सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 207, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 207

६.] गदनिग्रहः । १८७
विडङ्गं चविका वृक्षं भार्ङ्गी स्यादष्टवर्गकम् ।
त्रिवृता रजनी रास्ना कर्कटाख्या पुनर्नवा ॥ २५४ ॥
प्रियङ्गुसारिवामांसीनागकेसररेणुकम् ।
शताह्वेन्द्रयवामुस्तं द्विपलान्क्वाथयेज्जले ॥ २५५ ॥
अष्टद्रोणे, पादशेषे सर्वमेकत्र निक्षिपेत् ।
षष्टिपला॑नि द्राक्षायाः क्वाथयित्वा चतुर्गुणे ॥ २५६ ॥
जले त्रिभागशेषे तु पूते तस्मिन्विनिक्षिपेत् ।
त्रिंशत्पलानि धातक्या गुडाच्छुद्धाच्चतुःशतम् ॥ २५७ ॥
द्वात्रिंशत्पलिकं क्षौद्रं सर्वमेकत्र कारयेत् ।
भाण्डे पुराणे सुस्निग्धे मांसीमरिचधूपिते ॥ २५८ ॥
धूपिते च पुनर्दद्यात्पिप्पलीनां पलद्वयम् ।
जातीफलं लवङ्गं च त्वगेलापत्रकेसरान् ॥ २५९ ॥
जातीपत्रीं च कङ्कोलं चन्दनं वालुकं तथा ।
कर्षमात्रां च नेपालीं दत्त्वा भूमौ विनिक्षिपेत् ॥ २६० ॥
पक्षादूर्ध्वं पिबेद्यस्तु मात्रया च यथाबलम् ।
धातुक्षयं जयेत्पीतः कासं पञ्चविधं तथा ॥ २६१ ॥
अर्शासि षट्प्रकाराणि तथाष्टावुदराणि च ।
प्रमेहं च मदव्याधिमरुचिं पाण्डुतां तथा ॥ २६२ ॥
सर्वान्वातांस्तथायामं श्वासं छर्दिमरोचकम् ।
अष्टादशैव कुष्ठानि शोफं शूलं भगन्दरम् ॥ २६३ ॥
शर्करां मूत्रकृच्छ्रं च अश्मरीं च विनाशयेत् ।
कृशानां च महापुष्टिं कुरुते च महाबलम् ॥ २६४ ॥
महावेगो महावीर्यो महातेजा महाद्युतिः ।
कामपुष्टिकरो ह्येष वन्ध्यानां पुत्रदो भवेत् ॥ २६५ ॥
खर्जूरासवः ।
खर्जूरमुस्तामलकीनिकुम्भाद्राक्षाभयापूगफलानि पाठा ।
भार्ङ्गीशठीकुष्ठजलाजमोदपलङ्कषापिप्पलीमूलकानि ॥ २६६ ।