दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 151, कुल 191 में से
संदर्भ में पढ़ें२४ दत्तकचन्द्रिका ।
ककस्मिन्नेव द्वौ द्वावुपलचयेदित्यापस्तम्बवचनात् । द्वितीये पिता-
महपिण्डे द्व्यामुष्यायणस्य पुत्रः तृतीये प्रपितामहपिण्डे द्व्यामुष्या-
यणस्य पौत्र इति ।
यदि तु ग्रहीता प्रथमं मृतः तदा तस्मै दद्यात् । अथ यदि
जनकस्तदा जनकाय, यद्युभौ तदादौ जनकाय पश्चाद्ग्रहीत्रे
दद्यादित्याह मरीचिः । सगोत्रादन्यगोत्राद्वा यो भवेद्विधवासुतः [
पिण्डं श्राद्धविधानज्ञ क्षेत्रिणे प्राक् प्रदापयेत् । वीजिने तु
ततः पश्चात् क्षेत्री जीवति चेत् क्वचित् । बीजिने दद्युरादौ तु
मृते पश्चात् प्रदीयते ॥ उभौ यदि मृतौ स्यातां बीजिन्यादौ ततो
ददेत् । क्षेत्रिणादौ न दत्तं स्याद्वीजिने नोपतिष्ठते इति । एते-
नैकतरोपरतावपि द्विपितृकस्य पार्व्वणं दर्शितम् । तथा तुल्य-