दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 109, कुल 474 में से
संदर्भ में पढ़ेंप्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १११
सोपसृत्य विविशुरन्तर्वंशिकपुरुषाः । ददृशुश्च तदवस्थं राजकुमारम् । तद-
नुभावनिरुद्धनिग्रहेच्छास्तु सद्य एव ते तमर्थं चण्डवर्मणे निवेदयाञ्चक्रुः ।
( ६ ) सोऽपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्यो-
त्पन्नप्रत्यभिज्ञः 'कथं स एवैष मदनुजमरणनिमित्तभूतायाः पापाया बाल-
चन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य पुष्पोद्भू-
वस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविप्रलम्भोपायपाटवार्जि-
तमूढपौरजनमिथ्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढ-
पापशीलश्चपलो ब्राह्मणब्रुवः ।
वंशिको जन' इत्यमरः । तदवस्थमिति—सा अवस्था यस्येति विग्रहः, शृङ्खलित-
चरणयुगलमित्यर्थः । तदनुभावेति-तस्य राजकुमारस्य अनुभावेन प्रतापेन निरुद्धा
प्रतिहता निग्रहेच्छा पराभवाभिलाषो येषां ते । ते अन्तर्वंशिकपुरुषाः । अर्थं विषयम् ।
( ६ ) सोऽपि चण्डवर्माऽपि । निर्दहन्निव भस्मीकुर्वन्निव । दहनोऽग्निर्गर्भे
मध्ये यस्यास्तया । दृशा नेत्रेण । निशाम्य अवलोक्य । उत्पन्ना प्राप्ता प्रत्यभिज्ञा
सोऽयमित्याकारिका स्मृतिर्यस्य सः । मदनुजस्य दारुवर्मणो मरणस्य मृत्योर्निमित्त-
भूतायाः कारणभूतायाः। पत्युः स्वामिनः । अति अतिशयेन अभिनिविष्ट उत्पन्नो
वित्तदर्पो धनगर्बो यस्य तथाभूतस्य । मित्रं सखा । नैकविधेषु नानाप्रकारेपु विप्र-
लम्भस्य परवञ्चनस्योपायेषु यत्पाटवं कौशलं तेनावर्जितो वशीकृतो मूढोऽज्ञो यः
पौरजनस्तेन मिथ्यारोपितो वितथो निष्फलो देवतानुभावो देवप्रभावो यस्मिन् सः ।
कपटं छलमेव धर्मकञ्चुकमावरणं यस्य सः । निगूढपापशीलः यः खलु गुप्तरूपेण
पापमाचरतीत्यर्थः । ब्राह्मणब्रुवो ब्राह्मणाधमः ।
बन्धनसे परिवद्ध राजपुत्रको देख लिया । राजपुरुषोंका साहस उस राजकुमारको पकड़नेका
तो न हुआ किन्तु वे लोग दौड़कर चण्डवर्माके समीप गये और उससे समस्त वृत्तान्त
ज्ञापित कर दिया ।
( ६ ) ज्योंही उसने यह वृत्तान्त सुना त्योंही वह क्रुद्ध होकर अन्तःपुरमें आ धमका
तथा अग्निको उगलती हुई लाल-लाल आँखोंसे वहाँकी सारी परिस्थिति देखते ही समझ
गया । उसी आवेशमें उसने कहा—'क्या यह वही दुरात्मा है जिसके कारण मेरा अनुज
मारा गया है । क्या यही उस बालचन्द्रिकाके पति पुष्पोद्भव वणिक्का मित्र है, जिसे
अपनी सम्पत्तिपर बड़ा अहंकार था ? क्या यही अपनेको श्रेष्ठ कलाकार समझनेवाला व्यक्ति
है ? क्या इसीने अनेक छलोंके द्वारा अज्ञ पुरवासियोंमें अपनेको देवता सिद्ध किया
है ? क्या इसीने धर्मके कपटाडम्बरसे जन-साधारणको धोखा दिया है ? क्या यही