सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 118, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 118

कन्यापगमे पुत्र इव दत्तकादिपुत्राणि प्रतिनिधीय भवन्ति तत
ग्रहस्यापि नित्यत्वात् ।
दत्तकादिमरणे यथासम्भवं जनने वा जनककुले नाशौचम् ।
दत्तकमरणे तत्पुत्रपौत्रयोर्वा जनने प्रतिग्रहीतृतत्पितृपितामहादीनां
त्रिरात्रमशौचम् । सगोत्रसपिण्डदत्तकादैः संपूर्णाशौचं, तन्मात्राङ्गता-
विरहेण सामान्यसापिण्ड्यप्रयुक्तदशाहाशौचबाधे हेत्वभावात्, तेषां
मरणे तत्पुत्रादीनां जननमरणे वा दत्तकस्य तदेवाशौचम् । प्रति-
गृहीतुः प्रपितामहादीनां सकुल्यानां दशमपुरुषपर्यन्तानामेकाहः ।
सोदकसगोत्रयोः स्नानमात्रं, तेषां मरणे यथासम्भवं जनने च तदेवा-
शौचं दत्तकस्य यन्मरणे यदशौचं तन्मरणे तदेवाशौचम्, असति बाधके
इति न्यायात् । प्रतिग्रहीतुः क्रियाकरणे दत्तकस्य दशरात्रं तदकरणे
त्रिरात्रमिति विशेषः ।
साग्निरग्नौरसाभ्यां पितुः क्षयाहे पार्वणं कर्त्तव्यं, निरग्निना
एकोद्दिष्टं, साग्निनिरग्निभिर्दत्तकादिभिरेकोद्दिष्टमेव कर्त्तव्यम् । माता-
महानामपि क्षयाहे पार्वणविधिरस्ति, पार्वणं कुरुते यस्तु केवलं पितृ-
कारणात् । मातामहानां न कुरुते पितृहा स प्रजायते इति श्राद्धात् ।
आद्यादिसपिण्डीकरणान्तषोडशश्राद्धानि मघामावास्यारूपश्राद्धानि च
सर्वैरेव कर्त्तव्यानि । दत्तकग्रहणानन्तरं चौरसे जाते दत्तकश्चतुर्थभाग्-
भवति चौरसाभावे तु सर्वहरा स्यादिति ।
नास्यां व्याख्यापटुत्वं स्खलितमपि वचः सञ्जना रञ्जनं यत्
माज्ञा विस्तारतोऽर्थावगतिरभिधियां येन संवोधनं स्यात् ।
नास्यां मात्रावशेषे चतुरमपि वचो येन चापाय्यहः स्यात्
किन्त्वस्यामादरो यत् भवति मतिमतां केवलं गद्यभावात् ॥
विद्वान् रामकिशोर आदियुजयस्तद्दत् सुतः शङ्करः
पुत्त्रो रामतनुर्बभूव मतिमान् वस्ताख्यवंशोचितः ।