बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 715, कुल 760 में से
संदर्भ में पढ़ेंवस्तुनिष्ठप्रश्नाः ६८७
त्रींस्त्रीनेकैकमब्दानसितहरिसिताकाचमाक्षीकशङ्खा
छिद्रं चालच्युतिश्च प्रभवति तुरगे लक्षणं वर्षजानाम्॥
इति कस्य वाक्यम्?
(अ) कश्यपस्य (स) गर्गस्य
(ब) शौनकस्य (द) वररुचेः
१९६. कति जातयो भवन्ति गजस्य?
(अ) त्रयः (स) पञ्च
(ब) चत्वारः (द) षट्
१९७. ताम्रोष्ठतालुवदनाः कलविङ्कन्नेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः।
चापोन्नतायतनिगूढनिमग्नवंशास्तन्वेकरोमचितकूर्मसमानकुम्भाः ॥
इति कस्य लक्षणम्?
(अ) अश्वस्य (स) गर्दभस्य
(ब) गोः (द) गजस्य
१९८. अन्याभ्यधिकं यस्य विस्तारेण स्तनान्तरम्।
विकटः स च निर्दिष्टो दुर्गार्तिर्निन्दितो गजः॥
इति किदृग्गजस्य लक्षणम्?
(अ) विकटगजस्य (स) मत्कुणगजस्य
(ब) षण्डगजस्य (द) वामनगजस्य
१९९. पादैः समासैः सुस्निग्धैः सोष्णैः श्लिष्टैः सुशोभनैः।
उन्नतैः स्वेदरहितैः शिराहीनैश्र्च पार्थिवः॥
इति कुतः गृहीतम्?
(अ) रुद्रयामलात् (स) गर्गसंहितातः
(ब) डामरतन्त्रात् (द) समुद्रात्
२००. पद्मरक्तोत्पलनिभैः तथा क्षतजसन्निभैः।
नृपाः पादतलैर्ज्ञेया ये चान्ये सुखभागिनः॥
कस्य वाक्यमिदम्?
(अ) गर्गस्य (स) कश्यपस्य
(ब) शौनकस्य (द) पराशरस्य
२०१. 'सिंहतुल्या कटिर्यस्य स नरेन्द्रो न संशयः' इति कस्य वचनम्?
(अ) समुद्रस्य (स) वसिष्ठस्य
(ब) पराशरस्य (द) गर्गस्य
२०२. ग्रीवा च वर्तुला यस्य स नरो धनवान् स्मृतः।
कम्बूग्रीवा नरा ये तु राजानस्ते न संशयः॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA