गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 206, कुल 286 में से
संदर्भ में पढ़ें१८६ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः
कतकफलचूर्णेऽपि क्षिप्ते निर्मलता भवेत् ।
पक्षादूर्ध्वं पिबेद्यस्तु मात्रया च यथाबलम् ॥ २४४ ॥
धातुक्षयं जयेत्पीतः कासं पञ्चविधं तथा ।
अर्शांसि षट्प्रकाराणि तथाऽष्टावुदराणि च ॥२४५ ॥
प्रमेहं च महाव्याधिमरुचिं पाण्डुतां तथा ।
सर्वान् वातान् तथाऽऽमं श्वासं छर्दिं तथैव च ॥२४६॥
अष्टादशैव कुष्ठानि शोषं शूलं भगन्दरम् ।
शर्करां मूत्रकृच्छ्रं च ह्यश्मरीं च विनाशयेत् ॥ २४७ ॥
कृशानां च महापुष्टिं कुरुते च महाबलम् ।
महावेगो महातेजा महावीर्यबलोद्धतः ।
कामपुष्टिं करोत्येष वन्ध्यानां पुत्रदो भवेत् ॥ २४८ ॥
आवर्तक्याद्यासवः ।
१ नेत्रभेषजशिफापलाष्टकं सार्धमैलपलमर्धमस्तकीम् ।
हेमजार्धपलमेकतः कृतं द्रोणवारिमिलितं दिनत्रयात् ॥२४९॥
यः पिबेद्दिपलिकं दिनोदये नीरमस्तसमये समाहितः ।
तस्य नश्यति कटीसमुद्भवं दद्रु मासयुगलेन निश्चितम् ॥२५०
क्षये दशमूलासवः ।
दशमूलतुलार्धं तु पौष्करं च तदर्धकम् ।
• तत्तुल्यं चित्रकं दद्याच्चित्रकार्धं दुरालभा ॥ २५१ ॥
गुडूच्या विंशतिपलं रोध्रं दद्याच्च तत्समम् ।
खदिरस्य पलान्यष्टौ तत्समं बीजसारकम् ॥ २५२ ॥
प्रस्थमामलकीनां च तदर्धा च हरीतकी ।
मञ्जिष्ठा मधुकं कुष्ठं कपित्थं देवदारु च ॥ २५३ ॥
१ नेत्रभेषजं 'सना' 'सोनामुखी' इति ख्यातं, तन्मूलं अष्टपलं; ऐलः
'एलिया' 'मुसव्वर' इति ख्यातः, तस्य सार्धपलं; मस्तकी 'रूमीमस्तकी' इति
ख्याता, तस्या अर्धपलं; हेमजा 'रेवंदचीनी' इति ख्याता, तस्या अर्धपलं; अन्य-
त्स्फुटम् ।