गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 205, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १८५
वचाया वातकुम्भस्य लशुनस्यैलया सह ।
लवङ्गस्यापि प्रत्येकं पलार्धं कृमिनाशनः ॥ २३२ ॥
व्योषस्यापि पलं सार्धमभयैकपला मता ।
चुल्यग्रे वासरान्सप्त निक्षिप्याशु समुद्धरेत् ॥ २३३ ॥
प्लीहोदरहरं दिव्यं मूढवातकफापहम् ।
अशीतिवातशमनं पञ्चमूत्रासवं विदुः ॥ २३४ ॥
धातुक्षये हरीतक्यासवः ।
हरीतकीनां प्रस्थार्धं धात्रीप्रस्थद्वयं तथा ।
दशमूलशतार्धं च पौष्करं च तदर्धकम् ॥ २३५ ॥
तत्तुल्यं चित्रकं दद्याच्चित्रकार्धा दुरालभा ।
गुडूच्या विंशतिपलं विशालापलपञ्चकम् ॥ २३६ ॥
खदिरस्य पलान्यष्टौ तदर्धं बीजपूरकम् ।
मञ्जिष्ठा मधुकं कुष्ठं कपित्थं देवदारुकम् ॥ २३७ ॥
विडङ्गं चविका रोध्रं भार्ङ्गी स्यादेलवालुकम् ।
संवर्तकं पिप्पलीं च क्रमुकं श्वठिसुप्रभम् ॥ २३८ ॥
प्रियङ्गुसारिवामांसीनागकेसरेणुकम् ।
त्रिवृतां रजनीं रास्नां मेषशृङ्गीं पुनर्नवाम् ॥ २३९ ॥
शताह्वां रोहिणीं दन्तीं पलांशान्क्वाथयेज्जले ।
चतुर्थपादशेषे तु द्राक्षां षष्टिपलां क्षिपेत् ॥ २४० ॥
त्रिंशत्पलानि धातक्या गुडाच्छुद्धाच्चतुःशतम् ।
द्वात्रिंशत्पलिकं क्षौद्रं सर्वमेकत्र कारयेत् ॥ २४१ ॥
भाण्डे पुराणे सुस्निग्धे मांसीमरिचधूपिते ।
धूपिते च पुनर्दद्यात्पिप्पलीनां पलद्वयम् ॥ २४२ ॥
जातीफलं लवङ्गं च त्वगेलापत्रकेसरान् ।
कर्षमात्रां च नेपालीं दत्त्वा पक्षं निधापयेत् ॥ २४३ ॥
१. 'गुप्तं' इति पाठान्तरम् ।