गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 201, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १८१
शर्करायास्तुलां दत्त्वा माक्षिकस्य तुलां तथा ॥ १८२ ॥
उशीरासव इत्येष रक्तपित्तविनाशनः ।
पाण्डुकुष्ठप्रमेहार्शःकृमिशोफहरस्तथा ॥ १८३ ॥
श्वासकासयोस्त्रायमाणासवः ।
त्रायन्ती कट्फलं दन्ती पौष्करं कण्टकारिका ।
दुरालभाऽञ्जनं सिंही पिप्पलीमूलमेव च ॥ १८४ ॥
धात्री कृमिहरं भार्ङ्गी माचिका चैल्वालुकम् ।
पथ्या शठी विशाला च भागानष्टपलोन्मितान् ॥ १८५ ॥
चतुर्द्रोणेऽम्भसः पक्त्वा शृतं द्रोणावशेषितम् ।
धातक्या विंशतिपलं माक्षिकस्य शतत्रयम् ॥ १८६ ॥
श्यामापलानि चत्वारि एलात्वक्पत्रकेसरम् ।
भागान्द्विपलिकानैषां चूर्णं कृत्वा विनिक्षिपेत् ॥ १८७ ॥
त्रायमाणासवो ह्येष कासश्वासामयग्रणुत् ।
पाण्डुहृद्रोगगुल्मार्शःसन्निपातज्वरापहः ॥ १८८ ॥
गुल्मे चविकासवः ।
तुलार्धं चविकायास्तु तदर्धं चित्रकस्य च ।
बाष्पिका पौष्करं मूलं पञ्चन्था हपुषा शठी ॥ १८९ ॥
पटोलमूलत्रिफलायवानीकुटजत्वचः ।
विशाला धान्यकं रास्ना दन्ती दशपलोन्मिता ॥ १९० ॥
कृमिघ्नमस्तमञ्जिष्ठादेवेदारुकटुत्रिकात् ।
भागान्पञ्चपलानेतानष्टद्रोणेऽम्भसः पचेत् ॥ १९१ ॥
द्रोणशेषे सुशीते च देयं गुडशतत्रयम् ।
धातक्या विंशतिपलं चातुर्जातपलाष्टकम् ॥ १९२ ॥
लवङ्गव्योषकङ्कोलं पलिकानि प्रकल्पयेत् ।
निदध्यान्मासमेकं तु घृतभाण्डे सुसंस्कृते ॥ १९३ ॥
चतुष्पलां पिबेन्मात्रां प्रातः पीतो नियच्छति ।
सर्वान्गुल्मविकारांश्च प्रमेहांश्चैव विंशतिः ॥ १९४ ॥
१६