सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 114, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 114

किञ्च कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम् । प्रत्याब्दिकन्तु
शेयेषु पिण्डाः स्युः षडिति स्थितिरित्यत्रापि प्रत्याब्दिकशब्दस्यापि
प्रत्यब्दशब्दवन्मघादिश्राद्धपरत्वं कुतो न स्यात् इष्टापत्तिरिति चेत्
न । मघादिष्वपि दत्तकादीनामेकोद्दिष्टपत्तेः नचैतत् कस्यापीष्टं
प्रत्याब्दिकशब्देन श्राद्धमात्रसंग्रहे शेषपदाभिधेयश्राद्धान्तराभावेन
पर्युदासासम्भवात् । तस्मादौरसेन क्षयाहे मातापित्रोः पार्व्वणमेव
कार्य्ये इतरैर्दत्तकादिभिरेकोद्दिष्टमेव इत्येव व्यवस्था साधीयसीत्यलं
विस्तरेण ।


शाखाभ्यां दौहित्राभ्यां मातामहस्य क्षयाहे पार्व्वणमेव कर्त्तव्यं, दत्तकादि-
भिरेकोद्दिष्टमिति विकल्पेनानुष्ठानाथं पितृवदित्युक्तमित्याह न चेति ।
किञ्चेति । कर्षू इति । चतुरङ्गुलगम्भीराषदन्तरास्तथाखता वित-
[L12