द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 91, कुल 176 में से
संदर्भ में पढ़ेंऊर्ध्वगे रक्तपित्ते तु शीतमम्भः प्रशस्यते ॥ २६ ॥
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ।
आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे ॥
हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ॥ ३० ॥
उष्णोदकं सदा पथ्यं कासश्वासज्वरापहम् ।
कफवातामदोषघ्नं दीपनं वस्तिशोधनम् ॥ ३१ ॥
पजनितदाह इति चक्रः। तमके श्वासविशेषे मोह इति
वा ॥ २६ ॥
कुत्र पुनस्तन्नोपयुज्यत इत्याह पार्श्वशूल इति । स्तिमिते
कोष्ठे आमकोष्ठ इति गयदासः । सद्यः शुद्ध इति सद्यः कृत-
शोधने । सद्यःशब्दोऽयं तस्मिन्नेव शोधनक्रियाव्याप्तेऽह्नि निवृ-
त्तत इत्येके । अन्ये सद्यःशब्दोऽयं सप्तरात्रे वैद्यकव्यवहारा-
द्बोध्यः । यथा सद्यः प्राणहराणि सप्तरात्राभ्यन्तरे मारयन्ती-
त्याहुः । एषु शीताम्बुनिषेधादुष्णजलस्य विधिरित्यर्थलब्धमेव
सविशेषणे इत्यादि न्यायात् ॥ ३० ॥
तस्यैवोष्णोदकस्य गुणमाह उष्णोदकमिति । यद्यप्यौष्ण्यं
जलस्य स्पर्शदोष इति सुश्रुते नोक्तं तथापि अवस्थायां व्याधि-
विशेषहरत्वेनोपादेयमपीति केचित् । वस्तुतस्तु भूबाष्पजनि-
तौष्ण्यमेव स्पर्शदोषत्वेन तत्रोक्तं इदन्तु अग्न्यातपकृतमिति न
विरोधः । पथ्याः स्रोतसां हितं पथ्यं स्रोतः शुद्धिकरमित्यर्थः ।
वस्तिशोधनमिति वस्तिशब्देन तात्स्थ्यान्मूत्रमुच्यत इत्यरुणः ।
यद्वा यथा यथा सलिलस्याग्निगुणसंयोगप्रकर्षस्तथा तथा कफा-
दिहरत्वप्रकर्षोऽपि बोध्यः । उष्णोदकन्तु तन्त्रान्तरप्रसिद्धया
साधनीयम् । तदुक्तमग्निवेशतन्त्रे ।