सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 3, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 3

दत्तकमीमांसा ।
बालविबोधिनीटीकासहिता ।
अभिवन्द्य जगद्वन्द्यपदद्वन्द्वविनायकम् ।
पुत्रीकरणमीमांसां कुरुते नन्दपण्डितः ॥
यस्तनुर्द्वङ्गधा तनूर्द्दधत् धरणिं यः शतशोऽवहेलया ।
प्रतिपालयति स्म राघवं तमजं नौमि विभुं बुभूत्सया ॥
कृता दत्तकमीमांसाटीका बालविबोधिनी ।
भरतेन द्विजेनेयं यथामति सतां मुदे ॥
ग्रन्थारम्भे विघ्नविघाताय देवतानामोच्चारणरूपं शिष्टपरम्परा-
चरितं मङ्गलमाचरन् अभिधेयप्रयोजनसम्बन्धांश्च प्रदर्शयन् पुत्रीकरण-
मीमांसामुद्दिशति अभिवन्द्येति । नाम्ना सङ्कीर्त्तनमुद्देशः, यत्राभिधेयः
पुत्रीकरणं, प्रयोजनं पुत्रीकरणतत्त्वनिश्चयः । सच गौणं प्रयोजनं, सुख-
तद्भोगादुःखाभावानां मुख्यप्रयोजनत्वात् । सम्बन्धश्च ग्रन्थाभिधेययोर्वा-
च्यवाचकभावलक्षणः ग्रन्थप्रयोजनयोः प्रयोज्यप्रयोजकभावलक्षणः अभि-
धेयप्रयोजनयोर्विषयविषयिभावलक्षणः । अनेन ग्रन्थादौ वक्तव्या
श्चाभिधेयप्रयोजनसम्बन्धा श्चाभिहिताः । तथाचोक्तं, 'शास्त्राथं शास्त्रस-
म्बन्धं श्रोतुं श्रोता प्रवर्त्तते । ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजन
इति । अस्य तृतीयचरणे सम्बन्धः साभिधेयक इति क्वचित पाठः ।

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ) · पृष्ठ 3, कुल 191 में से · SarvaKosh