बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 712, कुल 760 में से
संदर्भ में पढ़ें६८४ बृहत्संहिता
१७२. पीता पताका कस्यां दिशि भवेत्?
(अ) पूर्वे (स) उत्तरे
(ब) ईशानकोणे (द) पश्चिमभागे
१७३. यार्चा शङ्कपहता सा तु प्रधानकुलनाशिनी ।
छिद्रेणोपहता या तु बहुदोषकरी मता ॥
कस्येदं पद्यम्?
(अ) कश्यपस्य (स) गर्गस्य
(ब) शौनकस्य (द) नारदस्य
१७४. पूर्वस्यां दिशि कस्य कृते मन्त्रो जाप्यते?
(अ) वरुणस्य कृते (स) इन्द्रस्य कृते
(ब) यमस्य कृते (द) कुवेरस्य कृते
१७५. मन्त्रान् के जपन्ति?
(अ) क्षत्रियाः (स) शूद्राः
(ब) वैश्याः (द) ब्राह्मणाः
१७६. ब्राह्मणाः कस्य कृते मन्त्रान् जपन्ति?
(अ) स्वस्य कृते (स) अन्यस्य कृते
(ब) यजमानस्य कृते (द) समेषां कृते
१७७. कदा प्रतिष्ठा कर्तव्या?
(अ) उत्तरायणे (स) वसन्तर्त्तौ
(ब) दक्षिणायने (द) माघे
१७८. कति दन्त्याः गावः शुभाः भवन्ति?
(अ) दश दन्त्याः (स) पञ्च दन्त्याः
(ब) सप्त दन्त्याः (द) चतुर्दन्त्याः
१७९. आपादक्षारकपिलाः कृष्णपुष्यचिताश्च ये ।
मार्जारकपिलाक्षाश्च दुर्बला यूथघातिनः ॥
पङ्कादिवार्त्ताः पादानुद्धरन्तो व्रजन्ति ये ।
अधूर्वहा भवन्त्येते भाराध्वनि विगर्हिताः ॥
इति कस्योक्तिः?
(अ) कश्यपस्य (स) शौनकस्य
(ब) गौतमस्य (द) पराशरस्य
१८०. शुक्लराजिपरीक्षिप्ते यस्यान्तर्लोचने शुभे ।
मल्लिकाक्षो महाधन्यः स महाकृष्णतारकः ॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA