दुर्गा सप्तशती / देवी माहात्म्यम् (पारिजात सौरभ सविस्तार हिन्दी व्याख्या सहित)
Durga Saptashati / Devi Mahatmyam with Commentary
महर्षि वेदव्यास / मार्कण्डेय पुराण द्वारा
१२५ ] श्री दुर्गा सप्तशती पारिजात सौरभ
क्षमा प्रार्थना
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ १
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २
मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ ३
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ ४
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ ५
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ६
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ॥ ७
गुह्याति गुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि ॥ ८
भगवती दुर्गा जी के बत्तीस नाम भी बहुत प्रसिद्ध हैं।
उनमें नामों का स्मरण कर लेने से भी सभी प्रकार का लाभ
होता है ।
एक समय देवताओं की पूजा से प्रसन्न हुई पराम्बा ने
स्वयं अपने आप कृपा कर देवताओं को यह बत्तीस नामों की
माला सभी आपत्तियों का नाश करने वाली बतलाई थी । इन
नामों द्वारा मधु (शहद) मिलाकर सफेद तिलों से लाख आहुति
करे तो सभी विपत्तियाँ नष्ट हो जाती हैं । इसका पुरश्चरण
तीस हजार का है । गुरुजनों से पूछकर विधिवत् पुरश्चरण
करने से सब प्रकार का लाभ होता है ।
श्री दुर्गा सप्तशती पारिजात सौरभ [ १२६
अथ दुर्गाद्वात्रिंशन्नाममाला
दुर्गा दुर्गार्तिशमनी दुर्गापद्वि निवारिणी ।
दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ॥
दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्ग मापहा ।
दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला ॥
दुर्गमा दुर्गमालोका दुर्गमात्म स्वरुपिणी ।
दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ॥
दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी ।
दुर्गमोहा दुर्गमगा दुर्गमार्थ स्वरूपिणी ॥
दुर्गमासुरसंहन्त्री दुर्गसायुधधारिणी ।
दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्वरी ॥
दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी ।
नामावलिमिमां यस्तु दुर्गाया मम मानवः ॥
पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः ॥
इसके पश्चात् निम्न स्तोत्र बहुत प्रसिद्ध है :
अथ देव्यपराधक्षमापन स्तोत्रम्
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
१२७ ] श्री दुर्गा सप्तशती पारिजात सौरभ
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ॥
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥
परित्यक्ता देवा विविधविधिसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव-शिव भवानीति जपतः ॥
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥
श्री दुर्गा सप्तशती पारिजात सौरभ [ १२८
आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ॥
जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्पराऽऽवृत्तं न हि माता समुपेक्षते सुतम् ॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥
श्री दुर्गा जी की आरती
जय अम्बे गौरी मैया जय मंगल मूर्ती,
मैया जय मंगल करणी, मैया जय आनन्द करणी ।
तुमको निशिदिन ध्यावत हरि ब्रह्मा शिवरी ॥ जय अम्बे ॥ १ ॥
मांग सिन्दूर विराजत टीको मृगमद को, मैया टीको ⋯ ।
उज्जवल से दोऊ नैना चन्द्रबदन नीको ॥ जय अम्बे ॥ २ ॥
कनक समान कलेवर रक्ताम्बर राजे, मैया ⋯ ।
रक्त पुष्प गल माला, कण्ठन पर साजै ॥ जय अम्बे ॥ ३ ॥
केहरि वाहन राजत खड्ग खप्पर धारी, मैया ⋯ ।
सुर नर मुनि जन सेवत, तिनके दुःख हारी ॥ जय अम्बे ॥ ४ ॥
कानन कुण्डल शोभित, नासाग्रे मोती, मैया ⋯ ।
कोटि चन्द्र दिवाकर राजत समज्योति ॥ जय अम्बे ॥ ५ ॥
शुम्भ-निशुम्भ विदारे, महिषासुर घाती, मैया ⋯ ।
धूम्र विलोचन नैना, निशिदिन मदमाती ॥ जय अम्बे ॥ ६ ॥
चण्ड-मुण्ड संहारे, शोणित बीज हरे, मैया ⋯ ।
मधु-कैटभ दोउ मारे, सुर नर भयहीन करे ॥ जय अम्बे ॥ ७ ॥
ब्रह्माणी, रुद्राणि, तुम कमला रानी, मैया ⋯ ।
आगम निगम बखानी, तुम शिव पटरानी ॥ जय अम्बे ॥ ८ ॥
चौसठ योगिनी गावत, नृत्य करत भैरो, मैया ⋯ ।
बाजत ताल मृदंग, अरु बाजत डमरू ॥ जय अम्बे ॥ ९ ॥
तुम हो जग की माता तुम ही हो भरता, मैया ⋯ ।
भक्तन के दुःख हरता, सुख सम्पति करता ॥ जय अम्बे ॥ १० ॥
भुजा चार अति शोभित, वर अभय धारी, मैया ⋯ ।
मन वांछित फल पावत, सेवत नर-नारी ॥ जय अम्बे ॥ ११ ॥
कंचन थाल विराजत अगर कपूर बाती, मैया ⋯ ।
श्री माल केतु में राजत, कोटि रतन ज्योति ॥ जय अम्बे ॥ १२ ॥
अम्बे जी की आरती, जो कोई नर गावै, मैया ⋯ ।
कहत शिवानन्द स्वामी, सुख-सम्पत्ति पावै ॥ जय अम्बे ॥ १३ ॥
१२६ ] श्री दुर्गा सप्तशती पारिजात सौरभ
अथ बगलाअष्टोत्तरनामस्तोत्रम्
नारद उवाच
भगवन् ! देवदेवेश ! सृष्टि-स्थिति-लयात्मक ! ।
शतमष्टोत्तरं नाम्नां बगलाया वदाऽधुना ॥ १
श्रीभगवानुवाच
शृणु वत्स ! प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पीताम्बर्या महादेव्याः स्तोत्रं पापप्रणाशनम् ॥ २
यस्य प्रपठनात् सद्यो वादी मूको भवेत् क्षणात् ।
रिपूणां स्तम्भनं याति सत्यं सत्यं वदाम्यहम् ॥ ३
विनियोगः
ॐ अस्य श्रीपीताम्बर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव-ऋषिरनु-
ष्टुप्छन्दः, श्रीपीताम्बरी देवता श्रीपीताम्बरीप्रीतये जपे विनियोगः ।
ॐ बगला विष्णु-वनिता विष्णु-शङ्कर-भामिनी ।
बहुला वेदमाता च महाविष्णुप्रसूरपि ॥ १
महामत्स्या महाकूर्मा महावाराहरूपिणी ।
नरसिंहप्रिया रम्या वामना वडुरूपिणी ॥ २
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।
कृष्णा कपर्दिनो कृत्या कलहा कलविकारिणी ॥ ३
बुद्धिरूपा बुद्धभार्या बौद्ध-पाखण्ड-खण्डिनी ।
कलिकरूपा कलिहरा कलिदुर्गतिनाशिनी ॥ ४
कोटिसूर्यप्रतीकाशा कोटि-कन्दर्प-मोहिनी ।
केवला कठिना काली कलाकैवल्यदायिनी ॥ ५
केशवी केशवाराध्या किशोरी केशवस्तुता ।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥ ६
नक्षत्ररूपा नक्षत्रा नक्षत्रेश-प्रपूजिता ।
नक्षत्रेश-प्रिया नित्या नक्षत्रपति-वन्दिता ॥ ७
श्रीदुर्गा सप्तशती पारिजात सौरभ [ १३०
नागिनी नागजननी नागराज-प्रवन्दिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा ॥ ८
नगाधिराज-तनया नगराज-प्रपूजिता ।
नवीना नीरदा पीता श्यामा सौन्दर्यकारिणी ॥ ९
रक्ता नीला धना शुभ्रा श्वेता सौभाग्यदायिनी ।
सुन्दरी सौभगा सौम्या स्वर्णभा स्वगतिप्रदा ॥ १०
रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥ ११
राग-द्वेषकरी रात्री रौरव-ध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥ १२
लङ्कापति-ध्वंसकरी लङ्केशरिपु-वन्दिता ।
लङ्कानाथ-कुलहरा महारावणहारिणी ॥ १३
देव-दानव-सिद्धौघ-पूजिता परमेश्वरी ।
पराणुरूपा परमा परतन्त्रविनाशिनी ॥ १४
वरदा वरदाराध्या वरदान-परायणा ।
वरदेशप्रिया वीरा वीरभूषण-भूषिता ॥ १५
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषण-भूषिता ॥ १६
पीतपुष्प-प्रिया पीतहारा पीतस्वरूपिणी ।
इति ते कथितं विप्र ! नाम्नामष्टोत्तरं शतम् ॥ १७
यः पठेद् पाठयेद् वापि शृणुयाद् वा समाहितः ।
तस्यं शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥ १८
प्रभातकाले प्रयतो मनुष्यः
पठेत् सुभक्त्या परिचिन्त्य पीताम् ।
द्रुतं भवेत् तस्य समस्त - वृद्धि-
विनाशमायाति च तस्य शत्रुः ॥ १६
❇-❇
१३१ ] श्री दुर्गा सप्तशती पारिजात सौरभ
अथ सप्तश्लोकी दुर्गा
शिव उवाच-
देवि त्वं भक्त सुलभे सर्व कार्य विधायिनी ।
कलौ ही कार्य सिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥
देव्युवाच-
शृणु देव प्रवक्ष्यामि कलौ सर्वेष्ट साधनम् ।
मया तवैव स्नेहेनाप्यम्बा स्तुतिः प्रकाश्यते ॥
ॐ अस्य श्री दुर्गा सप्तश्लोकी स्तोत्रमंत्रस्य नारायण ऋषिः, अनुष्टुप् छंदः
श्री महाकाली, महालक्ष्मी, महासरस्वत्यो देवताः,
श्री दुर्गा प्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोगः ।
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥१॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्य दुःख भय हारिणि कात्वदन्या,
सर्वोपकार करणाय सदार्द्र चित्ता ॥२॥
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बिके गौरि नारायणि नमोऽस्तुते ॥३॥
शरणागत दीनार्त परित्राण परायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥४॥
सर्वस्वरूपे सर्वेशे सर्व-शक्ति-समन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥५॥
रोगानशेषानपहंसि तुष्टा,
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां,
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥६॥
सर्व बाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥७॥
“श्री श्री सप्तश्लोकी दुर्गा सम्पूर्णा ॥
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानिसहितं नमामि ॥
पुनीत शादमां के प्रबन्ध में सरस्वती प्रेस, ठठेरवाड़ा, निकट सर्राफा
मेरठ शहर में मुद्रित । फोन (०१२१) २३४८६, २३७३३