सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 288, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 288

एकविंशः पटलः । २०७
यन्त्रं शरीरमत्रोक्तं विदित्वा कमलेक्षणे ।
कृत्वा चाहंमतिं तन्त्रे यजेद्भक्त्या समाहितः ॥ ४० ॥
यद्रूपं परमेशान्या नि[ष्पा?ष्क]लं सक[लार्ण?लं च]वा ।
आत्म(१)भेदेन संपूज्य आत्मानं प्रियमिश्वरीम् ॥४१॥
तदानन्दमयं धाम याति पश्चान्न संशयः ।
एवं सा पञ्चमी प्रोक्ता पञ्चधा प्रथितविग्रहा ॥ ४२ ॥
पञ्चतत्त्वात्मके देहे प्रत्यक्षीक्रियते हि तैः ।
नान्यत्र वै भवेद् व्यक्ता विनात्मनि विचिन्तनम् ॥४३॥
अनुमानं महेशान्या आत्मन्येव नच क्वचित् ।
अनुमीय परं चैवं सर्वमात्मवदाचरेत् ॥ ४४ ॥
वस्तूनां गन्धमात्रेण सौरूप्यदर्शनात् तथा ।
तुष्यन्ति देवताः श्रेष्ठाः स्तुत्या लभ्याश्च पार्वति ॥४५॥
भूतप्रेतपिशाचाश्च यक्षराक्षसपन्नगाः ।
उपभोगेन तुष्यन्ति मनुष्याद्याश्च जन्तवः ॥ ४६ ॥
गुरोः शरीरमास्थाय कुमारीणां विशेषतः ।
ब्राह्मणानां गवां चैव भुञ्जते देवताः पराः ॥ ४७ ॥
तस्मात्तांश्च प्रयत्नेन भोजयेत् तोषयेत् सदा ।
तुष्टेष्वेषु महादेवी परितुष्टा जगन्मयी ॥ ४८ ॥
ब्राह्मणानां शरीरस्था भुञ्जते पितरस्तथा ।
अनङ्गव्यवधानं स्यादङ्गहीनं तु यद्भवेत् ॥ ४६ ॥
साङ्गं भवति तत् सर्वं मिष्टान्नौर्विप्रभोजनात् ।
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पूजासंपूरणाद्युपायविधिनिरूपणं
एकविंशः पटलः ॥ २१ ॥

१ 'कृत्वावहमर तन्त्र' क पाठ । २ 'भया च ' क. पाठ ।