गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 202, कुल 286 में से
संदर्भ में पढ़ें१८२ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः
प्रतिश्यायं क्षयं कासमष्ठीलां वातशोणितम् ।
उदराणन्त्रवृद्धिं च चविकाख्यो महासवः ॥ १९५ ॥
ग्रहण्यां मूलासवः ।
द्विपञ्चमूलरजनीजीवकर्षभजीरकम् ।
पृथक्पञ्चपलैर्भागैश्चतुर्द्रोणेऽम्भसः पचेत् ॥ १९६ ॥
द्रोणशेषे रसे पूते गुडस्य द्विशतं तथा ।
चूर्णितान्कुडवार्धांशांन्दत्त्वा चात्र समाक्षिकान् ॥ १९७ ॥
प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान् ।
रोध्रं सावरकं चैव मासार्धं स्थापयेद्घटम् ॥ १९८ ॥
एष मूलासवः सिद्धो दीपनो रक्तपित्तहा ।
आमहृत्कफहृद्रोगपाण्डुरोगाङ्गसादनुत् ॥ १९९ ॥
क्षयरोगे बृहन्मूलासवः ।
महावृक्षवटार्काणां विनामूलैः परैः शुभैः ।
अष्टोत्तरशतैरम्भस्त्रिंशद्घटमितं पचेत् ॥ २०० ॥
तुलात्रयप्रमाणं च दशमूल्यास्तथैव च ।
अष्टावशेषमुत्तार्य गुडस्यानु दिनद्वयम् ॥ २०१ ॥
पलानां विंशतिशतं क्षिपेच्च दृढे घटे ।
आतपे तं विनिक्षिप्य धारयेत्रिदिनं ततः ॥ २०२ ॥
उद्धृत्य धूपिते पात्रे वस्त्रपूतं क्षिपेद्भिषक् ।
धातकीं विंशतिपलां हरीतक्याः पलाष्टकम् ॥ २०३ ॥
पूगानां विंशतिपलं पिप्पल्याः पलपञ्चकम् ।
एलालवङ्गकङ्कोलजातीत्वक्पत्रकेसरम् ॥ २०४ ॥
पलं पलं समरिचं चूर्णीकृत्य भिषग्वरः ।
आसवे निक्षिपेत्तत्र मधुनः कुडवद्वयम् ॥ २०५ ॥
संजातेऽष्टदिने तस्मादुद्धृत्यान्यत्र तं न्यसेत् ।
आसवे सकषाये तु गुडमन्यं प्रदापयेत् ॥ २०६ ॥
१. मूलरहितैरन्यैस्त्वक्पत्राद्यवयवैरित्यर्थः ।