गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 204, कुल 286 में से
संदर्भ में पढ़ें१८४ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः
गुग्गुल्वासव इत्येष देयः सर्वेषु रोगिषु ।
प्राग्भक्तं मध्यभक्तं वा ग्रासे ग्रासान्तरे तथा ॥ २१९ ॥
दद्यात्क्रमेण योगं तु वयःसात्म्यमपेक्ष्य च ।
नाशयेदुदरं प्लीहामूरुस्तम्भं सकामलम् ॥ २२० ॥
चिरोत्थितमपि श्वासं कासशोफभगन्दरान् ।
कृमिकुष्ठप्रमेहेषु हितश्चैवाग्निदीपनः ॥ २२१ ॥
अर्शस्सु ताम्बूलासवः ।
जतुस्रुतमादौ कृत्वा भाण्डकमर्धप्रवेशितं भूमौ ।
तत्तरुणहरितजम्बूपत्रक्वाथेन संशुद्धम् ॥ २२२ ॥
शुद्धे च शर्कराभिरगरुं दद्यात्सुगन्धतरम् ।
वासार्थं, धातक्याः पलानि खलु सप्त देयानि ॥ २२३ ॥
पूगीफलानि खदिरं दशपलिकानि दापयेत्तत्र ।
ताम्बूलीपत्रशतैर्दशभिः क्षुण्णैश्च पञ्चभिश्चान्यैः ॥ २२४ ॥
पलशतमेकं मधुनः शतं च सार्धं तु वारिणो देयम् ।
कङ्कोलकृष्णानां प्रत्येकं द्वे पले च स्युः ॥ २२५ ॥
त्रिफलाजातिफलैलालवङ्गकुसुमानि चैकपलिकानि ।
दत्त्वाऽवलोड्यमेतत्त्रीणि दिनानि पाणिना पात्रे ॥२२६॥
स भवेद्यदा सशब्दस्ततो गुडशतपलानि त्रीणि ।
देयानि प्रविलीनमग्नियोगात्तं तु जलद्रोणसंयुक्तम्॥२२७॥
पक्षद्वयेन पेयो रसनाक्षिमनोंहरः सुरभिगन्धः ।
ताम्बूलासव एष रसायनानां भवेद्वय्यः ॥ २२८ ॥
प्रीणयति हन्ति गुदजान् सर्वांश्च कफोद्भवांस्तथा रोगान्॥
वलवर्णशुक्रजननो ह्युपयोगादश्मरीं हन्यात् ।
संवत्सरमुपयुक्तः स्थिरवयसं मानवं कुरुते ॥ २३० ॥
अपस्मारे पञ्चमूत्रासवः ।
अजागोसुरभीणां च चतुःकर्षं खरोष्ट्रयोः ।
मूत्रं संग्राद्य कुम्भे च स्थाप्य चूर्णं प्रदापयेत् ॥ २३१ ॥