सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 108, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 108

११० दशकुमारचरितम् । [ उत्तरपीठिकायां
हीतमिव रजतशृङ्खलोपगूढं चरणयुगलमासीत् । उपलभ्यैव च 'किमेतत्'
इत्यतिपरित्रासविह्वला मुक्तकण्ठमाचक्रन्द राजकन्या । येन च तत्सकल-
मेव कन्यान्तःपुरमग्निपरीतमिव पिशाचोपहतमिव वेपमानमनिरूप्यमा-
·णतदात्वायतिविभागमगण्यमानरहस्यरक्षासमयमवनितलविप्रविध्यमान-
गात्रमाक्रन्दविदीर्यमाणकण्ठमश्रुस्रोतोऽवगुण्ठतकपोलतलमाकुलीबभूव ।
( ५ ) तुमुले चास्मिन्समयेऽनियन्त्रितप्रवेशाः 'किं किम्' इति सह-
वैरं तु प्रसिद्धम् । रजतशृङ्खलया उप वेष्टितम् । उपलभ्य ज्ञात्वा । किमेतत् ?
एतत् किं जातमिति अतिपरित्रासेन अत्यन्तभयेन विह्वला व्याकुला । मुक्तकण्ठ-
मुच्चैः । आचक्रन्द रुरोद । येन आक्रन्देन । कन्यान्तःपुरं कन्यानिवासः ।
अग्निना अनलेन परीतं व्याप्तम् । पिशाचेनोपहतं भूताविष्टम् । वेपमानं कम्पमा-
नम् । अनिरूप्येति—न निरूप्यमाणो न निर्णीयमानः तदात्वस्य तत्कालस्य आय-
तेरुत्तरकालस्य च विभागः कृत्यं येन तत् । 'तत्कालस्य तदात्वं स्यादुत्तरः काल
आयतिरि'त्यमरः । न गण्यमानः न विचार्यमाणः रहस्यस्य निर्जनोत्पन्नस्य विष-
यस्य रक्षायाः समयो व्यवस्था येन तत्—रहस्यरक्षार्थं केनापि न यत्यत इति
भावः । अवनितले भूतले विप्रविध्यमानं ताड्यमानं गात्रं शरीरं यस्य तत् ।
आक्रन्दनेन रुदितेन विदीर्यमाणः भिद्यमानः कण्ठो यस्य तत् । सर्वमेतत्कन्यान्तः-
पुरमित्यस्य विशेषणम् । आकुलीबभूव व्याकुलं सञ्जातम् ।
( ५ ) तुमुले संकुले । न नियन्त्रितो निवारितः प्रवेशो येषां ते—अनिवारित-
प्रवेशाः । अन्तर्वंशिकपुरुषाः अन्तःपुराधिकृताः । 'अन्तःपुरे त्वधिकृतः स्यादन्त-
समस्त अन्तःपुर चिन्ताकुल हो गया तथा ऐसा हो-हल्ला मचा जैसे कहीं आग लग गयी हो,
अथवा भूत-प्रेत-पिशाचोंकी भयावनी विशाल सेनाने लोगोंपर आक्रमण कर दिया हो ।
वहांपर सब लोग मारे भयके कांपने लगे । उस समय न लोगोंको यही सूझ रहा था कि
क्या करना चाहिये, न वे यही सोच पाते थे कि इसके आगे क्या करना होगा ।
उन लोगोंको राजकुमारीको इस लान्छनसे बचानेका कोई उपाय भी नहीं सूझ रहा था ।
ऐसे व्याकुल तथा भयावने समयमें सब लोग गला फाड़-फाड़कर चिल्लाने लगे तथा नेत्रों से
आँसू गिराने लगे । उनके आँसू इतनी तेजीसे बह रहे थे कि उन लोगोंके गण्डस्थल एक-
दम भीग गये थे ।
( ५ ) पूर्वोक्त प्रकारका कोलाहल मचनेपर सभी प्राचीन दास-दासी यह पूछते हुए
भीतर घुस आए—'क्यों हल्ला हो रहा है—क्या बात है ?' और भीतर आकर उन लोगोंने