दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 147, कुल 191 में से
संदर्भ में पढ़ें२० दत्तकचन्द्रिका।
षेचिक एव चेति अपुत्रबीजिक्षेत्रिकयोर्मम क्षेत्रं तव बीजं
यदपत्यं तदावयोरित्ययं क्रियाभ्युपगमः तथा अपुत्रेण पर-
क्षेत्रे नियोगोत्पादितः सुतः। उभयोरप्यसावृक्थी पिण्डदाता च
धर्मतः इति॥ दत्तकस्य तु तददृष्टचरं प्रत्युत गोत्ररिक्थे जनयितु-
र्न हरेद्रिक्थं; सुत इति प्रागुक्तमनुवचनं तद्विपरीतार्थग्राहक-
मेवासीदिति चेन्न, दत्तकादिष्वपि सर्व्वेषामेकधर्म्माणामेकस्यापि यदु-
च्यते। सर्व्वेषामेव तत् कुर्य्यादेकरूपा हि ते स्मृता इति बौधाय-
नदर्शनेन क्षेत्रजधर्म्मलाभात्। द्वे श्राद्धे कुर्य्यादेकस्याह्ने वा पृथ-
गनूद्दिश्य एकपिण्डे वा द्वावनुकीर्त्तयेत् प्रतिग्रहीतारं चोत्पाद-
यितारं चातृतीयात् पुरुषादिति साङ्ख्यायनप्रवराध्याये
सामान्यतो दर्शनाच्च दत्तकस्यापि द्विपिण्डकत्वसिद्धिः॥ अतएव
सत्याषाढोऽपि। नित्यानां द्वयामुष्यायणानां द्वयोरिति सूत्रेण
नित्यद्वयामुष्यायणानां क्षेत्रजानां सप्रवरगोत्रद्वयसम्बन्धमुक्त्वा
दत्तकादीनां द्वयामुष्यायणवदिति सूत्रेण तद्धर्म्ममतिदिशति॥
यद्यभावेत्याद्युपश्लेषे बीजक्षेत्रत्वादित्यर्थः। तथेति। —भागिने-
यादिना शिष्टो महर्षिभिः। 'ऋक्थी' दायाद इत्यर्थः। एतत्तु
उभयोरभिसन्धाने ज्ञेयम्। 'एकरूपा' प्रतिनिधिपुत्रत्वेन तुल्यरूपा
इत्यर्थः। द्वे श्राद्धे इति। —श्राद्धद्वयं कुर्यादित्यर्थः एकश्राद्धे प्रति-
ग्रहीतुः जनकस्य च नामोल्लिख्य उभयोरेकैकं पिण्डं दद्यात्, एकपिण्डं
गृहीत्वा उभयोर्नाम कीर्त्तयेदिति वार्थः, कल्पत्रयमिदं शाखाप्रसं-
भेदेनेति ज्ञेयम्। ऐच्छिकविकल्पेनानुष्ठानं पूर्व्वकल्पद्वयस्यानुष्ठान-
वचनाप्रामाण्यापत्तेः। सामान्यत इति। —दत्तकाद्यविशेषेणेत्यर्थः।