बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 714, कुल 760 में से
संदर्भ में पढ़ें६८६ बृहत्संहिता
१८७. कति दन्ताः छागाः शुभदाः?
(अ) नवदन्ताः (स) अष्टदन्ताः
(ब) दशदन्ताः (द) सप्तदन्ताः
१८८. कति दन्तयुक्ताः छात्राः गृहे त्याज्याः?
(अ) सप्तदन्ताः (स) पञ्चदन्ताः
(ब) एकादशदन्ताः (द) चतुर्दन्ताः
१८९. किंवर्णकाः छागाः शुभाः भवन्ति?
(अ) कृष्णाः (स) अर्धकृष्णाः
(ब) श्वेताः (द) अर्धपीताः
१९०. मन्दं सशब्दं चरति श्वेतः कृष्णाण्डसंयुतः।
मध्ये कृष्णेन पट्टेन युक्तो यः सोऽपि वृद्धिदः ॥
कस्येदं वचनम्?
(अ) शौनकस्य (स) कश्यपस्य
(ब) पराशरस्य (द) गर्गस्य
१९१. ऋष्यमूर्धा नीलपादः प्राग्भागे यश्च पाण्डुरः।
पश्चिमे नीलवर्णः स्यात्सोऽपि भर्तुर्विवृद्धिदः ॥
कस्येदं लक्षणम्?
(अ) कुक्कुटस्य (स) छागस्य
(ब) कुक्कुरस्य (द) कपोतस्य
१९२. कति छागाः लक्ष्मीसुताः?
(अ) चत्वारः (स) पञ्च
(ब) त्रयः (द) सप्त
१९३. तथा च वर्णनैकेन स्निग्धवर्णो भवेद्यदि।
स हन्याद्वर्णजान् दोषान् देहः सर्वत्र शस्यते ॥
कस्येदं वाक्यम्?
(अ) गर्गस्य (स) कश्यपस्य
(ब) शौनकस्य (द) पराशरस्य
१९४. अश्वस्य कति ध्रुवावर्ताः भवन्ति?
(अ) दश (स) अष्टौ
(ब) नव (द) द्वादश
१९५. सन्दंशं मध्यमन्त्यं दशनयुगमधः सोत्तरं वर्षजाते
स्फीतं द्व्यब्दे कषायं पतितसमुदितं त्रिचतुष्पञ्चकेषु।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA