिज्लोपः ऐश ।