सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 92, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 92

८४ द्रव्यगुणः ।
शृतशीतं त्रिदोषघ्नं यदन्तर्वाष्पशीतलम् ।
शीतीकृतन्तु विष्टम्भि दुर्जरं पवनाहतम् ॥ ३२ ॥
न तत् पर्युषितं देयं कदाचिदपि जानता ।
व्यम्लीभवेत् पर्युषितं कफक्लेदि पिपासवे ॥ ३३ ॥
शृतं तोयं दिवा रात्रौ गुरु रात्रिश्रुतं दिवा ॥ ३४ ॥
क्वाथ्यमानन्तु यत्तोयं निष्फेनं निर्मलीकृतम् ।
भवत्यर्द्धावशिष्टन्तु तदुष्णोदकमिष्यते ॥ ३१ ॥
शृतशीतजलगुणमाह शृतशीतमिति । अन्तर्वाष्पं सत्
कालप्रतीक्षया शीतलमित्यर्थः । पवनाहतं पवनेन शीतीकृत-
मिति भावः ॥ ३२ ॥
तदिति शृतशीतलं जलम् । अत्र देशादिभेदेन कथन-
प्रकर्षापकर्षावपि बोध्यौ यदाह वृद्धवाग्भटः ।
क्षीणपादत्रिभागाद्धं देशर्त्तु गुरुलाघवात् ।
धन्वसाधारणानूपेषु देशेषु तथा शीतोष्णवर्षोपलक्षिते च
ऋतुत्रये यथाक्रमं क्षयितचतुर्भागत्रिभागाद्धं सलिलमुपयोज्य-
मित्यर्थः । अत्रैवार्थे माधवकरस्तन्त्रान्तरमन्यादृशं लिखति
तद्यथा
शारदं सार्द्धपादोनं पादहीनन्तु हैमनम् ।
शिशिरे च वसन्ते च ग्रीष्मे चार्द्धावशेषितम् ॥
अष्टभागावशिष्टन्तु कारयेत् प्रावृषं जलम् ।
तदुभयमपि प्रमाणं स्मृतिद्वैविध्यवत् ॥ ३३ ॥
अस्यैव शृतजलस्य विशेषान्तरमाह शृतमिति । दिवा शृतं
तोयं रात्रौ गुरु भवति । रात्रिश्रुतन्तु दिवा गुरु भवती-
त्यर्थः ॥ ३४ ॥