सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 713, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 713

वस्तुनिष्ठप्रश्नाः ६८५
इति कस्य वचनम्?
(अ) शालिहोत्रस्य (स) कश्यपस्य
(ब) पराशरस्य (द) शौनकस्य
१८१. विस्तीर्णवक्षो जघनो भारे याने च पूजितः ।
स्निग्धपिङ्गेक्षणश्वेतस्ताम्रशृङ्गो महानसः ।
स तु गौः पद्मको नाम गोसहस्रप्रवर्धनः ॥
इति कस्य वाक्यम्?
(अ) शौनकस्य (स) गर्गस्य
(ब) कश्यपस्य (द) पराशरस्य
१८२. त्रयः पादाः पञ्च नखा अग्रगो दक्षिणस्तथा ।
षण्णखस्ताम्रनासो यस्ताम्रोष्ठः सिंहविक्रमः ॥
इति कस्य लक्षणम्?
(अ) गोर्लक्षणम् (स) गर्दभलक्षणम्
(ब) धेनोर्लक्षणम् (द) शूनो लक्षणम्
१८३. अखङ्गास्ताम्रवक्त्राश्च स्निग्धवर्णाश्च पूजिताः ।
दीनाश्चैव विवर्णाश्च विस्वराश्च विगर्हिताः ॥
कस्येदं लक्षणम्?
(अ) कपोतस्य (स) काकस्य
(ब) कुक्कुटस्य (द) दिवान्धस्य
१८४. कोमला सुस्वरा च कुक्कुटी किं ददाति?
(अ) लक्ष्मीम् (स) विजयम्
(ब) यशः (द) बलम्
१८५. शङ्खदर्भप्रतीकाशाश्छत्राभो रजतप्रभः ।
तथा वैदूर्यवर्णाभो यो भवेदष्टसर्षपः ॥
इति कस्य वाक्यम्?
(अ) गर्गस्य (स) नारदस्य
(ब) शौनकस्य (द) कश्यपस्य
१८६. गोधामुखं त्रिकोणं च तथा मण्डलवर्धनम् ।
स्त्रीपुत्रमतिदं विन्द्यात्कूर्मं राष्ट्रविवर्धनम् ॥
इति कस्य लक्षणम्?
(अ) शूनः (स) कच्छपस्य
(ब) गोः (द) कपोतस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA