सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 165, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 165

८४ गन्धर्वतन्त्रे ।
पराबीजंꕤ समुच्चार्य ततश्चाधारपूर्वकम् ॥ ५१ ॥
शक्तिपदं समालिख्य कमलासनमालिखेत् ।
ङेन्तं नमःपदं कुर्यादनेनैवासनं यजेत् ॥ ५२ ॥
मूलप्रकृतिं तत्रैव कूर्मं च परिचिन्तयेत् ।
अनन्तं चापि संपूज्य पृथिव्यर्घ्यं निवेदयेत् ॥ ५३ ॥
प्रणवं पूर्वमुच्चार्य पृथिव्यै नम इत्यपि ।
पाणिभ्यामासनं धृत्वा स्मरेदेवं विधानतः ॥ ५४ ॥
मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छन्द ईरितम् ।
कूर्मो वै देवता चात्र आसनस्योपवेशने ॥ ५५ ॥
विनियोगस्तथा प्रोक्त उपविशेत् समन्त्रकम् ।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥ ५६ ॥
त्वं च धारय मां नित्यं पवित्रमासनं कुरु ।
दुःशिल्पिरचितत्वादि यदन्यासनदूषणम् ॥ ५७ ॥
अज्ञातरूपकं याति विलयं विधिना प्रिये ।
पदद्वयं समं सम्यगूरुद्वयोपरिस्थितम् ॥ ५८ ॥
सव्यं पादमुपादाय दक्षिणोपरि विन्यसेत् ।
विष्टभ्य कट्योः पार्ष्णी तु नासाग्र(ग्र?न्य)स्तलोचनः ।५६।
पद्मासनं भवेदेतत् प्रशस्तं त्रिपुरार्चने ।
स्वस्तिकं गोमुखं चैवमूर्ध्वस्वस्तिकमेव वा ॥ ६० ॥
पर्यङ्कमासनं शस्तमेवं बद्धासनः प्रिये ।
पश्यन्नभीष्टदेवं च पाददोषं न पश्यति ॥ ६१ ॥
ꕤ परेति ह्रींबीजमत्र ज्ञेयम् ।