बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 611, कुल 760 में से
संदर्भ में पढ़ेंग्रहगोचराध्यायः ५८३
धनक्षयाजीर्णरुगध्वदैन्यविक्षोभकृत् पञ्चमगः शशाङ्कः।
शत्रुक्षयारोग्यसुखार्थसिद्धिं स्निग्धागमप्रीतिकरश्च षष्ठः॥
जामित्रगः स्त्रीजनबन्धुशय्याहिरण्यभोज्याम्बरदः शशाङ्कः।
क्षुद्व्याधिचिन्ताकलहार्थनाशो मृत्युक्षयोपद्रवदोऽष्टमस्थः॥
धनक्षयारिव्ययमानभङ्गरोगादिकारी नवमः शशाङ्कः।
मेषूरणस्थो बहुमानहर्षचेष्टाफलौदार्यविरोघकारी॥
एकादशः स्निग्धविवाहशय्यास्त्रीभोजनप्राप्तिसुखार्थकारी।
निशाकरो द्वादशगस्तु दैन्यमालस्यमीर्ष्यापचयं च कुर्यात्॥ इति॥१०॥
अथ भौमस्य जन्मद्वितीयगतस्य फलमुपेन्द्रवज्रयाऽऽह—
कुजेऽभिघातः प्रथमे द्वितीये नरेन्द्रपीडाकलहारिदोषैः।
भृशं च पित्तानलचौररोगैरुपन्द्रवज्रप्रतिमोऽपि यः स्यात्॥११॥
यदि जन्मराशि में मंगल हो तो उपद्रव और द्वितीय में हो तो राजपीडा़, कलहदोष,
शत्रुदोष, धातुदोष, अग्नि, चोर, रोग—इन सबों से इन्द्रवज्र-सम कठोर मनुष्य को भी
अतिशय उपघात करता है। यह उपेन्द्रवज्रा छन्द है॥११॥
कुजे भौमे जन्मराशिगते अभिघात उपद्रवो भवति। द्वितीये कुजे नरेन्द्रपीडा राजपीडा।
कलहारिदोषैः, कलहदोषः शत्रुदोषः। एतैः। तथा पित्तेन धातुदोषेण। अनलेनाग्निना।
चौरैस्तस्करैः। रोगैर्गदैश्च। भृशमत्यर्थम्। उपघातः। अपिशब्दः सम्भावनायाम्। उपेन्द्र-
वज्रप्रतिमोऽपि, उपेन्द्रो नारायणः, तत्प्रतिमस्तत्सदृशः। वज्रं कुलिशम्, तत्प्रतिमोऽपि यदि
स्याद्भवेत् तथाप्युपघातो भवतीति। वृत्तमिदमुपेन्द्रवज्रा। तल्लक्षणम्—
उपेन्द्रवज्रा तु जतौ जगौ गः।
जो गुरुमध्यगतः। तोऽन्तलघुः। पुनरपि जकारः। अन्ते गुरुद्वयम्॥११॥
न्यासः— ज त ज गु
ISI SSI ISI SS
अथ तृतीयस्थभौमस्य फलमुपजात्याऽऽह—
तृतीयगश्चौरकुमारकेभ्यो भौमः सकाशात् फलमादधाति।
प्रदीप्तिमाज्ञां धनमौर्णिकानि धात्वाकराख्यानि किलापराणि॥१२॥
यदि मंगल तृतीय राशि में हो तो चोर और कुमारों (अष्टवर्षीय बालकों) के द्वारा
फल, आदेश, धन, ऊनी वस्त्र, खान से उत्पन्न द्रव्य और अन्य द्रव्यों का भी लाभ
कराता है। यह उपजाति छन्द है॥१२॥
तृतीयगो भौमः। चौरेभ्यस्तस्करेभ्यः। कुमारकेभ्योऽष्टवर्षेभ्यः। सकाशाद्धेतोः। फलमा-
दधाति करोति। प्रदीप्तं कान्तिम्। आज्ञामादेशम्। प्रभुत्वं धनं वित्तम्। और्णिकानि कम्बला-