दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 116, कुल 191 में से
संदर्भ में पढ़ें[Header] दत्तकमीमांसा । १२५
एकपुत्रस्य द्व्यामुष्यायणत्वसिद्धिः। कश्चि द्व्यामुष्यायणो भवितुमर्हति
तस्य पुत्रान्तरस्यानुपपन्नेन तदन्तर्गतत्वात् पुत्रिकाकरणे नाधिकारः।
दुर्भिक्षाद्यापदं विना पुत्रदाननिषेधः, दाने दातुरेव दोषो ग्रहीतुः
प्रत्यवायो नास्ति। विधवाया नाधिकारः, शूद्रकर्त्तृकपुत्रग्रहणस्थले
ब्राह्मणाद्वारा होमः शास्त्रार्थः। जीवति भर्त्तरि पूर्वं तदनुमतायाः
पश्चाद्विधवाया अपि पुत्रग्रहणाधिकारः। जीवति पत्न्योस्तदनुमतौ
स्त्रियाः पुत्रदानाधिकारः। प्रोषिते प्रेते वा तदनुमतिं विनापि
पञ्चाब्दाः पुत्रपरिग्रहकालः, तत्राकृतजातकर्मार्दिमुख्यः कृतचूड़ो
गौणः कृतचूड़स्तु गृहीत उभयतस्विदं विनापि द्व्यामुष्यायणः, सम्बिदा
तु यदाकदापिदत्तोगृहीतोद्वामुष्यायणः जनकेन कृतजातकर्मादिचूडा-
पर्य्यन्तसंस्कारः पुत्रो गृहीत। यथाविधिपरिगृहीतोऽपि तस्य दासः।
पञ्चाब्दानन्तरं अकृतजातकर्मार्दिरपि गृहीतोऽपि दासः, पश्चाब्दा-
नन्तरं अकृतजातकर्मार्दिरपि गृहीत्वा तत्संस्कारकरणेऽपि दास एव।
दासपुत्रस्तु प्रतिग्रहीत्रा विवाहणीयो ग्रासाच्छादनदानैः प्रतिपाल-
नीयश्च भवति। विवाहे प्रतिग्रहीतृगोत्रोल्लेखसमाचारः, कृतचूड़प्रभृतौ
पुत्रेऽपिविधिरावश्यकः; भ्रातृपुत्रग्रहणसम्भवेऽन्यपुत्रग्रहणनिषेधः यत्क-
रणे न प्रकृतहानिः ग्रहीतुः प्रत्यवायमात्रं; सर्वेषां सजातीयपुत्रग्राह्य-
त्वेऽपि सन्निहितः सपिण्डो मुख्यः, तदम्पत्तौ भिन्नगोत्रसपिण्ड ग्रासन्नः।
सपिण्डः सप्तमपुरुषावधिकः। तदभावे सकुल्यः सच दशम-
पुरुषावधिकः। तदभावे सोदक आसन्नः सच चतुर्दशपुरुषावधिकः।
सद्भावे सगोत्रः सचैकविंशतितमपुरुषावधिकः। तदभावे सगोत्र-
सजातीयः, तदभावे भिन्नगोत्रोऽपि सजातीयः। एतेषामादिपुत्रग्रहणे
यन्मातरि नियोगः सम्भवति तादृशः पुत्रो ग्राह्यः। भ्रात्रा भगिनी-
पुत्रो भगिन्या वा भ्रातृपुत्रो न ग्राह्यः, श्लोकोऽनेय विधीति।
सपिण्डवेशयोः पुरोहितगोत्रेणैव समीपस्थत्वं, एतद्भागे ग्रहीतृकुले