सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 166, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 166

अष्टमः पटलः । ८५
न युक्तमन्यथा पाद्दर्शनं सुरपूजने ।
दिग्विभागेषु कौवेरी दिक् शिवाप्रीतिदायिनी ॥ ६२ ॥
तस्मात् तन्मुख आसीनः पूजयेत् त्रिपुरां सदा ।
उत्तराभिमुखो भूत्वा यदा देवीं प्रपूजयेत् ॥ ६३ ॥
उत्तराशा तदा देवि पूर्वाशैव न संशयः ।
ईशानमग्निकोणं स्याद्वायुकोणं तथेशकम् ॥ ६४ ॥
दक्षिणाशा तदा ज्ञेया पश्चिमाशा महेश्वरि ।
राक्षसं वायुकोणं स्यादाम्नेयं राक्षसं भवेत् ॥ ६५ ॥
प्राक्प्रत्यङ्मुखपूजायां लौकिकं पश्चिमं स्मृतम् ।
दक्षिणोत्तरपूजायां संमुखं पश्चिमं स्मृतम् ॥ ६६ ॥
योगिनीचक्रपूजायां दिगियं नान्यथा भवेत् ।
कुङ्कुमारुणदेहस्तु रक्ताभरणभूषितः ॥ ६७ ॥
रक्तासनोपविष्टस्तु लाक्षारुणगृहे स्थित(म्?:) ।
ताम्बूलरागवदनो धूपामोदसुगन्धितः ॥ ६८ ॥
कर्पूरक्षोददिग्धाङ्गो रक्तचन्दनभूषितः ।
सर्वशृङ्गारवेशाढ्यस्त्रिपुरीकृतविग्रहः ॥ ६९ ॥
मनःसंकल्परक्तो वा साधकः स्थिरमानसः ।
कृताञ्जलिपुटो भूत्वा मन्दस्मितमुखाम्बुजः ॥ ७० ॥
वामकर्णोर्ध्वभागे तु गुरुं च प्रणमेत् ततः ।
दक्षकर्णोर्ध्वभागे तु गणेशं प्रणमेद् बुधः ॥ ७१ ॥
दुर्गां नमेत् पुरोभागे पृष्ठतः क्षेत्रनायकम् ।

१ ‘दामिश्र’ ख पाठ. । २ ‘ईं’ क पाठ । ३ ‘र्द्ध’ क पाठ ।